यततो ह्यपि कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.६० यततोह्यपि कौन्तेय… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
यततो ह्यपि कौन्तेय...


रसबुद्धेः आपत्तिः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/६०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः विषया विनिवर्तन्ते...
अग्रिमश्लोकः तानि सर्वाणि संयम्य...

यततो ह्यपि कौन्तेय () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः रसबुद्धित्वात् का आपत्तिः ? इति वर्णयति । पूर्वस्मिन् श्लोके स्वल्पा रसासक्तिः अपि परमात्वतत्त्वस्य दर्शनेन निवृत्ता भवति इति विषयविच्छेदिस्थितप्रज्ञयोः भेदं वर्णयित्वा भगवान् अकथयत् । यदि रसासक्तिः (रागः) विद्वत्पुरुषे अवशिष्यते, तर्हि का हानिः ? इति अस्मिन् श्लोके वदति । अत्र इन्द्रियाणां प्रबलतायाः अपि निरूपणम् अस्ति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥

पदच्छेदः[सम्पादयतु]

यततः, हि, अपि, कौन्तेय, पुरुषस्य, विपश्चितः । इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मनः ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! यततः हि अपि विपश्चितः पुरुषस्य मनः प्रमाथीनि इन्द्रियाणि प्रसभं हरन्ति ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कौन्तेय अ.पुं.सम्बो.एक. अर्जुन !
यततः यतत्.त.पुं.ष.एक. (समाधौ) प्रयतमानस्य
अपि अव्ययम् अपि
विपश्चितः विपश्चित्-त.पुं.ष.एक. विदुषः
पुरुषस्य अ.पुं.ष.एक. मनुष्यस्य
मनः स.नपुं.द्वि.एक. चित्तम्
प्रमाथीनि प्रमाथिन्-न.नपुं.प्र.बहु. प्रपीडकानि
इन्द्रियाणि अ.नपुं.प्र.बहु. नेत्रादीनि इन्द्रियाणि
प्रसभम् अव्ययम् हठात्
हरन्ति √हृ हरणे-पर.कर्तरि, लट्.प्रपु.बहु आकर्षन्ति किल ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. यतयो हि = यततः + हि – वसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. ह्यपि = हि + अपि – यण्-सन्धिः

कृदन्तः[सम्पादयतु]

यततः = यत् + शतृ (कर्तरि) तस्य ।

अर्थः[सम्पादयतु]

कौन्तेय ! इन्द्रियाणि प्रमथनशीलानि भवन्ति । तानि समाधौ प्रयत्नं कुर्वतः मेधाविनः अपि पुरुषस्य मनः बलात् आकर्षन्ति ।

भावार्थः [१][सम्पादयतु]

हे कुन्तीनन्दन ! प्रमथनशीलानि (मन्थनस्वभावयुक्तानि) इन्द्रियाणि रसबुद्धेः धीमतः मनुष्यस्यापि मनः बलात् हरन्ति ।

'यततो ह्यपि...प्रसभं मनः' – यः स्वयं यत्नं करोति, साधनां करोति, सर्वाणि कार्याणि विवेकबुद्ध्या करोति, आसक्तिफलेच्छयोः त्यागं करोति, अन्यस्य हितं चिन्तयति, अपरं सुखिनं कर्तुं कार्यं करोति, अन्यस्य कल्याणस्य कामनां कुर्वन् स्वक्रियां करोति, कर्तव्याकर्तव्यं, सारासारं च यः जानाति, तादृशस्य धीमतः पुरुषस्य कृते अत्र 'यततो ह्यपि पुरुषस्य विपश्चितः' इत्यस्य पदस्य उपयोगः अस्ति । एवं प्रयत्नरतस्य धीमतः पुरुषस्यापि प्रमथनशीलानि इन्द्रियाणि तस्य मनः बलपूर्वकं विषयान् प्रति हरन्ति । एवं सः धीमान् पुरुषः विषयान् प्रति आकृष्टः भवति । अस्य अर्थः अस्ति यत्, यावत् पर्यन्तं बुद्धिः परमात्मनि पूर्णतया प्रतिष्ठिता न भवति, तावता साधनपरायणस्य धीमतः विवेकिपुरुषस्यापि इन्द्रियाणि तस्य वशे न भवन्ति । यदा विषयाः सम्मुखम् आयान्ति, तदा पूर्वोपभुक्तसंस्कारत्वात् इन्द्रियाणि मनः, बुद्धिं च बलपूर्वकं विषयान् प्रति प्रचोयदयन्ति । अनेकानि उदाहरणानि सन्ति यत्र ऋषयः, मुनयः च विषयान् प्रति विचलिताः अभूवन् । अतः 'मम इन्द्रियेषु मे वशः अस्ति' इति साधकेन कदापि न चिन्तनीयम् । एवं तेन कदापि अभिमानः न कर्तव्यः यत्, 'अहं जितेन्द्रियः' इति [२]

मर्मः[सम्पादयतु]

अस्मिन् श्लोके भगवान् इन्द्रियेभ्यः 'प्रमाथीनि' इति शब्दस्य उपयोगं करोति । षष्ठे अध्याये भगवान् अर्जुनस्य मनसः कृते 'प्रमाथि' इत्यस्य शब्दस्य प्रयोगं करोति [३] । अनेन सिद्ध्यति यत्, इन्द्रियं, मनश्च उभे अपि प्रमाथीनि स्तः इति । अत्र इन्द्रियाणां प्रबलताम् उपस्थापयन् भगवान् कथयति यत्, इन्द्रियाणि प्रमाथीनि मनः बलात् कर्षन्ति इति । अस्याध्यायस्य अष्टषष्टितमे श्लोके भगवान् कथयति यत्, मनः बुद्धिं हरति इति । एवं तत्र मनसः प्रबलता प्रदर्शिता । अस्य सारभूः अस्ति यत्, साधकेन मनेन्द्रिययोः उपरि संयमनं स्थापनीयम् । तदैव सः संयमी भवितुम् अर्हति ।

शाङ्करभाष्यम् [४][सम्पादयतु]

सम्यग्दर्शनलक्षणप्रज्ञास्थैर्यं चिकीर्षता आदौ इन्द्रियाणि स्ववशे स्थापयितव्यानि यस्मात्तदनवस्थापने दोषमाह - यतत इति ।

यततः  प्रयत्नं कुर्वतः  अपि हि  यस्मात्  कौन्तेय पुरुषस्य विपश्चितः  मेधाविनः अपि इति व्यवहितेन संबन्धः।  इन्द्रियाणि प्रमाथीनि  प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति आकुलीकृत्य च  हरन्ति प्रसभं  प्रसह्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः ।।

भाष्यार्थः[सम्पादयतु]

यथार्थज्ञानरूपबुद्धेः स्थिरताम् इच्छन् पुरुषः प्रप्रथमं तु इन्द्रियाणि वशीकुर्यात् । यदि तथा न भवति, तर्हि के दोषाः भवन्ति इति उपस्थापयति - हे कौन्तेय ! बुद्धिमतः, विचारशीलस्य, प्रयत्नरतस्य पुरुषस्यापि प्रमथनशीलानि इन्द्रियाणि तं विषयाभिमुखं पुरुषं क्षुब्धं व्याकुलं च कुर्वन्ति । ततश्च प्रकाशं पश्यतः तस्य बुद्धिमतः व्याकुलपुरुषस्य विवेकविज्ञानयुक्तं मनः अपि बलात् विचलितं कुर्वन्ति ।

रामानुजभाष्यम् [५][सम्पादयतु]

आत्मदर्शनेन विना विषयरागो न निवर्तते अनिवृत्ते विषयरागे  विपश्चितो  यतमानस्य  अपि पुरुषस्य   इन्द्रियाणि प्रमाथीनि  बलवन्ति  मनः  प्रसह्य  हरन्ति।  एवम् इन्द्रियजय आत्मदर्शनाधीन आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्राप्या।

भाष्यार्थः[सम्पादयतु]

आत्मसाक्षात्कारं विना विषयासक्तिः अपि न निवर्तते । यः विवेकशीलः पुरुषः विषयासक्तेः अनिवृत्त्यां सत्यामपि यत्नं करोति, तस्य मनः अपि मथनकारीणि बलवन्ति इन्द्रियाणि बलात्कारपूर्वकं विषयान् प्रति कर्षयन्ति । एवम् इन्द्रियेषु विजयप्राप्तिः आत्मसाक्षात्काराधीना । आत्मदर्शनम् इन्द्रियविजयाधीनम् । अत एव ज्ञाननिष्ठायाः प्राप्तिः अतीव कठिना ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
विषया विनिवर्तन्ते...
यततो ह्यपि कौन्तेय... अग्रिमः
तानि सर्वाणि संयम्य...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिद्रियग्रामो, विद्वांसमपि कर्षति ।। मनुस्मृतिः ।। २/२१५
  3. गीता, अ. ६ श्लो. ३४
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यततो_ह्यपि_कौन्तेय...&oldid=403643" इत्यस्माद् पुनः प्राप्तिः