नहि प्रपश्यामि ममापनुद्याद्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.८ न हि प्रपष्यामि… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
नहि प्रपश्यामि ममापनुद्याद्...


अर्जुनस्य युद्धोपरामनिर्णयः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/८
श्लोकच्छन्दः उपजातिच्छन्दः
पूर्वश्लोकः कार्पण्यदोषोपहत...
अग्रिमश्लोकः एवमुक्त्वा हृषीकेशं...

न हि प्रपश्यामि मापनुद्यात् () इत्यनेन श्लोकेन अर्जुनः युद्धोपरामनिर्णयस्य स्पष्टनिरूपणं करोति । पूर्वस्मिन् श्लोके अर्जुनः भगवतः शरणङ्गतः । सः जानाति स्म यत्, श्रीकृष्णस्य निर्णयस्तु युद्धस्यैवास्ति इति । अत एव श्रीकृष्णः "उत्तिष्ठ" इति आदिशत् । परन्तु अर्जुनः स्वस्य युद्धोपरामस्य निर्णयमेव योग्यं मन्यते स्म । यदि पुनः श्रीकृष्णः युद्धस्य आज्ञां दास्यति, तर्हि किम् ? इति विचिन्त्य अर्जुनः अत्र स्वस्य युद्धोपरामनिर्णयं विस्तारेण स्पष्टयति । सः कथयति यत्, पृथिव्यां धनधान्यदिसमृद्धयः, निष्कण्टकराज्यं, स्वर्गाधिपत्यप्राप्तिः इत्यादिकं प्राप्तं चेदपि इन्द्रियशोषकस्य मे शोकस्य निवारणम् अहं न पश्यामि इति । अर्जुनस्य मतम् आसीत् यत, भगवान् तस्य सुखाय, विजयाय च योद्धुम् आदिशति । परन्तु अहं तु विजयी सन्नपि शोकमग्न एव भविष्यामि इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
नहि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥

पदच्छेदः[सम्पादयतु]

न, हि, प्रपश्यामि, मम, अपनुद्यात्, यत्, शोकम्, उच्छोषणम्, इन्द्रियाणाम् । अवाप्य, भूमौ, असपत्नम्, ऋद्धम्, राज्यम्, सुराणाम्, अपि, च, आधिपत्यम् ॥

अन्वयः[सम्पादयतु]

भूमौ असपत्नम् ऋद्धं महत् राज्यं सुराणाम् आधिपत्यं च अवाप्य अपि (स्थितस्य) मम यत् इन्द्रियाणाम् उच्छोषणं शोकम् अपनुद्यात् (तत्कर्म) नहि प्रपश्यामि ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
भूमौ इ.स्त्री.स.एक. महीतले
असपत्नम् अ.नपुं.द्वि.एक. प्रतिस्पर्धिविरहितम्
ऋद्धम् अ.नपुं.द्वि.एक. धनधान्यादिभिःसमृद्धम्
राज्यं अ.नपुं.द्वि.एक. राज्यं
अव्ययम्
सुराणाम् अ.पुं.ष.बहु देवानाम्
आधिपत्यम् अ.नपुं.द्वि.एक. स्वामित्वम्
अवाप्य ल्यबन्तम् अव्ययम् प्राप्य अपि
अपि अव्ययम् अपि
मम अस्मद्-द.सर्व.ष.एक. मम
इन्द्रियाणाम् अ.नपुं.ष.बहु. इन्द्रियाणाम्
उच्छोषणम् अ.पुं.द्वि.एक. शोषकम्
शोकम् अ.पुं.द्वि.एक. दुःखम्
यत् यद्-द.सर्व.नपुं.प्र.एक. यत् दूरीकुर्यात् (तत्)
अपनुद्यात् अप+√णुद् प्रेरणे-पर.वि.लिङ्.प्रपु.एक.
अव्ययम्
हि अव्ययम् विशेषतः
प्रपश्यामि प्र+√दृशिर् प्रेक्षणे-पर.कर्तरि, लट्.उपु.एक. पश्यामि ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. ममापनुद्याद् = मम + अपनुद्यात् – सवर्णदीर्घसन्धिः
  2. यच्छोकम् = यत् + छोकम् – श्चुत्वसन्धिः, छत्वसन्धिः
  3. भूमावसपत्नम् = भूमौ + असपत्नम् – यान्तावान्तादेशसन्धिः
  4. चाधिपत्यम् = च + अधिपत्यम् – सवर्णदीर्घसन्धिः

समासः[सम्पादयतु]

  1. असप्नम् = न विद्यते सप्तनः यस्य तत् – नञ्बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. उच्छोषणम् = उत् + शुष् + ल्यु (कर्तरि)
  2. अवाप्य = अव + आप् + ल्युप्

तद्धितान्तः[सम्पादयतु]

  1. राज्यम् = राजन् + यत् (कर्मार्थे भावार्थे वा) । राज्ञः कर्म भावः वा इत्यर्थः ।
  2. आधिपत्यम् = अधिपति + यक् (भावे) अधिपतित्वम् इत्यर्थः ।

अर्थः[सम्पादयतु]

मया भूमौ अस्यां निष्कण्टकं समृद्धं राज्यं प्राप्येत, देवानां च आधिपत्यं लभ्येत, तथापि इन्द्रियाणां विशोषकः अयं शोकः गुरुबान्धवादीनां हननेच्छया समुत्पन्नः येन दूरीभवति तादृशं किमपि कर्म न पश्यामि ।

भावार्थः [१][सम्पादयतु]

'अवाप्य भूमावसपत्नमृद्धं राज्यम्' – यद्यप्यहं धनधान्यसम्पन्नं राज्यं प्राप्नुयाम्, तथाप्यहं शोकमुक्तः न भविष्यामि । अर्थात् यस्मिन् राज्ये प्रजाः सुखिन्यः भवेयुः, प्रजाः धनधान्यसम्पन्नाः स्युः, न कस्यापि वस्तुनः अभावः स्यात्, राज्यस्य कोऽपि शत्रुः अपि न स्याच्च, तादृशं राज्यं प्राप्यापि अहं मम शोकात् मुक्तिं न प्राप्स्यामि ।

'सुराणामपि चाधिपत्यम्' – न केवलम् एतान् भूलोकस्य भोगान् प्राप्य, अपि तु इन्द्रस्य दिव्यभोगयुक्तं राज्यमपि प्राप्य मे शोकः न व्यपगमिष्यति । अर्जुनः प्रथमाध्याय एवावदत् यत्, अहं विजयं, राज्यं, सुखं च नेच्छामि । यतः येभ्यः वयं राज्यभोगम् इच्छामः, तान् मारयित्वा वयम् एतत् सर्वं प्राप्स्यामः इति [२] । तस्मिन् काले युद्धोपरामस्य निर्णयः कौटुम्बिकममतायाः कारणेन आसीत् । अस्मिन् श्लोके युद्धोपरामस्य निर्णयः स्वकल्याणाय अस्ति । उभयोः निर्णयोः मध्ये भावस्य अन्तरम् अस्ति ।

'न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्' – यदि कुटुम्बकानां मृत्योः आशंकया एव महान् शोकः अस्ति, तर्हि तेषां मृत्यूत्तरं तु किं भविष्यति ? यदि राज्याय शोकः समुद्भवेत्, तर्हि राज्यप्राप्तौ सः शोकः उपशमति । परन्तु कुटुम्बनाशस्य शोकः राज्यप्राप्तौ कथं शमेत् ? युद्धोत्तरं तु शोकः इतोऽपि भयङ्करो भविष्यति । पृथिव्याः राज्यम् उत स्वर्गस्य आधिपत्यम् अपि इन्द्रियशोषकं शोकं दूरीकर्तुं न प्रभविष्यति ।

रामानुजभाष्यम्[सम्पादयतु]

एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युः इति चेत् अस्तु तद्वधलब्धविजयात् अधर्म्याद् अस्माकं धर्माधर्मौ अजानद्भिः तैः हननम् एव गरीयः इति मे प्रतिभाति इति उक्त्वा यत् मह्यं श्रेय इति निश्चितं तत् शरणागताय तव शिष्याय मे ब्रूहि इति अतिमात्रकृपणो भगवत्पादाम्बुजम् उपससार।

भाष्यार्थः[सम्पादयतु]

यदि भवान् कथयति यत्, युद्धोपरामत्वात् धृतराष्ट्रपुत्राः भवतः मारयिष्यति इति, तर्हि भवतु तत्; किञ्च गुरुजनानां वधोत्तरम् अधर्मयुक्तस्य विजयस्य कामना अस्माकं (पाण्डवानां) नास्ति । अतः धर्माधर्मविवेकहीनैः धार्तराष्ट्रैः अस्माकं वधमेव वरं मन्यामहे । ततः 'शिष्यस्तेहम्' इत्युक्तवान् अर्जुनः अत्यन्तदीनतापूर्वकं भगवतः श्रीचरणकमलयोः आश्रितः अभवत् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
कार्पण्यदोषोपहतस्वभावः...
नहि प्रपश्यामि ममापनुद्याद्... अग्रिमः
एवमुक्त्वा हृषीकेशं...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, श्लो. १, श्लो. ३२-३३

अधिकवाचनाय[सम्पादयतु]