अजितनाथः
अजितनाथः | |
---|---|
द्वितीयः जैनतीर्थङ्करः | |
अजितनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | ५ × १०२२३ वर्षाणि पूर्वम् |
परिवारः | |
पिता | राजा जितशत्रुः |
माता | विजयादेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | अयोध्या |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | स्वर्णः |
चिह्नम् | गजः |
औन्नत्यम् | ४५० धनुर्मात्रात्मकम् (१३५० मीटर्) |
आयुः | ७२,००,००० पूर्व (५०८.०३२ × १०१८ वर्ष) |
शासकदेवः | |
यक्षः | महायक्षः |
यक्षिणी | अजितबाला |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
अजितनाथः( ( शृणु) /ˈədʒɪtənɑːθəhə/) (हिन्दी: अजितनाथ,आङ्ग्ल: Ajitnatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु द्वितीयः तीर्थङ्करः अस्ति[१] । तस्य चिह्नं गजः अस्ति ।
जन्म, परिवारश्च
[सम्पादयतु]अयोध्यानगर्यां माघ-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ मध्यरात्रौ मङगलवेलायां भगवतः अजितनाथस्य जन्म अभवत् [२]। तस्मिन् दिने रोहिणीनक्षत्रमासीत् । शिशोः पादे गजस्य चिह्नम् आसीत् । एवं च यौवने तस्य शरीरस्य औन्नत्यं पञ्चाशताधिकं चतुश्शतं (४५०) धनूंषि च आसन् । तस्य पिता जितशत्रुः, माता विजयादेवी च आसीत् ।
एकस्मिन् दिवसे विजयादेव्या रात्रौ चतुर्दश महास्वप्नाः दृष्टाः आसन् । जितशत्रोः भ्रातुः सुमित्रस्य वैजयन्तीनामिकया पत्न्या अपि ते चतुर्दश महास्वप्नाः एव दृष्टाः । तस्मिन् दिने एव द्वे स्त्रियौ गर्भधारणं कृतवत्यौ । आगामिदिने स्वप्नशास्त्रिणां साहाय्येन स्वप्नानां निष्कर्षः कृतः । स्वप्नशास्त्रिभिः उक्तं यत् – “अस्मिन् कुले एकस्य तीर्थङ्करस्य, एकस्य चक्रवर्तिनः राज्ञः च जन्म भविष्यति” इति ।
यदा भगवतः जन्म अभवत्, तदा चतुःषष्टिः इन्द्राः तत्र उपस्थिताः आसन् । राज्ञा जन्मोत्सवः आचरितः । तस्मिन् प्रसङ्गे कारागारात् सर्वेभ्यः बन्दीभ्यः मुक्तिः प्रदत्ता । प्रतिगृहम् आनन्दस्य वातावरणम् आसीत् । एकादश दिनानि यावत् उत्सवः आचरितः आसीत् [३]।
पूर्वजन्म
[सम्पादयतु]भगवान् अजितनाथः अपि स्वस्य पूर्वजन्मनि महत्तपस्यां चकार । जम्बूद्वीपस्य महाविदेहक्षेत्रस्य सीतानद्याः तटे वत्सनामके देशे सुसीमा-नामिका नगरी आसीत् । तस्याः नगर्याः राजा विमलवाहनः आसीत् । सः एव अजितनाथस्य पूर्वजन्म आसीत् ।
राज्ये भोगाय बहूनि साधनानि आसन् । तथापि विमलवाहनस्य जीवनं वासनारहितमासीत् । आचार्येण अरिदमनेन सह विमलवाहनस्य मेलनम् अभवत् । तदनन्तरं विमलवाहनः साधनायां लीनः जातः । तेन सः पुत्राणां राज्याभिषेकं कृत्वा स्वस्य गुरुणा अरिदमनेन सह तपस्यां कर्तुं गतवान् [४]।
विमलवाहनेन गुरोः दीक्षा प्राप्ता । दीक्षानन्तरं विमलवाहनः तपस्यायां दतचित्तः अभूत् । तेन एकावली, रत्नावली, लघुसिंह, महासिंह, विक्रीडित इत्याद्याः कठोरतपस्याः कृताः । अन्ते अन्नमपि त्यक्त्वा स्वस्व प्राणत्यागः कृतः । अनन्तरं सः विजयनामकेन विमानेन स्वर्गलोकं गतः ।
नामकरणदिवसे पारिवारिकजनानां भोजनप्रसङ्गस्य आयोजनं कृतम् आसीत् । पुत्रस्य किं नाम भवेत् इति विषये अपि चर्चा जाता । तदा विजयादेव्या उक्तं यत् – “विवाहानन्तरं यदा यदा राज्ञा सह द्यूतक्रीडाः अभवन्, तदा तदा अहं पराजिता अभवम् । अतः मम एका इच्छा आसीत् यत् अहम् अपि एकवारं विजयिनी भवेयम् । यतः अयं पुत्रः मम कुक्षौ आगतः, तस्मात्कालात् अद्यावधिः एकं वारम् अपि अहं पराजिता न अभवम् । सर्वदा अजेया एव आसम्” ।
राज्ञा जितशत्रुणा उक्तं यत् – “समीपस्थेभ्यः राज्येभ्यः अपि शुभसमाचाराः प्राप्ताः । जितशत्रुः अजेयः अस्ति इति शासकाः वदन्ति । तेन कारणेन मे मतानुसारम् अस्य बालकस्य नाम अजितनाथः करणीयम् [५]। तावदेव अजितनाथः इति नाम प्रसिद्धम् अस्ति । अनुजस्य सुमित्रस्य पुत्रस्य नाम सगरः इति कृतम् ।
भगवान् अजितनाथः विवाहं कर्तुं नेच्छति स्म । किन्तु तस्मिन् काले जीवनक्रमे भोगस्य क्रमः अपि आसीत् । इन्द्रेण अपि अजितनाथः विवाहं कर्तुं प्रार्थितः । अतः अन्ते भोगक्रमानुसारम् अजितनाथेन विवाहः कृतः, वैवाहिकं जीवनं स्वीकृतं च ।
राज्यम्
[सम्पादयतु]एकदा जितशत्रुणा विचारितं यत् – “पुत्राः वयस्काः अभवन् । ते शासितुं योग्याः सन्ति । तथापि अहं शासनं कुर्वन् अस्मि । अतः शीघ्रातिशीघ्रं राज्यं त्यक्त्वा मया साधना करणीया” । इत्थं विचार्य सः राज्यस्य दायित्वं स्वस्यै अनुजभ्रात्रे सुमित्राय दातुम् ऐच्छत् । किन्तु सुमित्रः शासितुं नेच्छति स्म । सः अपि जितशत्रुणा सह साधनां कर्तुम् इच्छति स्म[६] ।
अनन्तरं जितशत्रुणा तस्य पुत्रस्य अजितनाथस्य राज्याभिषेकः कृतः । अजितनाथस्य राज्यसञ्चालनेन प्रजाः सुखं जीवन्ति स्म । राज्ये कस्यापि वस्तुनः अभावः नासीत् । जनानां मनसि अजितनाथाय स्नेहः आसीत् ।
अजितनाथः सुखेन शासनं कुर्वन् आसीत् । यथा कश्चन श्रेष्ठः सारथिः रथं श्रेष्ठतया चालयति, तथैव सः अपि श्रेष्ठतया राजशासनं चालयति स्म । सः शासने दक्षः, शक्तिशाली च आसीत् । अतः प्रजाः सम्पूर्णतया सहयोगं प्रददति स्म । तस्य शासने पशून् विहाय कोऽपि वृतः नासीत्[७] ।
अजितनाथस्य सकलैश्वर्यम् आसीत् । तथापि किञ्चिदपि अभिमानः नासीत् । शासने भगवतः अजितनाथस्य त्रिपञ्चाशत् पूर्व समयः व्यतीतः जातः ।
अभिनिष्क्रमणम्
[सम्पादयतु]एकदा भगवान् एकाकी उपविशन् आसीत् । तदा तस्य मनसि विचाराः प्रस्फुटिताः अभवन् । विचारेषु वैराग्यस्य अपि भावना उद्भूता [८]। तस्मिन् समये एव तस्य सम्पूर्णं शरीरं वैराग्ये लीनम् अभवत् ।
एकसप्ततिलक्षं वर्षाणि यावत् सः गृहे निवसति स्म । अनन्तरं तस्य अन्तर्मनः साधनायै उद्यतम् आसीत् । अतः इन्द्रादयः देवाः आगत्य रीतेः अनुसारम् अजितनाथाय प्रतिबोधं प्रादुः । यद्यपि तीर्थङ्करः स्वयमेव बुद्धः भवति , किन्तु लोकान्तिकदेवाः दीक्षायाः एकवर्षपूर्वं प्रतिबोधं ददति । ततः परमेव तीर्थङ्करः अभिनिष्क्रमणाय सज्जः भवति[९] ।
राजत्यागः
[सम्पादयतु]अजितनाथेन स्वस्य पितृव्यस्य पुत्राय सगराय सम्पूर्णराज्यसञ्चालनस्य दायित्वं प्रदत्तम् आसीत् । तत्पश्चात् सः वार्षिकीदानस्य आरम्भं कृतवान् । वार्षिकीदानस्य व्यवस्थां देवाः एव कुर्वन्ति स्म । अजितनाथेन अस्मिन् विधौ जनेभ्यः महद्दानं कृतम् आसीत् । कोऽपि जनः दानं स्वीकर्तुं शक्नोति स्म ।
इन्द्रस्य आज्ञया तिर्यकभृञ्जकसञ्ज्ञकैः देवैः समग्रदेशात् स्वामिहीनानि, भूमौ अन्तस्स्थानि, पर्वतानां गुहासु स्थितानि च वस्तूनि, धनानि च नगरस्य मध्यस्थले क्रोडीकृतानि । वस्तूनि, धनानि च क्रोडीकृत्य नगरे सन्देशं प्रेषितः यत् – “यः कोऽपि यावत् धनं, वस्तु वा इच्छति, सः आगत्य तावत् स्वीकर्तुं शक्नोति” ।
भगवान् अजितनाथः सूर्योदयतः भोजनस्य समयं यावत् दानं यच्छति स्म । जनाः अपि आवश्यकतानुसारम् एव धनं स्वीकुर्वन्ति स्म । जनाः अपि अनावश्यकं वस्तु, धनं वा न स्वीकुर्वन्ति स्म । भगवान् प्रतिदिनम् अष्टलक्षाधिकैककोटिस्वर्णमुद्राणां (१,०८,००,०००) दानं करोति स्म ।
अजितनाथेन एकवर्षं यावत् दानं कृतम् आसीत् । तेन एकस्मिन् वर्षे अशीतिलक्षोत्तराष्टाशीतिकोट्युत्तरत्र्यर्बुदं (३,८८,८०,००,०००) स्वर्णमुद्राणां दानं कृतम् आसीत् ।
दीक्षा
[सम्पादयतु]वार्षिकीदानानन्तरं दीक्षा स्वीकर्त्तव्या भवति । अतः वार्षिकीदानानन्तरं यदा भगवान् अजितनाथः दीक्षां प्राप्तुं तत्परः अभवत्, तदा राज्ञा सगरेण भगवतः दीक्षामहोत्सवः आचरितः । महोत्सवे चतुष्षष्टिः इन्द्राः अपि उपस्थिताः । सर्वे जनाः, देवाः च भगवता अजितनाथेन सह सहस्राम्रवनं नामकम् उद्यानं गतवन्तः । तत्र स्ववस्त्राभूषणानि त्यक्त्वा भगवान् अजितनाथः इन्द्रेण प्रदत्तम् अदूषितं वस्त्रं धृतवान् । माघ-मासस्य शुक्लपक्षस्य नवम्यां तिथौ रोहिणी-नक्षत्रे अजितनाथः जनानां समक्षं दीक्षां गृहीतवान् ।
दीक्षानन्तरं भगवता द्वादशवर्षाणि यावत् कठोरतपस्या, उत्कृष्टतमा साधना च कृता । सः प्रतिग्रामं भ्रमन् आसीत् । तत्पश्चात् सः पुनः अयोध्यानगरीं समागतः । पौष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ भगवान् ध्यानावस्थां प्रापत् । तत्र भगवता तीर्थस्य स्थापना कृता । किञ्चित्समयानन्तरम् एव बहवः जनाः अपि साधवः, साध्व्यः, श्रावकाः, श्राविकाः च अभवन् ।
धार्मिकः परिवारः
[सम्पादयतु]- ९५ गणधराः
- २२,००० केवलज्ञानिनः
- १२,५०० मनः पर्यवज्ञानिनः
- ९,४०० अवधिज्ञानिनः
- २०,४०० वैक्रियलब्धिधारिणः
- ३,७२० चतुर्दशपूर्विणः
- १२,४०० चर्चावादिनः
- १,००,००० साधवः
- ३,३०,००० साध्व्यः
- २,९८,००० श्रावका
- ५,४५,००० श्राविकाः
अयं भगवतः अजितनाथस्य धार्मिकपरिवारः वर्तते ।
निर्वाणम्
[सम्पादयतु]बहुवर्षाणि यावत् भगवता तपस्या कृता । अनन्तरं यदा तेन स्वस्य निर्वाणस्य ज्ञानम् अभवत्, तदा सः बहुभिः साधुभिः सह सम्मेदपर्वतं प्रापत् । तत्र तेन एकमासं यावत् जलान्नं त्यक्त्वा तपस्या कृता । चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ मृगशीर्षनक्षत्रे भगवतः निर्वाणम् अभवत् [१०]। अन्ते सः सिद्धत्वं प्रापत् । अनेन भगवन्तं मोक्षस्य प्राप्तिः अभवत् ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये अजितनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- भारत डिस्कवरी - अजितनाथ
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 48
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 49
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 49
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 48
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 50
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 42
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 42
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 43
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 50
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 88
अधिकवाचनाय
[सम्पादयतु]- जैनधर्म और भगवान अजितनाथ Archived २०१६-०३-०५ at the Wayback Machine