विमलनाथः
विमलनाथः | |
---|---|
त्रयोदशः जैनतीर्थङ्करः | |
विमलनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १.६ × १०२११ वर्षाणि पूर्वम् |
परिवारः | |
पिता | कृतवर्मा |
माता: | श्यामा |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | कम्पिलपुर |
निर्वाण | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | सूकरः |
औन्नत्यम् | ६० धनुर्मात्रात्मकम् (१८० मीटर्) |
आयुः | ६०,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | षण्मुखः |
यक्षिणी | विदिता |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
विमलनाथः ( ( शृणु) /ˈvɪmələnɑːθəhə/) (हिन्दी: विमलनाथ,आङ्ग्ल: Vimalnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु त्रयोदशः तीर्थङ्करः अस्ति । भगवतः विमलनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सूकरः (Pig) अस्ति । भगवान् विमलनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् ।
कौमारावस्थायां विमलनाथस्य शरीरस्य औन्नत्यं षष्टि (६०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “षण्मुख” इत्याख्यः यक्षः, “विदिता” इत्याख्या यक्षिणी च आसीत् ।
जन्म, परिवारश्च
[सम्पादयतु]भरतक्षेत्रस्य कम्पिलपुर-नगरे माघ-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ उत्तराभाद्रपद-नक्षत्रे मध्यरात्रौ भगवतः विमलनाथस्य जन्म अभवत् ।
विमलनाथस्य पितुः नाम कृतवर्मा, मातुः नाम श्यामा च आसीत् । कृतवर्मा कम्पिलपुरस्य राजा आसीत् । कृतवर्मा एकः तेजस्वी, श्रेष्ठः च राजा आसीत् । तस्य शासनकाले जनाः आनन्देन जीवन्ति स्म । एकदा वैशाख-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ उत्तराभाद्रपदनक्षत्रे रात्रौ श्यामादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।
राजा कृतवर्मा आगामिदिवसे स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तं यत् – “एते स्वप्नाः साधारणाः न सन्ति । एतैः स्वप्नैः कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति ज्ञायते । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।
नवमासानन्तरं भगवतः विमलनाथस्य जन्म अभवत् । प्रसवसमये काचिदपि पीडा न जाता । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं कृतवान् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।
पूर्वजन्म
[सम्पादयतु]घातकीखण्डस्य पूर्वविदेहे भरतविजये महापुरी-नामिका नगरी आसीत् । तस्याः नगर्याः राजा पद्मसेनः आसीत् । पद्मसेनः एव भगवतः विमलनाथस्य पूर्वजन्म आसीत् । भगवान् विमलनाथः पूर्वजन्मनि सर्वज्ञताप्राप्तये दीर्घकालं यावत् तपस्यां चकार । यतः सर्वज्ञताप्राप्तये दीर्घकालप्रयत्नानाम् आवश्यकता वर्तते । केवलम् एकस्मिन् भवे एव सर्वज्ञता न प्राप्यते । बहूनां जन्मनां भवानां वा अन्ते एव आत्मनः उज्ज्वलतां प्राप्तुं शक्यते ।
प्रत्येकैः तीर्थङ्करैः स्वस्य पूर्वजन्मनि विविधरीत्या साधना कृता आसीत् । भगवता विमलनाथेन अपि तथैव साधना कृता । पद्मसेनः सर्वैश्वर्ययुतः आसीत् । तथापि कस्यापि वस्तुनः मोहः एव नासीत् । सः विरक्तजीवनं जीवति स्म । यदा दीक्षायाः समयः जातः, तदा पद्मसेनेन सर्वगुप्ताचार्यात् दीक्षा गृहीता ।
अनन्तरं सः साधनायां लीनः जातः । अनया साधनया तेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् । अन्ते पद्मसेनेन अनशनं कृत्वा शरीरस्य त्यागः कृतः । सः अष्टमं देवलोकं गतः ।
भगवतः विमलनाथस्य जन्मनः एकादशदिनानि अनन्तरं राज्ञा कृतवर्मणा नामकरणसंस्कारस्य विधिः आयोजितः । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकदेवाः चापि उत्सवम् आचरितवन्तः आसन् । उत्सवे देवानाम् उपस्थितिः आवश्यकी वर्तते । नामकरणोत्सवे नगरस्य प्रतिष्ठितजनाः अपि आमन्त्रिताः आसन् ।
राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । श्यामादेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरं दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।
अन्ते गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकालस्य आरम्भादेव श्यामादेव्याः विचाराः विमलाः (पवित्राः) आसन् । बालकः अपि अत्यन्तः विमलः (उज्ज्वलः) वर्तते । अतः अस्य बालकस्य नाम विमलकुमारः इति करणीयम्” इति । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव विमलनाथः इति नाम्ना ख्यातः अस्ति ।
श्यामादेव्या श्रेष्ठतया विमलनाथः पालितः । समयान्तरे भगवतः विमलनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । विमलनाथः यत्र यत्र गच्छति तत्र निवसन्तः जनाः तस्मिन्नाकृष्टाः भवन्ति स्म । भगवतः शरीरम् उज्ज्वलम् आसीत् ।
किशोरावस्थायामापन्नः राजा कृतवर्मा अनेकाभिः राजकन्याभिः सह विमलनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः कृतवर्मणः मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन विमलनाथस्य राज्याभिषेकः कृतः, विमलनाथाय राज्यस्य दायित्वं चापि प्रदत्तम् आसीत् । ततः परं कृतवर्मा दीक्षां स्व्यकरोत् ।
राज्यम्
[सम्पादयतु]विमलनाथः यदा राजपदं प्रापत्, तावदेव तेन श्रेष्ठतया शासनं कृतम् आसीत् । विमलनाथेन राज्यस्य मातृवत् पालनं कृतम् आसीत्, तथैव तेन अपि राज्यस्य सत्यनिष्ठया पालनं कृतम् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन विमलनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । प्रजाजनाः परस्परम् एव विवादान् निवारयन्ति स्म ।
राजा विमलनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राजा सर्वेषां जनानां प्रियः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । प्रजानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म ।
भगवतः विमलनाथस्य प्रभावेण राज्ये कदापि अतिवृष्ट्याः, अनावृष्ट्याः वा कस्याः अपि प्राकृतिक्यापदः प्रकोपः नासीत् । तस्य राज्यम् आपद्विहीनम् आसीत् । राज्ये जनाः सामान्यरोगैः ग्रस्ताः भवन्ति स्म । किन्तु भयङ्कररोगैः कोऽपि ग्रस्तः नासीत् । राज्ये प्रजाः सुखिनः आसन् ।
राजत्यागः, दीक्षा च
[सम्पादयतु]भगवान् विमलनाथः त्रिंशल्लक्षवर्षाणि यावत् राज्यस्य सञ्चालनं कृतवान् आसीत् । यदा सः दीक्षायाः समयं ज्ञातवान् आसीत्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तवान् । विमलनाथस्य मनसि वैराग्यस्य भावना उद्भूता । अतः सः विरक्तः जातः ।
विमलनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता विमलनाथेन वार्षिकीदानम् आरब्धम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सः सुवर्णमुद्रिकानां दानं कुर्वन् आसीत् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यतः राज्ञः स्वभावः शान्तः, तेजस्वी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा माघ-मासस्य शुक्लपक्षस्य चतुर्थ्यां तिथौ उत्तराभाद्रपद-नक्षत्रे भगवान् विमलनाथः सहस्रजनैः सह कम्पिल-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता विमलनाथेन दीक्षा स्वीकृता ।
दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता विमलनाथेन धान्यकट-नगरस्य राज्ञः जयस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं वर्षद्वयं यावत् भगवान् विमलनाथः रहसि आसीत् । भगवता विमलनाथेन वर्षद्वयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः कम्पिल-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् ।
कम्पिलपुरे पौष-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ उत्तराभाद्रपद-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
ततः परं भगवता विमलनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः विमलनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।
अपूर्वप्रभावः
[सम्पादयतु]भगवतः विमलनाथस्य शासनकाले मेरकनामकः प्रतिवासुदेवः, स्वयम्भूनामकः वासुदेवः, भद्रनामकः बलदेवः च आसीत् । ते सर्वे जयनायकाः आसन् । ते भगवतः विमलनाथस्य समवसरणसमये आगच्छन्ति स्म [३]। ते भगवतः सेवाम् अपि कुर्वन्ति स्म ।
तेषु जयनायकेषु भगवतः अपूर्वः प्रभावः आसीत् । स्वयम्भोः मृत्योः अनन्तरं भद्रः दीक्षां प्राप्तवान् आसीत् । भगवतः विमलनाथस्य धनिकेषु , निर्धनेषु च समानः प्रभावः आसीत् । तत्कालीनेषु विक्रमराजसु अपि तस्य प्रभावः अद्भुतः आसीत् ।
धार्मिकः परिवारः
[सम्पादयतु]यदा भगवान् विमलनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा विमलनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]।
- ५७ गणधराः
- ५,५०० केवलज्ञानिनः
- ५,५०० मनःपर्यवज्ञानिनः
- ४,८०० अवधिज्ञानिनः
- ९,००० अवैक्रियलब्धिधारिणः
- १,१०० चतुर्दशपूर्विणः
- ३,२०० चर्चावादिनः
- ६८,००० साधवः
- १,००,००० साध्व्यः
- २,०८,००० श्रावकाः
- ४,२४,००० श्राविकाः
निर्वाणम्
[सम्पादयतु]यदा भगवता विमलनाथेन स्वस्य निर्वाणसमयः ज्ञातः, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र तेन अनशनं कृतम् आसीत् । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।
तत्पश्चात् अनशनान्ते आषाढ-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ रेवती-नक्षत्रे सम्मेदशिखरे भगवतः विमलनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः [५]।
विमलनाथेन कौमारावस्थायां पञ्चदशलक्षवर्षाणां, राज्ये त्रिंशल्लक्षवर्षाणां, दीक्षायां पञ्चदशलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने षष्टिलक्षवर्षाणि भुक्तानि आसन् [६]।
भगवतः वासुपूज्यस्य निर्वाणानन्तरं त्रिंशत्सागरोपममात्रात्मकानां वर्षाणां परं विमलनाथः मोक्षं प्रापत् । वासुपूज्यस्य तीर्थे स्वयम्भूः वासुदेवः, भद्रनामकः बलदेवः च अभवत् [७]।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये विमलनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- भारत डिस्कवरी - विमलनाथ
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – विमलनाथ
- श्री विमलनाथ भगवान Archived २०१६-०३-०५ at the Wayback Machine
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 72
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 72
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 101
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 101
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 72
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 102
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 69