न त्वेवाहं जातु नासं...
न त्वेवाहं जातु नासं... शोकस्य अनुचितत्वम् | |
---|---|
श्लोकसङ्ख्या | २/१२ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | अशोच्यानन्वशोचस्त्वं... |
अग्रिमश्लोकः | देहिनोऽस्मिन्यथा देहे... |
नत्वेवाहं जातु नासम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः पदार्थयोः कृते शोकस्य अनुचितत्वं बोधयति । पूर्वस्मिन् श्लोके अर्जुनस्य शोकनिवृत्त्यै उपदेशम् आरब्धवान् श्रीकृष्णः अर्जुनस्य पाण्डित्यपूर्णवचनानां माध्यमेन शोकः न करणीयः ? इति उक्तवान् । अत्र शोकः किमर्थं न करणीयः इत्यस्य समाधानं वदति । सः वदति यत्, कस्मिंश्चित् काले अहं नासं, त्वं नासीः, एते राजानः च नासन् इति नास्ति । एवञ्च इतः परम् अहं, त्वम्, एते राजानः च न भवियन्ति इत्यपि नास्ति इति ।
श्लोकः
[सम्पादयतु]- न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
- न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥
पदच्छेदः
[सम्पादयतु]न, तु, एव, अहम्, जातु, न, आसम्, न, त्वम्, न, इमे, जनाधिपाः । न, च, एव, न, भविष्यामः, सर्वे, वयम् , अतः, परम् ॥
अन्वयः
[सम्पादयतु]अहं जातु न आसम्, न तु एव त्वम् (आसीः), न इमे जनाधिपाः (आसन्), न अतः परं वयं सर्वे न च एव भविष्यामः ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
अहम् | अस्मद्-द.सर्व.प्र.एक. | अहम् |
जातु | अव्ययम् | कदाचिदपि |
न | अव्ययम् | अवश्यम् |
तु | अव्ययम् | |
एव | अव्ययम् | |
आसम् | √अस सत्तायाम्-पर.कर्तरि, लङ्.उपु.एक. | आसम् |
त्वं न तु एव न (आसीः) | युष्मद्-द.सर्व.पं.एक. | त्वमपि अवश्यम् आसीः |
अतः | अव्ययम् | इतः |
परम् | अ.नपुं.द्वि.एक.क्रियाविशेषणम् | ऊर्ध्वम् |
सर्वे | अ.सर्व.पुं.प्र.बहु | समस्ताः |
वयम् | अस्मद्-द.सर्व.प्र.बहु. | वयं |
न च एव न | अव्ययम् | अवश्यम् |
भविष्यामः | √भू सत्तायाम्-पर.कर्तरि, लृट्.उपु.बहु. | भविष्यामः |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- त्वेवाहम् = तु + एव + अहम् – यण्सन्धिः, सवर्णदीर्घसन्धिः
- नासम् = न + आसम् - सवर्णदीर्घसन्धिः
- नेमे = न + इमे – गुणसन्धिः
- चैव = च + एव – वृद्धिसन्धिः
समासः
[सम्पादयतु]- जनाधिपाः = जनानाम् अधिपाः - षष्ठीतत्पुरुषः
अर्थः
[सम्पादयतु]अहं सर्वदा आसम् । त्वं सर्वदा आसीः । एते राजानः अपि सर्वदा आसन् । इतःपरमपि वयं सर्वे सर्वदा भविष्यामः । आत्मा स्थिरः इति वयं सर्वे सर्वदा अवश्यं भवामः इत्यभिप्रायः ।
संसारमात्रे वस्तुद्वयम् अस्ति । शरीरी, शरीरञ्च । अर्थात् सत्, असच्च । एते वस्तुनी अशोच्ये स्तः । अर्थात् शोकः शरीरित्वात् उत शरीरत्वात् भवितुं नार्हति । किञ्च शरीरिणः कदापि अभावः न भवति । शरीरञ्च कदापि स्थायि न भवति । एतयोः कृते एव पूर्वस्मिन् श्लोके "अशोच्यान्" इत्यस्य पदस्य उपयोगः कृतः । तस्य पदस्य टीकां कर्तुं भगवान् शरीरिणः नित्यतायाः, शरीरस्य अनित्यतायाः च उपस्थापनं करोति ।
'न त्वेवाहं जातु... जनाधिपाः' – लौकिकदृष्ट्या यावता मया एषः अवतारः (श्रीकृष्णरूपेण) न स्वीकृतः आसीत्, तावता अहम् अप्रत्यक्षः आसम् । त्वमपि यावता एतस्मिन् रूपे जन्म न प्राप्तवान् आसीत्, तावता सर्वेभ्यः अप्रकटः आसीः । एते राजानः अपि यावता जन्म न प्राप्तवन्तः, तावता अप्रत्यक्षाः आसन् । परन्तु अहं, त्वम्, एते राजानः च एतस्मिन् रूपे अप्रकटितेषु सत्सु अपि न आसन् इति नास्ति ।
"अहं, त्वम्, एते राजानः पूर्वम् आसन्" इत्युक्ते सत्यपि विषयबोधः शक्यः आसीत् । तथापि "अहं, त्वम्, एते राजानः च पूर्वं नासन्" इति उक्तम् । यतो हि "पूर्वं नासन् इति नास्ति" इत्युक्ते "पूर्वे वयं सर्वे अवश्यम् आस्म" इति दृढसङ्केतः भवति । तात्पर्यम् अस्ति यत्, नित्यतत्त्वं सर्वदा नित्यम् अस्ति । तस्य कदापि अभावः न भवति । "जातु" इत्यस्य पदस्योपयोगस्य कारणम् अस्ति यत्, भूतभविष्यवर्तमानकालेषु, कस्मिंश्चित् स्थले, परिस्थितौ, अवस्थायां, घटनायां, वस्त्वित्यादिषु नित्यतत्त्वस्य ईषदपि अभावः असम्भवः ।
अत्र "अहम्" इत्यस्य पदस्य उपयोगेन भगवान् विलक्षणं चर्चां करोति । अग्रे चतुर्थेऽध्याये भगवान् अर्जुनं कथयिष्यति यत्, "मम, तव च अनेकानि जन्मानि जातानि । परन्तु तानि अहं जानामि, त्वं न" इति [२] । एवं भगवान् स्वस्य ईश्वरत्वं प्रकटीकृत्य जीवेभ्यः स्वस्य भिन्नत्वं प्रदर्शयिष्यति । परन्तु अत्र भगवान् जीवैः सह स्वस्य ऐक्यं प्रदर्शयति । अर्थात् चतुर्थेऽध्याये भगवान् स्वस्य महत्तां, विशेषतां च प्रकटयति, अत्र च तात्त्विकदृष्ट्या नित्यत्त्वं प्रदर्शयति ।
'न चैव... वयमतः परम्' – भविष्ये शरीराणाम् एतादृशी अवस्था न भविष्यति । एकस्मिन् दिने शरीराणि अपि न भविष्यन्ति । परन्तु तादृशीषु अवस्थासु सर्वे न भविष्यन्ति इति नास्ति । अर्थात् वयं सर्वे अवश्यं भविष्यामः । किञ्च नित्यतत्त्वस्य कदापि अभावः नासीत्, न भविष्यति च । अहं, त्वम्, एते राजानः च सर्वे पूर्वमपि नासन् इति नास्ति, अग्रेऽपि न भविष्यामः इत्यपि नास्ति । एवं भूतभविष्ययोः चर्चां भगवान् कृतवान् । परन्तु वर्तमानस्य विषये भगवान् किमपि नावदत् । यतः शरीरस्य दृष्ट्या वयं सर्वे सद्यः प्रत्यक्षाः स्मः । तस्मिन् विषये न कस्यापि संशयः अस्ति । अतः "वयम् अधुना न स्मः इति नास्ति" इति भगवान् नावदत् । यदि तात्त्विकदृष्ट्या पश्यामः, तर्हि वयं सर्वे अधुना स्मः । केवलं शरीरमिदं प्रतिक्षणं परिवर्तितं भवति । एतस्मात् शरीरात् भिन्नत्वानुभवः अस्माभिः वर्तमानकाले एव करणीयः । तात्पर्यम् अस्ति यत्, यथा भूतभविष्यतोः स्वस्य सत्तायाः अभावः नास्ति, तथैव वर्तमानकालेऽपि स्वस्य सत्तायाः अभावः नास्ति इत्यनुभवः करणीयः । यथा प्रत्येकं प्राणी निद्रायाः जागरूकतायाः प्राग् अपि "अधुना अहमस्मि" इत्यस्य अनुभवं करोति, तथा निद्राभङ्गोत्तरम् अपि "अहम् अधुना अस्मि" इति अनुभवति । निद्रावस्थायां, जागरूकावस्थायां च वयं तु तथैव आस्म, केवलं बाह्यज्ञानसामग्रीणाम् अभावः आसीत्, परन्तु अस्माकम् अभावः नासीत् । एवम् अहं, त्वम् एते राजानः च एतेभ्यः शरीरेभ्यः प्राग् अपि आस्म, पश्चात् अपि भविष्यामः । एतत् शरीरम् अधुनापि नाशं प्रति गच्छत् अस्ति, परन्तु अस्माकं सत्ता पूर्वमपि आसीत्, पश्चात् भविष्यति, अधुनापि अस्ति च । अस्माकं सत्ता कालातीता अस्ति । किञ्च वयं सर्वे कालज्ञातारः स्मः । अर्थात् भूतभविष्यद्वर्तमानानां त्रिकालानां ज्ञातारः । तत् कालातीततत्त्वं बोधयितुम् एव भगवान् एनं श्लोकम् अवदत् ।
मर्मः
[सम्पादयतु]"अहं, त्वम्, एते राजानः च पूर्वे नासन् इति नास्ति, अग्रे न भविष्यन्ति इत्यपि नास्ति" इत्यस्य तात्पर्यम् अस्ति यत्, यदा शरीराणि नासन्, तदा वयं सर्वे आस्म । यदा शरीराणि न भविष्यन्ति, तदापि वयं भविष्यामः । अर्थात् एतानि शरीरादिवस्तूनि तु अनित्यानि सन्ति इति सिद्ध्यति । "शरीरात् पूर्वं वयम् आस्म, शरीरोत्तरम् अपि भविष्यामः" इत्यनेन स्वरूपस्य नित्यता सिद्ध्यति । एवं सिद्धान्तः भवति यत्, आद्यन्तयोः यः भवति, सः मध्येऽपि भवति । तथा च यः आद्यन्तयोः न भवति, सः मध्येऽपि न भवति इति ।
यः आद्यन्तयोः न भवति, सः मध्ये कथं न भवति ? इति । वर्तमाने तु वयं तत् द्रष्टुं शक्नुमः खलु ? तस्योत्तरम् अस्ति यत्, यत् दृष्ट्या अर्थात् मनोबुद्धीन्द्रियैः दृश्यम् अस्ति, तत् दृश्यं मनोबुद्धीन्द्रियसहितं प्रतिक्षणं परिवर्तनशीलम् अस्ति । तत् एकक्षणम् अपि स्थायि न भवति । परन्तु यदा स्वस्य दृश्येन सह तादात्म्यसम्बन्धः स्थापितः भवति, तदा सः दृष्टा भवति । यदि दृश्यमाध्यमानि (मनोबुद्धीन्द्रियाणि), दृश्यं (मनोबुद्धीन्द्रियाणां विषयाः) च एकक्षणम् अपि स्थायित्वं न प्राप्नुवन्ति, तर्हि दृष्टा स्थायी कथम् ? तात्पर्यम् अस्ति यत्, दृष्टा संज्ञा दृश्यस्य, दर्शनस्य च सम्बन्धेन एव । दृश्यदर्शनयोः सम्बन्धाभावे 'दृष्टा' इति संज्ञा तु न भवत्येव । प्रत्युत तयोः आधारभूतं नित्यत्त्वम् एव अवशिष्यते । तत् नित्यत्त्वम् अस्माकं सर्वेषां कारणं, प्रलयाधारादीनां प्रकाशकं च वक्तुं शक्नुमः । परन्तु तत्र आधेयः, प्रकाश्यश्च इत्येतयोः सम्बन्धौ एव स्तः । आधेयप्रकाश्ययोः असत्ययोः अपि तस्य सत्ता तथैव भवति । तत् सत्यतत्त्वं प्रति यस्य दृष्टिः भवति, सः शोकं कथं कुर्यात् ? अर्थात् सः कदापि शोकं न करोति । एवम् अहं, त्वम्, एते राजानः च अशोच्याः ।
कुतस्ते अशोच्याः यतो नित्याः। कथम् -
न तु एव जातु कदाचित् अहं नासम् किं तु आसमेव। अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहमासमित्यभिप्रायः। तथा न त्वं न आसीः किं तु आसीरेव। तथा न इमे जनाधिपाः न आसन् किं तु आसन्नेव। तथा न च एव न भविष्यामः किं तु भविष्याम एव सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले अपि। त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः। देहेभेदानुवृत्त्या बहुवचनम् नात्मभेदाभिप्रायेण।।
भाष्यार्थः
[सम्पादयतु]ते भीष्मादयः अशोच्याः कथम् ? यतः ते नित्याः सन्ति । कथं ते नित्याः ? चेत्, -
कस्मिंश्चित् काले अहं नासम् इति नास्ति, यतः अवश्यम् आसम् । अर्थात् भूतपूर्वशरीराणाम् उत्पत्तौ, विनाशे च अहं सर्वदा आसम् । तथैव त्वम्, एते राजानः चापि आसन् । इतः परम् अर्थात् एतेषां शरीराणां नाशे सत्यपि वयं भविष्यामः । त्रिषु कालेषु आत्मरूपेण सर्वे नित्याः इत्यभिप्रायः । अत्र देहभेदत्वात् बहुवचनान्तस्य प्रयोगः, न तु आत्मभेदाभिप्रायत्वात् ।
प्रथमं तावद् आत्मनां स्वभावं श्रृणु -
अहं सर्वेश्वरः तावद् अतो वर्तमानात् पूर्वस्मिन् अनादौ काले न नासम् अपि तु आसम्। त्वन्मुखाः च एते ईशितव्याः क्षेत्रज्ञा न नासन् अपि त्वासन्। अहं च यूयं च सर्वे वयमतः परम् अस्माद् अनन्तरे काले न चैव न भविष्यामः अपि तु भविष्याम एव।
यथा अहं सर्वेश्वरः परमात्मा नित्य इति न अत्र संशयः तथैव भवन्तः क्षेत्रज्ञा आत्मानः अपि नित्या एव इति मन्तव्याः।
एवं भगवतः सर्वेश्वराद् आत्मनां परस्परं च भेदः पारमार्थिकः इति भगवता एव उक्तम् इति प्रतीयते। अज्ञानमोहितं प्रति तन्निवृत्तये पारमार्थिकनित्यत्वोपदेशसमयेअहम्त्वम्इमेसर्वेवयम् इति व्यपदेशात्।
औपाधिकात्मभेदवादे हि आत्मभेदस्य अतात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते।
भगवदुक्तात्मभेदः स्वाभाविकः इति श्रुतिः अपि आह नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्। (श्वेता0 6।13) इति। नित्यानां बहूनां चेतनानां य एकः चेतनो नित्यः स कामान् विदधाति इत्यर्थः। अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्टेः निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारात् निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराः च न संगच्छन्ते।
अथ परमपुरुषस्य अधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपम् इदं भेदज्ञानं दग्धपटादिवत् न बन्धकम् इति उच्येत न एतद् उपपद्यते मरीचिकाजलज्ञानादिकं हि बाधितम् अनुवर्तमानम् अपि न जलाहरणादिप्रवृत्तिहेतुः। एवम् अत्र अपि अद्वैतज्ञानेन बाधितं भेदज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थविषयत्वनिश्चयात् न उपदेशादिप्रवृत्तिहेतुः भवति। न च ईश्वरस्य पूर्वम् अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्यः सर्वज्ञः सर्ववित् (मु0 उ0 2।1।9) परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च। (श्वेता0 6।8)वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन।। (गीता 7।26) इति श्रुतिस्मृतिविरोधात्।
किं च परमपुरुषश्च इदानीन्तनगुरुपरम्परा च अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमाने अपि भेदज्ञाने स्वनिश्चयानुरूपम् अद्वितीयम् आत्मज्ञानं कस्मै उपदिशति इति वक्तव्यम्।
प्रतिबिम्बवत्प्रतीयमानेभ्यः अर्जुनादिभ्यः इति चेत् न एतद् उपपद्यते न हि अनुन्मत्तः कोऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु तेषां स्वात्मनः अनन्यत्वं जानन् तेभ्यः कमपि अर्थम् उपदिशति।
बाधितानुवृत्तिः अपि तैः न शक्यते वक्तुम् बाधकेन अद्वितीयात्मज्ञानेन आत्मव्यतिरिक्तभेदज्ञानकारणस्य अज्ञानादेः विनष्टत्वात्। द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोः अविनष्टत्वाद् बाधितानुवृत्तिः युक्ता। अनुवर्तमानम् अपि प्रबलप्रमाणबाधितत्वेन अकिञ्चित्करम्। इह तु भेदज्ञानस्य सविषयस्य सकारणस्य अपारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वात् न कथञ्चिद् अपि बाधितानुवुत्तिः संभवति। अतः सर्वेश्वरस्य इदानीन्तनगुरुपरम्परायाः च तत्त्वज्ञानम् अस्ति चेद् भेददर्शनतत्कार्योपदेशाद्यसंभवः। भेददर्शनमस्ति इति चेद् अज्ञानस्य तद्धेतोः स्थितत्वेन अज्ञत्वाद् एव सुतराम् उपदेशो न संभवति।
किं च गुरोः अद्वितीयात्मविज्ञानाद् एव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वात् शिष्यं प्रति उपदेशो निष्प्रयोजनः। गुरुः तज्ज्ञानं च कल्पितम् इति चेत् शिष्यतज्ज्ञानयोः अपि कल्पितत्वात् तदपि अनिवर्त्तकम्। कल्पितत्वेऽपि पूर्वविरोधित्वेन निवर्त्तकम् इति चेत् तदाचार्यज्ञानेऽपि समानम् इति तद् एव निवर्तकं भवति इति उपदेशानर्थक्यम् एव इति कृतम् असमीचीनवादैः निरस्तैः।
भाष्यार्थः
[सम्पादयतु]अहं सर्वेश्वरः वर्तमानकालात् पूर्वमपि अनादिकालेऽवश्यम् आसम् । मम शासने स्थिताः त्वया सहिताः एते क्षेत्रज्ञाः (आत्मानः) अपि पुरा अवश्यम् आसन् । अहं, त्वम्, एते च अग्रे न भविष्यामः इति नास्ति, अर्थात् अग्रे निश्चयेन भविष्यामः । यथाहं सर्वेश्वरः परमात्मा नित्यः इत्यस्मिन् न कोऽपि सन्देहः, तथैव क्षेत्रज्ञात्मगणोऽपि निस्सन्देहः नित्यः इति बोध्यम् ।
भगवतः सर्वेश्वरात् परमात्मनः जीवानां, जीवानां परस्परं भेदः च यथार्थः अस्ति इति भगवता उक्तेन अनेन श्लोकेन प्रतीयते । किञ्च भगवान् अज्ञानमोहितम् अर्जुनं प्रति अज्ञाननिवृत्त्यै पारमार्थिकनित्यतायाः उपदेशं कुर्वन् "अहं", "त्वम्", "इमे", "सर्वे", "वयम्" इत्येतेषां पदानाम् उपयोगः कुर्वाणः अस्ति ।
उपाधिकृतस्य आत्मभेदस्य स्वीकारे सति आत्मनां भेदः तात्त्विकः न सिद्ध्यति । अतः तत्त्वज्ञानस्य उपदेशं कुर्वन् भेदानाम् उपदेशः सुसङ्गतः न । भगवता उक्त एष आत्मभेदः स्वाभाविकः अस्ति । एतदेव वचनं श्रुतौ अपि विद्यते यत् – अनेकेषां नित्यचेतनात्मनां यः एकः नित्यः चेतनात्मा अस्ति, सः तेषां कामनाः पूरयति इति [५] । आत्मभेददृष्टिम् अज्ञानजनितमन्यमानस्य मते यः दोषः भवति, तं प्रदर्शयति । परमार्थदृष्ट्या ये युक्तपरमपुरुषाः निर्विशेषकूटस्थस्य नित्यचैतन्यात्मानः यथार्थस्वरूपस्य साक्षात्कारं कृतवन्तः, तेषु अज्ञानस्य, अज्ञानसम्बद्धकार्याणां च अभावः अस्ति । अत एव तैः अज्ञानजनितभेददर्शनस्य, अज्ञानजनितोपदेशादिनां च व्यवहारः असम्भवः ।
यः अद्वैतज्ञानप्राप्तः परमपुरुषः श्रीकृष्णः अस्ति, तस्य बाधितानुवृत्तिरूपं भेदज्ञानमेतत् दग्धवस्त्रादिवत् तस्य कृते बन्धनकारकं नास्ति इति यदि कथयामः, तर्हि तत् असङ्गतं सिद्ध्यति । यतः मृगतृष्णादिषु जायमानं जलज्ञानं वास्तविकज्ञानेन बाधिते सति तत् (मृगतृष्णादि) पूर्ववत् दृश्यमाने सत्यपि जलं प्राप्तुं प्रेरकं न भवति । एवम् अत्रापि अद्वैतज्ञानात् बाधितं भेदज्ञानं कथनमात्राय एव अवशिष्टम् अस्ति । परन्तु तस्य ज्ञानस्य मिथ्यात्वे सिद्धे सति तत् ज्ञानम् उपदेशादीनां प्रवृत्तिकारणं न भवितुम् अर्हति । एतस्मात् अतिरिक्तम् एवमपि वक्तुं न शक्नुमः यत्, ईश्वरः पुरा ज्ञानी आसीत्, ततः सः शास्त्रैः तत्त्वज्ञानं प्राप्तवान् एवं तस्मिन् बाधितानुवृत्तिद्वैतभावः अवशिष्टः इति । यतः एवम् उक्ते सति "यः सर्वज्ञः सर्वविद् अस्ति" [६], तस्य परमेश्वरस्य ज्ञानबलक्रियारूपस्वाभाविकी पराशक्तिः विविधप्रकारिका श्रूयते [७], हे अर्जुन ! अहं भूतवर्तमानभविष्येषु उत्पन्नान् सर्वान् प्राणिनः जानामि, मां कोऽपि न जानाति [८] इत्यादिषु श्रुतिस्मृतिभ्यः तत् विरुद्धम् अस्ति ।
तथा च भेदवादम् अज्ञानजनितमन्यमानैः वक्तव्यं भवति यत्, परमपुरुषाः, एतावता सर्वाः गुरुपरम्पाराः च अद्वितीयात्मरूपस्य निश्चये जाते सति कल्पितभेदज्ञानावशिष्टे सत्यपि स्वनिश्चयानुगुणम् अद्वितीयात्मज्ञानस्य उपदेशं कं प्रति कुर्वन्ति ? इति । प्रतिबिम्बवत् प्रतीयमानम् अर्जुनं प्रति करोति इति यदि वदामः, तर्हि तत् अयोग्यम् । किञ्च यः कोऽपि अनुन्मत्तः मनुष्यः मणिः, असिः, दर्पणः इत्यादिषु दृश्यमानं प्रतिबिम्बं दृष्ट्वा स्वस्य, प्रतिबिम्बस्य भेदं जानाति एव । एवं सः स्वं प्रतिबिम्बं प्रति किमपि उपदेशनं न करोति ।
ते अद्वैतवादिनः एतस्मिन् प्रसङ्गे बाधितानुवृत्तिम् अपि साधयितुं न प्रभवन्ति । यतो हि भेदज्ञानस्य बाधकेन अद्वितीयात्मज्ञानेन आत्मातिरिक्तान्यभेदज्ञानस्य कारणरूपाज्ञानादीनाम् अभावः जातः अस्ति । दृष्टिदोषत्वात् द्वयोः चन्द्रमसोः दर्शनादिषु तु चन्द्रमसः एकत्वज्ञाने सत्यपि चक्षुदोषनाशाभावात् बाधितानुवृत्तिः उचिता अस्ति । तथा च द्वयोः चन्द्रमसोः दर्शनादि पूर्ववत् स्थिते सत्यपि प्रबलप्रमाणबाधिते सति सः किमपि कर्तुं न शक्नोति । परन्तु अत्र अद्वैतज्ञानस्य विषये तु विषयकारणसहितं भेदज्ञानं मिथ्या अस्ति । अतः वस्तुनः यथार्थज्ञानेन तस्य समूलविनाशः भवति । एतादृश्यां स्थितौ बाधितानुवृत्तिः तु असम्भवा एव ।
तेषु भेददर्शनम् अवशिष्यते इति यदि उच्यते, तर्हि अज्ञानम्, अज्ञानकारणं च अवशिष्टे सति तेऽपि अज्ञानिनः सिद्ध्यन्ति । अतः तैः एतादृशः उपदेशः कदापि सम्भवः नास्ति । एतत् अतिरिच्य गुरोः अद्वितीयात्मज्ञाने सत्येव ब्रह्मणः अज्ञानस्य कार्यसहितात्यन्ते अभावे सति शिष्यं प्रति उपदेशः व्यर्थः अस्ति । गुरुः, तस्य ज्ञानं च कल्पितम् अस्ति इति वदामः, तर्हि शिष्यः, तस्य ज्ञानम् अपि कल्पितम् अस्ति । अतः सोऽपि अज्ञाननिवर्तकः न भविष्यति । शिष्यः कल्पिते सत्यपि अज्ञानविरोधी अस्ति, अतः तस्य निवर्तकत्वं भवति इति यदि वदामः, तर्हि आचार्यस्य ज्ञानेऽपि तादृशी शक्तिरेव विद्यते । एवं स एव समस्ताज्ञानस्य निवर्तकः भवति । एवपि उपदेशः तु व्यर्थः एव । अत एव यस्योपरि खण्डनं जातम् अस्ति, तस्मात् असमीचीनवादात् (असङ्गतसिद्धान्तात्) अस्माकं किमपि प्रयोजनं नास्ति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये न त्वेवाहं जातु नासं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ गीता, अ. ४, श्लो. ५
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
- ↑ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्, श्वेताश्वतरोपनिषद्, ६/१३
- ↑ यः सर्वज्ञः सर्ववित्, मुण्डकोपनिषद्, १/१/९
- ↑ परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, श्वेताश्वतरोपनिषद्, ६/८
- ↑ गीता, अ. ७, श्लो. २६
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ।।
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च