सामग्री पर जाएँ

सुखदुःखे समे कृत्वा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुखदुःखे समे कृत्वा...


स्वधर्मपालने पापं न
श्लोकसङ्ख्या २/३८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः हतो वा प्राप्स्यसि स्वर्गं...
अग्रिमश्लोकः एषा तेऽभिहिता साङ्ख्ये...

सुखदुःखे समे कृत्वा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मपालने पापं न भवति इति कथयति । पूर्वस्मिन् श्लोके अर्जुनस्य जयपराजयसम्बद्धायाः शङ्कायाः निवारणं कृत्वा अत्र भगवान् गुरुजनानां वधे कृते पापं भविष्यति इत्यस्याः अर्जुनस्य शङ्कायाः निवारणं करोति । सः कथयति यद्, जयपराजयौ, लाभहानी, सुखदुःखे च समानं मत्वा युद्धं कुरु । एतद्युद्धं यदि करिष्यसि, तर्हि पापं न भविष्यति इति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥

पदच्छेदः

[सम्पादयतु]

सुखदुःखे, समे, कृत्वा, लाभालाभौ जयाजयौ । ततः, युद्धाय, युज्यस्व, न, एवम्, पापम्, अवाप्स्यसि ॥

अन्वयः

[सम्पादयतु]

सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व । एवं (कृतं चेत्) पापं न अवाप्स्यसि ।

शब्दार्थः

[सम्पादयतु]
अन्वयः विवरणम् सरलसंस्कृतम्
सुखदुःखे अ.नपुं.द्वि.द्विव. सन्तोषविषादौ
लाभालाभौ अ.पुं.द्वि.द्विव. लाभालाभौ
जयाजयौ अ.पुं.द्वि.द्विव. विजयपराजयौ
समे अ.नपुं.द्वि.द्विव. समाने
कृत्वा क्त्वान्तम् अव्ययम् सम्भाव्य
ततः अव्ययम् पश्चात्
युद्धाय अ.नपुं.च.एक. समराय
युज्यस्व √युजिक् योगे-आत्म.कर्तरि. लोट्.मपु.एक. सन्नद्धो भव
एवम् अव्ययम् इत्थं कृतं चेत्
पापम् अ.नपुं.द्वि.एक. दोषम्
अव्ययम्
अवाप्स्यसि अव+√आप्लृ व्याप्तौ-पर.कर्तरि, लृट्.मपु.एक. प्राप्स्यसि ।

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. ततो युद्धाय = ततः + युद्धाय – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. नैवम् = न + एवम् – वृद्धिसन्धिः
  1. सुखदुःखे = सुखं च दुःखं च, ते - द्वन्द्वः
  2. लाभालाभौ = लाभश्च अलाभश्च, तौ – द्वन्द्वः
  3. जयाजयौ = जयश्च अजयश्च, तौ - द्वन्द्वः

कृदन्तः

[सम्पादयतु]
  1. कृत्वा = कृञ् + क्त्वा

सुखदुःखे लाभालाभौ जयाजयौ समे मन्यस्व । ततः युद्धाय सन्नद्धो भव । एवम् आचरणेन त्वं पापं न अवाप्स्यसि ।

भावार्थः []

[सम्पादयतु]

'सुखदुःखे समे कृत्वा...ततो युद्धाय युज्वस्व' – अर्जुनस्य मनसि सन्देहः आसीद् यद्, गुरुजनानां वधे सति पापं भविष्यति इति । अतः भगवान् अत्र कथयति यद्, पापस्य प्रेरकतत्त्वं (हेतुः) युद्धं न, अपि तु स्वस्य कामना भवति । एवं त्वं स्वस्य कामनायाः त्यागं कृत्वा युद्धाय सज्जो भव इति । युद्धे सर्वप्रथमं जयः उत पराजयः भवति । तयोः परिणामत्वेन क्रमेण लाभः उत हानिः जायते । लाभहान्योः फलमेव सुखदुःखे भवतः । परन्तु एतेषु सर्वेषु तव उद्देशः कुत्रापि न स्यात् । तव उद्देशः केवलं स्वकर्तव्यपालनस्य स्यात् । युद्धे जयपराजयौ, लाभहानी, सुखदुःखे च भविष्यन्ति एव । अतः त्वं तस्य विचारम् अकृत्वा केवलं स्वकर्तव्यस्य पालने ध्यानं ददस्व । एवं युद्धे कृते पापं न भविष्यति अर्थाद् संसारस्य बन्धनं न भविष्यति इति ।

सकामभावेन उत निष्कामभावेन कुर्मः परन्तु स्वकर्तव्यस्य पालनमेव महत्त्वपूर्णम् अस्ति । यः सकामभावी अस्ति, सः कर्तव्यपालने आलस्यं न कुर्याद्, प्रत्युत तत्परतया स्वस्य कर्तव्यस्य पालनं कुर्यात् । निष्कामभावेन कर्तव्यपालनं कृत्वा यः स्वस्य कल्याणं साधयितुम् इच्छति, तेनापि तथैव तत्परतापूर्वकं कर्तव्यपालनं करणीयम् । सुखे, दुःखे च प्राप्ते क्रमेण आनन्दः, ग्लानिः च भवति । परन्तु उभयोः परिस्थित्योः समबुद्धिः भूत्वा स्वकर्तव्यस्य पालनं करणीयम् । तव कर्मसु प्रवृत्तिः सुखलोभाय न स्याद्, तथा च दुःखाद् भयत्वान्न स्यात् । कर्मसु ते प्रवृत्तिः उत निवृत्तिः शास्त्रानुसारम् एव स्यात् []

'नैवं पापमवाप्स्यसि' – अत्र 'पाप' इत्यस्य शब्दस्य पापं, पुण्यं च इति अर्थः स्वीकरतव्यः । तयोः फलम् अस्ति क्रमेण स्वर्गः, नरकश्च । उभयत्र मनुष्यः कल्याणाद् वञ्चितः भवति । तेन पौनःपुन्येन जन्ममरणयोः चक्रे भ्रमणीयं भवति । अतः भगवान् कथयति यद्, हे अर्जुन ! समतायां स्थिरो भूत्वा युद्धरूपं कर्तव्यं कुरु । तथा कृते पापं, पुण्यं च न भवष्यति इति ।

सम्पूर्णे प्रकरणे
अर्जुनः कथयति यद्,
भगवान् उत्तरति यद्,
अहं युद्धे कल्याणं न पश्यामि इति [] क्षात्रधर्मानुसारं धर्ममयं युद्धम् एव कल्याणतमं साधनम् अस्ति इति []
कृत्वा वयं कथं सुखिनः भविष्यामः ? इति [] ये क्षत्रियाः यादृच्छं धर्मयुद्धं प्राप्नुवन्ति, ते सुखिनः भवन्ति इति []
युद्धस्य परिणामः नकरप्राप्तिः भविष्यति इति [] स्वधर्मानुसारं युद्धे कृते स्वर्गप्राप्तिः भवति इति []
युद्धेन पापं भविष्यति [] युद्धे अकृते पापं भविष्यति [१०]
युद्धे कृते परिणामः धर्मनाशः भविष्यति [११] युद्धे अकृते धर्मनाशः भविष्यति [१२]
युद्धापेक्षया भिक्षानिर्वाहः उत्तमः [१३] युद्धं कुरुस्व [१४]
  • भगवान् द्वितीयाध्यायस्य द्वितीयतृतीययोः श्लोकयोः यत्किमपि सङ्क्षेपेण अवदत्, तद् अग्रे विस्तारेण अबोधयत् ।
भगवता
द्वितीयतृतयोः श्लोकयोः सङ्क्षेपेण उक्तम्
पश्चाद् विस्तारेण उक्तम्
अनार्यजुष्टम् धर्माद्धि युद्धाच्छ्रेयोऽन्यत्
अस्वर्ग्यम् स्वर्गद्वारमपावृतम्
अकीर्तिकरम् भूतानि कथयिष्यन्ति तेऽव्ययाम्
त्यक्त्वोत्तिष्ठ परन्तप ततो युद्धाय युज्वस्व

एतस्मिन् प्रकरणे भगवान् प्रप्रथमं विधिं प्रदर्शयति, ततः नेषेधं प्रदर्श्य पुनः विधानवाक्यैः प्रकरणं समापयति च । भगवान् एकत्रिंशद्वात्रिंशयोः श्लोकयोः कर्तव्यकर्मणः लाभवर्णनं ततश्च त्रयस्त्रिंशाद् षड्त्रिंशपर्यन्तं चतुर्षु श्लोकेषु कर्तव्यकर्मणः अकृते हानिवर्णनं करोति । अन्ते सप्तत्रिंशाष्टत्रिंशयोः पुनः कर्तव्यकर्मणः लाभवर्णनं कृत्वा युद्धाज्ञाम् अकरोत् ।

शाङ्करभाष्यम् [१५]

[सम्पादयतु]

तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशमिमं श्रृणु -

सुखदुःखे समे  तुल्ये  कृत्वा  रागद्वेषावप्यकृत्वेत्येतत्। तथा लाभालाभौ जयाजयौ च समौ कृत्वा  ततो युद्धाय युज्यस्व  घटस्व।  न एवं  युद्धं कुर्वन्  पापम् अवाप्स्यसि । इत्येष उपदेशः प्रासङ्गिकः।।

भाष्यार्थः

[सम्पादयतु]

युद्धं स्वधर्मः अस्ति इति युद्यतः कृते उपदेशः अस्ति, शृणु –

सुखं, दुःखं, लाभं, हानिं, जयं, पराजयं च समानं मत्वा अर्थात् तेषु रागद्वेषम् अकृत्वा त्वं युद्धं कुरु । एवं युद्धे कृते त्वं पापं न प्राप्स्यसि । एषः प्रासङ्गिकः उपदेशः अस्ति ।

रामानुजभाष्यम् [१६]

[सम्पादयतु]

मुमुक्षोः युद्धानुष्ठानप्रकारम् आह -

एवं देहातिरिक्तम् अस्पृष्टसमस्तदेहस्वभावं नित्यम् आत्मानं ज्ञात्वा युद्धे च अवर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेषु अविकृतबुद्धिःस्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धम् आरभस्व।  एवं कुर्वाणो  न पापम् अवाप्स्यसि  पापं दुःखरूपं संसारं न अवाप्स्यसि। संसारबन्धात् मोक्ष्यसे इत्यर्थः।

भाष्यार्थः

[सम्पादयतु]

मोक्षेच्छुकेभ्यः युद्धरीतिं कथयति –

आत्मा शरीराद् भिन्नोऽस्ति । सः आत्मा शरीरस्य समस्तेभ्यः स्वभावेभ्यः सर्वथा सम्पर्कशून्यः, नित्यश्च अस्ति । एवम् आत्मतत्त्वविषये ज्ञात्वा शस्त्रपातादिजनितानाम् अनिवार्याणां सुख-दुःख-लाभ-हानि-जय-पराजयादीनां प्रति, स्वर्गादिफलाभिसन्धीनां प्रति च समत्वं पश्यन् केवलं कर्तव्यबुद्ध्या एव त्वं युद्धस्य आरम्भं कुरु । एवं कृत्वा त्वं पापी न भविष्यसि । अभिप्रायोऽस्ति यत्, पापम् अर्थात् दुःखरूपं संसारं त्वं न प्राप्स्यसि । त्वं संसारबन्धनाद् विमुक्तः भविष्यसि इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
हतो वा प्राप्स्यसि स्वर्गं...
सुखदुःखे समे कृत्वा... अग्रिमः
एषा तेऽभिहिता साङ्ख्ये...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १६, श्लो. २४
  3. गीता, अ. १, श्लो. ३१
  4. गीता, अ. २, श्लो. ३१
  5. गीता, अ. १, श्लो. ३७
  6. गीता, अ. २, श्लो. ३२
  7. गीता, अ. १, श्लो. ४४
  8. गीता, अ. २, श्लो. ३२, ३७
  9. गीता, अ. १, श्लो. ३६
  10. गीता, अ. २, श्लो. ३३
  11. गीता, अ. १, श्लो. ४०
  12. गीता, अ. २, श्लो. ३३
  13. गीता, अ. २, श्लो. ५
  14. गीता, अ. २, श्लो. ३८
  15. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  16. रामानुजभाष्यम्

अधिकवाचनाय

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सुखदुःखे_समे_कृत्वा...&oldid=403605" इत्यस्माद् प्रतिप्राप्तम्