सामग्री पर जाएँ

भोगैश्वर्यप्रसक्तानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भोगैश्वर्यप्रसक्तानां...


मनुष्यस्य सकामस्वभाववर्णनम्
श्लोकसङ्ख्या २/४४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः कामात्मानः स्वर्गपरा…
अग्रिमश्लोकः त्रैगुण्यविषया वेदा...

भोगैश्वर्यप्रसक्तानाम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः मनुष्यस्य सकामस्वभाववर्णनस्य उपसंहारं करोति । प्रपूर्वे, पूर्वे च श्लोकयोः भगवान् मनुष्यस्य बुद्धीनाम् अनन्ततायाः वर्णनं कृत्वा अत्र तस्य विषयस्य उपसंहारं कुर्वन् अस्ति । सः कथयति यद्, हे पृथानन्दन ! कामनासु (भोगेषु) तन्मयाः (रताः), वेदेषु उक्तेसु सकामकर्मसु एव प्रीतिकराः, स्वर्गमेव श्रेष्ठं प्राप्यम् इति मन्यमानाः, स्वर्गं विहाय अन्यत्किमपि नास्ति इति वादिनः, भोगं विहाय अन्यत् न किमपि इत्यनेन पुष्पितवचनेन वाणीविलासिनः अविवेकिनः च ये सन्ति, तेषां वाणी जन्मरूपं कर्मफलं दात्री एवं भोगैवश्वर्ययोः प्राप्त्यै नानाविधानां क्रियाणां कारिणी च अस्ति । तया वाण्या येषां चित्तं हृतम् अस्ति, येषां भोगैश्वर्ययोः अत्यन्तम् आसक्तिः अस्ति, ते पुरुषाः परमात्मनि (समाधौ) निश्चयात्मिकां (व्यवसायात्मिकां) बुद्धिं प्राप्तुं न शक्नुवन्ति इति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥

पदच्छेदः

[सम्पादयतु]

भोगैश्वर्यप्रसक्तानाम्, तया, अपहृतचेतसाम् । व्यवसायात्मिका, बुद्धिः, समाधौ, न, विधीयते ॥

अन्वयः

[सम्पादयतु]

तया अपहृतचेतसां भोगैश्वर्यप्रसक्तानां बुद्धिः व्यवसायात्मिका (सती) समाधौ न विधीयते ।

शब्दार्थः

[सम्पादयतु]
अन्वयः विवरणम् सरलसंस्कृतम्
तया तद्-द.सर्व.स्त्री.तृ.एक. तया वाचा
अपहृतचेतसाम् अपहृतचेतस्-स.पुं.ष.बहु. अपहृतमनसाम्
भोगैश्वर्यप्रसक्तानाम् अ.पुं.ष.बहु. विषयप्राप्तौ आसक्तानां पुरुषाणाम्
बुद्धिः इ.स्त्री.प्र.एक. मतिः
व्यवसायात्मिका आ.स्त्री.प्र.एक. प्रवृत्तिशीला
समाधौ इ.स्त्री.स.एक. एकाग्रतायाम्
अव्ययम्
विधीयते प्रवर्तते ।

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. तयापहृतचेतसाम् = तया + अपहृतचेतसाम् – सवर्णदीर्घसन्धिः
  1. भोगैश्वर्यप्रसक्तानाम् = भोगानाम् ऐश्वर्यम्, भोगैश्वर्यम् – षष्ठीतत्पुरुषः ।
  2. भोगैश्वर्ये प्रसक्ताः, तेषाम् – सप्तमीतत्पुरुषः ।
  3. अपहृतचेतसाम् = अपहृतं चेतः येषां ते, तेषाम् – बहुव्रीहिः ।

कृदन्तः

[सम्पादयतु]
  1. प्रसक्तानाम् = प्र + सज् + क्त (कर्तरि) तेषाम्

येषां मनः तादृश्या पुष्पितया वाचा अपहृतं भवति, ये च गृहवाहनादीनां विषयाणां सम्पादने प्रवृत्ताः भवन्ति तेषां बुद्धिः एकाग्रतायां न कदापि प्रवर्तते ।

भावार्थः []

[सम्पादयतु]

'कामात्मानः' – केचन मनुष्याः कामनायाम् एतावन्तः रताः भवन्ति यत्, ते कामरूपाः एव भवन्ति । ते स्वस्मिन् कामनायां च भेदं द्रष्टुमेव न शक्नुवन्ति । कामनां विना मनुष्यस्य जीवनम् असम्भवम् इत्येव तेषां भावो भवति । एतादृशं चिन्त्यमानाः पुरुषाः 'कामात्मानः' इति । स्वयं तु नित्यं स्थायी भवति, परन्तु कामनासु परिवर्तनं भवति । स्वयं परमात्मांशः अस्ति, परन्तु स्वं संसारांशत्वेन अङ्गीकरोति । परन्तु कामनायां रताः पुरुषाः स्वरूपस्य भानं कर्तुं न शक्नुवन्ति ।

'स्वर्गपरा' – स्वर्गे उत्तमोत्तमाः भोगाः उपलभ्यन्ते, अतः तेषां मते स्वर्गमेव सर्वश्रेष्ठम् अस्ति । एवं ते तस्य स्वर्गस्य प्राप्त्यै एव प्रयत्नशीलाः भवन्ति । अत्र 'स्वर्गपराः' इत्यस्य पदस्य लक्ष्यं ते पुरुषाः सन्ति, ये वेदेषु, शास्त्रेषु वर्णितानां स्वर्गादीनां लोकानां प्राप्त्यै आस्थायुक्ताः सन्ति ।

'वेदवादरताः पार्थ नान्यदस्तीति वादिनः' – तेषां वेदेषु उक्तेषु सकामकर्मसु एव प्रीतिः अस्ति । अर्थाद्, वेदेषु यत्किमपि उक्तम् अस्ति, तस्य तात्पर्यं ते केवलं भोगविलासाय, स्वर्गप्राप्त्यै एव अङ्गीकुर्वन्ति इति । अतः ते 'वेदवादरताः' इति । एतादृशानां मनुष्याणां मान्यता भवति यत्, स्वर्गस्य भोगान् विहाय किमपि उत्तमं नास्ति इति । अर्थाद् भोगान् विहाय परमात्मा, तत्त्वज्ञानं, मुक्तिः, भगवत्प्रेम इत्यादीनां किमपि महत्त्वम् उत औचित्यं नास्ति इति । भोगानाम् उपभोगः एव तेषां मुख्यं लक्ष्यं भवति ।

'यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः' – येषु सदसतोः, नित्यानित्ययोः, अविनाशिविनाशिनोः च विवेकः नास्ति, तादृशाः अविवेकिनः मनुष्याः वेदस्य वाणीषु यद् संसारस्य, भोगस्य च वर्णनम् अस्ति, तं वर्णनं स्वस्य आडम्बरयुक्त्या वाण्या वदन्तः भवन्ति । अत्र 'पुष्पिताम्' इत्यनेन भोगैश्वर्याणां प्राप्त्याः वर्णने कृते वाणी निष्फला अस्ति । तृप्तिः फलेन भवति, मिथ्या जल्पनेन न । सा वाणी स्थायिफलप्रदा न भवति । 'जन्मकर्मफलप्रदाम्' – सा पुष्पिता वाणी जन्मरूपं कर्मफलं ददाति । किञ्च सा वाणी सांसारिकभोगेभ्यः एव मुख्यतां यच्छति । तेषां भोगानां रागः एव अग्रिमजन्मनः कारणं भवति []

'क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति' – सा शोभायुक्ता आडम्बरपूर्णा वाणी भोगैश्वर्याणां प्राप्त्यै सकामानुष्ठानानां वर्णनं करोति । तेषु अनुष्ठानेषु क्रियाणां बाहुल्यं भवति । अर्थात्, तेषु अनुष्ठानेषु नानाप्रकारकाः विधयः, क्रियाः, पदार्थावश्यकताः च भवन्ति । तेषु अनुष्ठानेषु शरीरादीनां परिश्रमोऽपि अधिकः भवति [] । 'तयापहृतचेतसाम्' – पूर्वस्मिन् श्लोके यस्याः पुष्पितायाः आडम्बरयुक्तायाः वाण्याः वर्णनं कृतम्, तया वाण्या येषां चित्तहरणं जातम् अस्ति, ते । अर्थाद् स्वर्गे तु महानन्दः, दिव्यानि नन्दनवनानि, अप्सरसः, अमृतम् इत्यादि अस्ति इत्येतादृश्या वाण्या येषां चित्तं मुग्धं कृतम् अस्ति, ते ।

'भोगैश्वर्यप्रसक्तानाम्' – शब्द-स्पर्श-रूप-रस-गन्धानां पञ्चभिः विषयैः, शरीरस्य आरामेण, माननेन च सुखप्राप्तेः ईप्सा एव 'भोगः' उच्यते । धन-गृह-पुत्रादेः भोगपदार्थान् प्राप्तुम् इच्छा, भोगानां सङ्ग्रहं कर्तुम् इच्छा एव 'ऐश्वर्यम्' उच्यते । एतयोः भोगैश्वर्ययोः येषाम् आसक्तिः अस्ति, प्रीतिः अस्ति, आकर्षं वा अस्ति, ते 'भोगैश्वर्यप्रसक्ताः' उक्ताः ।

ये भोगैश्वर्ये एव रताः सन्ति, ते आसुरीसम्पत्तियुक्ताः भवन्ति [] [] । किञ्च 'असु' इत्युक्ते प्राणाः । तान् प्राणान् ये संरक्षितुम् इच्छन्ति, तादृशाः प्राणपोषणपरायणाः जनाः 'असुराः' इति । ते शरीरस्य प्राधान्यं स्वीकृत्यैव भूलोकस्य, स्वर्गलोकस्य च भोगानाम् उपभोगम् इच्छन्ति ।

'व्यवसायात्मिका बुद्धिः समाधौ न विधीयते' – ये मनुष्यमजन्मनः मूलभूतं ध्येयं परमात्मप्राप्तिं न अङ्गीकुर्वन्ति । तादृशानां मनुष्याणां व्यवसायात्मिकाबुद्धिः न भवति । तात्पर्यम् अस्ति यद्, भोगचिन्तनेन, भोगोपभोगेन, भोगसंरक्षणविचारेण च येषां बुद्धिः मलीना अस्ति, सः परमात्मप्राप्त्यै संसारस्य सर्वथा त्यागविषये कदापि चिन्तयितुम् अपि न शक्नोति ।परमात्मप्राप्त्यै तस्य दृढनिश्चयः कदापि न भवति । तथैव ये अनेकेषां विद्यानां, कलानां च सङ्ग्रहं कुर्वन्ति, ते 'अहं विद्वान्' 'अहं ज्ञाता' इत्यादीनाम् अभिमानजन्यानां भोगानाम् आसक्तिं पालयन्ति । ते आसक्ताः मनुष्याः अपि परमात्मप्राप्तेः निश्चयं कर्तुं न शक्नुवन्ति ।

मनुष्यशरीरे विवेकशक्तेः दानं परमदयालोः प्रभोः कृपा एव । तेन विवेकेन मनुष्यः सुखदुःखयोः अपि विशेषं चिन्तनं कर्तुं सक्षमः भवति । तेन विशेषचिन्तनेन सः स्वस्य अन्यस्य सेवया सह स्वस्य कल्याणं साधयितुं शक्नोति । स्वस्य सेवाबलेन सः ईश्वरम् अपि वशीकर्तुं शक्नोति । एतादृशे कार्ये एव तस्य जन्मनः सार्थक्यम् अस्ति । किञ्च यथा पशुपक्षिणः भोगेषु रताः भवन्ति, तथैव मनुष्योऽपि यदि भोगेषु रतः भवति, तर्हि मनुष्यपश्वादिषु को वा भेदः ? पशुपक्ष्यादयस्तु भोगयोनिषु सन्ति । अतः तेषां सम्मुखं कर्तव्यस्य प्रश्नः एव नास्ति । परन्तु मनुष्यजन्मनः लक्ष्यं तु केवलं स्वकर्तव्यपालनम् एव अस्ति । तेन एव तस्य उद्धारः शक्योऽस्ति । तस्य जन्म भोगानाम् उपभोगार्थं नास्ति । अतः मनुष्यस्य सम्मुखम् उपस्थिताः अनुकूलप्रतिकूलपरिस्थितयः तस्य साधनसामग्र्यः सन्ति । भोगसामग्र्यः न । ये ताः भोगसामग्रीत्वेन स्वीकुर्वन्ति, तेषां परमात्मनि व्यवसायात्मिका बुद्धिः न भवति ।

संसारे विद्यमानाः पदार्थाः वास्तव्येन परमात्मनः मार्गं प्रति बाधकाः न भवन्ति, अपि तु अन्तःकरणे विद्यमाना भोगेप्सा एव बाधारूपिणी भवति । भोगाः परमात्ममार्गान् न अवरोधयन्ति, अपि तु भोगेप्साः अवरोधयन्ति इति तात्पर्यम् । यदि भोगस्य, सङ्ग्रहस्य च रुच्या सह केचन भगवत्प्राप्तिं कर्तुम् इच्छन्ति, तर्हि परमात्मप्राप्तिः तु न भवत्येव, अपि च परमात्मप्राप्तेः निश्चयः अपि न भवति । किञ्च यत्र परमात्मप्राप्तौ रुचिः वर्तते, तत्र भोगानां, सङ्ग्रहस्य, सम्माननस्य, आरामस्य च अवस्थितिः एव न कल्प्यते । तस्य मनुष्यस्य शक्तिः तेषु भोगादिषु एव गच्छति । किञ्च तस्य अन्तःकरणं भोगादिभिः हृतम् अस्ति ।

शाङ्करभाष्यम् []

[सम्पादयतु]

तेषां च -

भोगैश्वर्यप्रसक्तानां  भोगः कर्तव्यः ऐश्वर्यं च इति भोगैश्वर्ययोरेव प्रणयवतां तदात्मभूतानाम्। तया क्रियाविशेषबहुलया वाचा  अपहृतचेतसाम्  आच्छादितविवेकप्रज्ञानां  व्यवसायात्मिका  सांख्ये योगे वा  बुद्धिः समाधौ  समाधीयते अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ  न विधीयते  न भवति इत्यर्थः।।

भाष्यार्थः

[सम्पादयतु]

ये भोगैश्वर्येषु आसक्ताः सन्ति अर्थाद् भोगैश्वर्यं परमपुरुषार्थः अस्ति इति मत्वा तेषु भोगैश्वर्येषु एव येषाम् अधिका प्रीतिः अस्ति, भोगैश्वर्यैः सह येषां तद्रूपता अस्ति, क्रियाभेदस्य विस्तारपूर्वकम् उपर्युक्तया वाण्या येषां चित्तं हृतम् अस्ति, अर्थाद् येषां विवेकबुद्धिः नष्टा अस्ति, तेषां समाधौ बुद्धिः न तिष्ठति । अर्थाद् उक्तानाम् अविवेकिनां परमात्मनि (समाधौ) साङ्ख्ययोगसन्दृधा, कर्मयोगसन्दृधा च व्यवसायात्मिका (निश्चयात्मिका) बुद्धिः न भवति इति । पुरुषस्य भोगाय सर्वं यस्मिन् स्थापितं भवति, स एव समाधिः (समाधीयते अस्मिन् पुरुषोपभोगाय सर्वम् इति) इत्यनेन विवरणेने अनुगुणं समाधिः इत्युक्ते अन्तःकरणम् एव । तस्मिन् अन्तःकरणे बुद्धिः न तिष्ठति । बुद्धिः नोत्पद्यते इत्यर्थः ।

रामानुजभाष्यम् []

[सम्पादयतु]

तेषां  भोगैश्वर्यप्रसक्तानां   तया  वाचा भोगैश्वर्यविषयया  अपहृता त्मज्ञानानां यथोदिता  व्यवसायात्मिका   बुद्धिः समाधौ  मनसि  न विधीयते  न उत्पद्यते। समाधीयते अस्मिन् आत्मज्ञानम् इति समाधिः मनः। तेषां मनसि आत्मयाथात्म्यनिश्चयज्ञानपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिद् अपि न उत्पद्यते इत्यर्थः। अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः।

भाष्यार्थः

[सम्पादयतु]

तेषु भोगैश्वर्येषु अत्यन्तासक्तानां पुरुषाणाम् आत्मज्ञानं तया भोगैश्वर्यविषयिण्या वाण्या नष्टं जातम् अस्ति । अत एव तेषां मनसि उपर्युक्तानां व्यवसायात्मिकानां बुद्धेः उदयः न भवति । एतस्मिन् मनसि आत्मज्ञानं समाहितं, प्रतिष्ठितं वा क्रियते । अतः तस्य नाम समाधिः इति । अभिप्रायः अस्ति यद्, तेषां मनसि आत्मस्वरूपस्य यथार्थः निश्चयकारकेण ज्ञानेन युक्ता, मोक्षसाधनरूपकर्मणा सह सम्बन्धयुक्ता बुद्धिः कदापि न भविष्यति । अत एव मुमुक्षोः पुरुषस्य काम्यकर्मसु आसक्तिः न स्याद् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
कामात्मानः स्वर्गपरा…
भोगैश्वर्यप्रसक्तानां... अग्रिमः
त्रैगुण्यविषया वेदा...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १३, श्लो. २१
  3. गीता, अ. १८, श्लो. २४
  4. कामोपभोगपरमा एतावदिति निश्चिताः, गीता, अ. १६, श्लो. ११
  5. प्रसक्ताः कामभोगेषु, गीता, अ. १६, श्लो. १६
  6. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  7. रामानुजभाष्यम्

अधिकवाचनाय

[सम्पादयतु]