दुःखेष्वनुद्विग्नमनाः...
दुःखेष्वनुद्विग्नमनाः... "किं प्रभाषेत" इत्यस्य उत्तरम् १ | |
---|---|
श्लोकसङ्ख्या | २/५६ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | प्रजहाति यदा कामान् |
अग्रिमश्लोकः | यः सर्वत्रानभिस्नेहः |
दुःखेष्वनुद्विग्नमनाः ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । "किं प्रभाषेत" इति अर्जुनस्य द्वितीयः प्रश्नः आसीत् । तस्य उत्तरं यच्छन् अत्र भगवान् श्रीकृष्णः स्थितप्रज्ञं द्वन्द्वतं वदति ।
अर्जुनः अपृच्छत् यत्, स्थितप्रज्ञः कथं वदतीति । तस्य प्रश्ने क्रियायाः प्रधानता आसीत्, परन्तु भगवान् भावं प्रधानत्वेन स्वीकृत्य उत्तरं ददाति । यतो हि क्रियासु भाव एव मुख्यः । क्रियामात्रं भावपूर्वकमेव भवति । भावानां परिवर्तने सति क्रियासु अपि परिवर्तनं जायते । अर्थात्, क्रियायाः बाह्यस्वरूपं मूलोद्देश्यानुसारं दरीदृश्यते, परन्तु वस्तुतः क्रिया तथा भाववाहिनी न भवति । अतः अर्जुनस्य प्रश्ने क्रियाप्राधान्ये सत्यपि श्रीभगवान् अत्र भावप्रधानं स्वीकृत्य उत्तरं ददाति । केवलम् अत्र न अपि तु सम्पूर्णायां गीतायां भगवान् अर्जुनस्य क्रियाप्रधानस्य प्रश्नस्य भावप्रधानत्वेन स्वीकृत्य उत्तरं ददाति [१] ।
श्लोकः
[सम्पादयतु]- दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
- वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
पदच्छेदः
[सम्पादयतु]दुःखेषु, अनुद्विग्नमनाः, सुखेषु, विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीः, मुनिः, उच्यते ॥
अन्वयः
[सम्पादयतु]दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः मुनिः स्थितधीः उच्यते ।
शब्दार्थः
[सम्पादयतु]दुःखेषु अ.नुपुं.स.बहु. आपत्सु अनुद्विग्नमनाः अनुद्विग्नमनस्-स.पुं.प्र.एक. उद्वेगशून्यचित्तः सुखेषु अ.नपुं.स.बहु. सम्पत्सु विगतस्पृहः अ.पुं.प्र.एक. नष्टाभिलाषः वीतरागभयक्रोधः अ.पुं.प्र.एक. रागद्वेषभयरहितः मुनिः इ.पुं.प्र.एक. मौनी स्थितधीः ई.पुं.प्र.एक. दृढबुद्धिः उच्यते √वच् परिभाषणे-पर.कर्मणि, लट्.प्रपु.एक. कथ्यते ।
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- दुःखेष्वनुद्विग्नमनाः = दुःखेषु + अनुद्विग्नमनाः यण्सन्धिः ।
- स्थितधीर्मुनिरुच्यते = स्थितधीः + मनुः - स्थितधीर्मुनिः विसर्गसन्धिः (रेफः) । स्थितधीर्मुनिः + उच्यते - विसर्गसन्धिः (रेफः)
समासः
[सम्पादयतु]- अनुद्विग्नमनाः = अनुद्विग्नं मनः यस्य सः - बहुव्रीहिः ।
- विगतस्पृहः = विगता स्पृहा यस्मात् सः - बहुव्रीहिः ।
- वीतरागभयक्रोधः = रागः भयं क्रोधः च रागभयक्रोधाः - द्वन्द्वः । वीताः रागभयक्रोधाः यस्मात् सः - बहुव्रीहिः ।
- स्थितधीः - स्थिता धीः यस्य सः - बहुव्रीहिः ।
कृदन्तः
[सम्पादयतु]विगतः = वि + गम्लृ + क्त (कर्तरि)
तात्पर्यम्
[सम्पादयतु]स्थितप्रज्ञस्य मनः दुःखेषु अनुद्विग्नं भवति । सः सुखेषु स्पृहावान् न भवति । रागात् भयात् क्रोधात् च सः अतीतः भवति ।
भाष्यार्थः
[सम्पादयतु]'सुखेषु विगतस्पृहः' – सुखे सति, सुखस्य सम्भावनायां सत्याम् अपि यस्य मनसि स्पृहा न भवति । अर्थात्, वर्तमानकाले अनुकूलतायाः परिस्थितौ सत्यपि "एषा स्थितिः सर्वदा एवमेव भवेत्" इति स्पृहा तस्य अन्तःकरणे नोद्भवति ।
'वीतरागभयक्रोधः' – संसारस्य पदार्थान् प्रति ममत्वं 'रागः' उच्यते । पदार्थेषु रागस्य स्थितौ अपरः कश्चन तस्य पदार्थस्य हानिं कुर्यात्, तं पदार्थं दूरीकुर्यात् इत्यादिभिः 'भयम्' उद्भवति । तस्मात् भयात् 'क्रोधः' समुद्भवति । परन्तु यस्य मनसि अन्यं सुखिनं कर्तुं भावः अस्ति, तस्य रागः स्वाभाविकतया दूरीभवति । रागः भयस्य, क्रोधस्य च मूलं भवति । रागे व्यपगते सः मनुष्यः भयात्, क्रोधात् अपि रहितः भवति । यावत्पर्यन्तम् आंशिकरूपेण उद्वेगः, स्पृहा, रागः, भयं, क्रोधः च भवति, तावत्पर्यन्तं सः साधकः उच्यते । तेभ्यः सर्वदा रहिते सति सः सिद्धः उच्यते ।
'स्थितधीर्मुनिरुच्यते' – तादृशस्य मननशीलस्य कर्मयोगिनः बुद्धिः स्थिरा, अचला च भवति । 'मुनि' इत्यस्य शब्दस्य वाण्या सह सम्बन्धः अस्ति । अतः भगवान् 'किं प्रभाषेत' इत्यस्य उत्तरत्वेन 'मुनि' इत्यस्य शब्दस्य उपयोगं करोति । परन्तु वस्तुतः 'मुनि' इत्यस्य शब्दस्य अर्थः केवलं वाण्याम् एव अवलम्बितः नास्ति । अतः भगवान् अग्रे 'मौन' इत्यस्य शब्दस्य प्रयोगः मानासिकतपसः अर्थे अपि करोति [२] ।
मर्मः
[सम्पादयतु]वासना, कामना इत्यादीनि रागस्य एव स्वरूपाणि भवन्ति । केवलं वासनायाः तारतम्यत्वात् (अनुपातानुसारेण) तस्याः विभिन्नानि नामानि सन्ति । यथा अन्तःकरणे गूढः 'रागः' 'वासना'त्वेन सम्बोद्ध्यते । वासनायाः अपरे नामनी 'आसक्तिः', 'प्रीतिः', 'आशा', 'लोभः', 'तृष्णा' च । किञ्चित् वस्तु अहं प्राप्नोमि इति वासना 'कामना' उच्यते । कामनासिद्धेः सम्भावना 'आशा' कथ्यते । कामनायाः परिपूर्तौ अपि अधिकं प्राप्तुम् इच्छा 'लोभः' मन्यते । लोभस्य अति 'तृष्णा' उच्यते । अस्य तात्पर्यम् अस्ति यत्, उत्पत्तिविनाशशीलपदार्शेषु ममत्वं वासना, कामाना इत्यादिभिः भिन्ननामभिः परिलक्ष्यते ।
कर्मयोगस्य विषयत्वात् अत्र मननशीलं कर्मयोगी 'मुनिः' इति उक्तः । मननशीलातायाः तात्पर्यम् अस्ति यत्, सावधानतया मननम् । यस्य मनसि कामना, आसक्तिः इत्यादयः न भवेयुः । नैरन्तर्येण अनासक्तिः एव सिद्धकर्मयोगिनः सावधानत्वम् अस्ति । यतो हि अग्रे साधकावस्थायाम् अपि सः सावधानः आसीत्, तस्य फलस्वरूपमेव सः परमात्मतत्त्वे स्थिरः अस्ति [३] ।
किञ्च दुःखेष्विति ।
दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः। तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य न अग्निरिव इन्धनाद्याधाने सुखान्यनु विवर्धते स विगतस्पृहः। वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतरागभयक्रोधः। स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा उच्यते।।
भाष्यार्थः
[सम्पादयतु]आध्यामिकादीनां त्रिविधानां दुःखानां प्राप्तौ यस्य मनः उद्विग्नं न भवति, अर्थात् क्षोभः न भवति, सः 'अनुद्विग्नमनाः' उच्यते । तथा च सुखानां प्राप्तौ स्पृहा, तृष्णा च न भवति, अर्थात् यथा ईन्धनक्षेपणे सति यथा अग्निः उग्रः भवति, तथा सुखप्राप्त्युतत्तरं यस्य लालसा न वर्धते, सः 'विगतस्पृहः' उच्यते ।
एवम् आसक्तिः, भयः, क्रोधश्च यस्य नष्टाः सन्ति, सः 'वीतरागभयक्रोधः' उच्यते । यदा कश्चन एतादृशैः गुणैः युक्तः भवति, तदा सः स्थितधीः अर्थात् स्थितप्रज्ञः, मुनिः, संन्यासी वा उच्यते ।। ५६ ।।
अनन्तरं ज्ञाननिष्ठस्य ततः अर्वाचीना अदूरविप्रकृष्टावस्था उच्यते -
प्रियविश्लेषादि दुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति सुखेषु विगतस्पृहः प्रियेषु सन्निहितेषु अपि निःस्पृहः वीतरागभयक्रोधः अनागतेषु स्पृहा रागस्तद्रवितः प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तिं दुःखं भयम् तद्रहितः प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतो दुःखहेतुः स्वमनोविकारः क्रोधः तद्रहितः एवंभूतो मुनिः आत्ममननशीलः स्थितधीः इति उच्यते।
भाष्यार्थः
[सम्पादयतु]इतः परम् अत्र ज्ञाननिष्ठस्य पुरुषस्य अर्वाचीनां स्थितिम् अर्थाद् अन्तिमस्थितेः समीपस्था या अवस्था अस्ति, ताम् उपस्थापयति –
प्रियवियोगादीनां दुःखनिमित्तकानाम् उपस्थित्यां सत्याम् अपि यः अनुद्विग्नचित्तः भवति अर्थाद् दुःखी न भवति, यः सुखेषु स्पृहारहितः भवति अर्थाद् प्रियपदार्थानां सन्नैकट्ये प्राप्तेऽपि यः तेषाम् इच्छां न करोति, यः रागभयक्रोधादिभ्यः रहितः भवति, तादृशः मुनिः स्थितप्रज्ञः उच्यते । अप्राप्तपदार्थेषु स्पृहा 'रागः' इति । प्रियवियोगस्य, अप्रियप्राप्तेः निमित्तं दृष्ट्वा यद् दुःखम् उत्पद्यते, तद् 'भयम्' इति । एवं प्रियवियोगस्य, अप्रियप्राप्तेः च निमित्ताद् अपरेषु जीवेषु जातस्य दुःखस्य हेतुभूतं यः मनसः विकारः अस्ति, सः क्रोधः इति । यः एतेभ्यः त्रिभ्यः दोषेभ्यः रहितः अस्ति, तादृशः मुनिः अर्थाद् आत्ममननशीलः पुरुषः स्थितप्रज्ञः उच्यते ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये दुःखेष्वनुद्विग्नमनाः... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च