विषया विनिवर्तन्ते...
विषया विनिवर्तन्ते... विषयविच्छेदिस्थितप्रज्ञयोः भेदः | |
---|---|
श्लोकसङ्ख्या | २/५९ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | यदा संहरते चायं... |
अग्रिमश्लोकः | यततो ह्यपि कौन्तेय... |
विषया विनिवर्तन्ते ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः केवलम् इन्द्रियेभ्यः विषयविच्छेदी स्थितप्रज्ञः न सिद्ध्यति इति स्पष्टयति । अग्रिमे श्लोके भगवता उक्तं यत्, इन्द्रियाणां विषयेभ्यः सर्वदा विच्छेदे सति यस्य प्रज्ञा प्रतिष्ठिता भवति, स एव स्थितप्रज्ञः इति । तेन कोऽपि एवं चिन्तयेत् यत्, या कापि व्यक्तिः संयमिनी अस्ति, सा ज्ञानिनी इति । तस्य खण्डनं कुर्वन् भगवान् एतस्मिन् श्लोके विषयविच्छेदिस्थितप्रज्ञयोः अवस्थितं भेदं वदति ।
श्लोकः
[सम्पादयतु]- विषया विनिवर्तन्ते निराहारस्य देहिनः ।
- रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
पदच्छेदः
[सम्पादयतु]विषयाः, विनिवर्तन्ते, निराहारस्य, देहिनः । रसवर्जम्, रसः, अपि, अस्य, परम्, दृष्ट्वा, निवर्तते ॥
अन्वयः
[सम्पादयतु]निराहारस्य देहिनः विषयाः रसवर्जं विनिवर्तन्ते (किन्तु) अस्य रसः अपि परं दृष्ट्वा (स्थितस्य) निवर्तते।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
निराहारस्य | अ.पुं.ष.एक. | निरशनस्य |
देहिनः | अ.नपुं.ष.एक. | शरीरधारिणः |
विषयाः | अ.पुं.प्र.बहु. | इन्द्रियविषयाः |
रसवर्जम् | णमुलन्तम् अव्ययम् | तद्विषयकप्रीतिं विना |
विनिवर्तन्ते | वि+नि+√वृत् वर्तने-आत्म.लट्.प्रपु.बहु. | अपगच्छन्ति |
परम् | अ.नपुं.प्र.एक. | परमात्मानम् |
दृष्ट्वा | क्त्वान्तम् अव्ययम् | अवलोक्य |
(स्थितस्य)अस्य | इदम्-म.सर्व.पुं.ष.एक. | एतस्य |
रसः | अ.पुं.प्र.एक. | रुचिः |
अपि | अव्ययम् | अपि |
निवर्तते | नि+√वृत् वर्तने-आत्म.लट्.प्रपु.एक. | अपयाति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- विषया विनिवर्तन्ते = विषयाः + विनिवर्तन्ते – विसर्गसन्धिः (लोपः)
- रसोऽपि = रसः + अपि – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः पूर्वरूपं च ।
- अप्यस्य = अपि + अस्य – यण्-सन्धिः
समासः
[सम्पादयतु]रसवर्जम् = रसं वर्जयित्वा – भावे णमुल्प्रत्ययः उपपदसमासश्च ।
कृदन्तः
[सम्पादयतु]दृष्ट्वा = दृशिर् + क्त्वा
तद्धितान्तः
[सम्पादयतु]देहिनः = देह + इनि (मतुबर्थे) । देहः अस्य अस्मिन् वा अस्ति ।
अर्थः
[सम्पादयतु]यः रोगपीडितः भवति तस्य निराहारत्वात् विषयाः सर्वेऽपि अपगच्छन्ति । किन्तु तद्विषयकस्नेहः न अपगच्छति । किन्तु सः यदा अवहितः सन् परतत्त्वम् अनुसन्दधाति तदा विषयस्नेहोऽपि अपगच्छति ।
निराहारिणां (इन्द्रियाणां विषयेभ्यः विच्छेदकर्ता) मनुष्याणां विषयाः तु निर्वृत्ताः भवन्ति, परन्तु तेषां मनुष्याणां विषयान् प्रति विद्यमानस्य रसस्य (ईप्सायाः) निवृत्तिः न भवति । परन्तु एषः स्थितप्रज्ञः मनुष्यः तु परमात्मतत्त्वानुभवोत्तरं रसनिवृत्तः भवति ।
'विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जम्' – मनुष्यः निराहारी द्विविधाः भवति । प्रथममं तु स्वेच्छया, रुग्णतायाः कारणेन वा भोजनस्य त्यागः । द्वितीयं तु सर्वान् विषयान् परित्यज्य एकान्तवासः अर्थात् इन्द्रियाणां विषयेभ्यः विच्छेदः । अत्र इन्द्रियाणां विषयेभ्यः विच्छेदकः साधकः 'निराहार' इति उक्तः । रोगिणां मनसि चिन्तनं भवति यत्, "किं करवाणि ? शरीरे पदार्थसेवनस्य सामर्थ्यं नास्त्यधुना, परन्तु यदा अहं स्वस्थः भविता, तदा तेषां पदार्थानां सेवनं कर्तास्मि" इति तस्य अन्तःकरणे रसबुद्धिः तु विद्यते एव । एवम् इन्द्रियाणि विषयेभ्यः विच्छेदे कृते सति विषयेभ्यः तु निवृत्तिः भवति, परन्तु साधकस्य अन्तःकरणे विद्यमानः विषयरसः सहसा निवृत्तः न जायते । विषयेषु स्वाभावकरीत्या यस्य रागः नास्ति, यस्मिन् तीव्रवैराग्यः अस्ति, सः साधकः एव साधनावस्थायां रसबुद्धेः निवृत्तः भवति । परन्तु येषु साधकेषु तीव्रवैराग्याभावं भवति, तेभ्यः साधकेभ्यः भगवान् अवदत् यत्, विषयाणां त्यागे सत्यपि तेषां रसबुद्धिः निवृत्ता न भवति इति ।
'रसोऽप्यस्य परं दृष्ट्वा निवर्तते' – परमात्मतत्त्वस्य अनुभवे सति एतस्य स्थितप्रज्ञस्य रसबुद्धिः निवृत्ता भवति । रसबुद्धेः निवृत्तिः एव तं स्थितप्रज्ञीकरोति । रसबुद्धेः निवृत्त्युत्तरं साधकः स्थितप्रज्ञः भवति इति नियमः नास्ति । परन्तु स्थितप्रज्ञे सति रसबुद्धेः निवृत्तिः भवति इति नियमः अस्ति । 'रसोऽप्यस्य' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, रसबुद्धिः साधकस्य अहङ्कारे अर्थात् 'अहम्' इति भावे आश्रिता भवति । रसबुद्धेः स्थूलरूपमेव रागः उच्यते । अतः साधकः स्वस्य अङ्कारादेव रसं निष्कासयेत् । तेन चिन्तनीयं यत्, अहं तु निष्कामी अस्मि । रागः, कामना च मह्यं बाधे स्तः इति । एवं रसबुद्धिः निवृत्ता भवति । ततः परमात्मतत्त्वस्य अनुभवे सति सः रसः सर्वथा निवृत्तः भवति ।
तत्र विषयाननाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्विषयो रागः स कथं संह्रियते इति उच्यते - विषया इति।
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रसवर्जं रसो रागो विषयेषु यः तं वर्जयित्वा। रसशब्दो रागे प्रसिद्धः स्वरसेन प्रवृत्तः रसिकः रसज्ञः इत्यादिदर्शनात्। सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहमेव तत् इति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं संपद्यते इत्यर्थः। न असति सम्यग्दर्शने रसस्य उच्छेदः। तस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यमित्यभिप्रायः।।
भाष्यार्थः
[सम्पादयतु]विषयान् ग्रहीतुम् असमर्थस्य रोगिमनुष्यस्यापि इन्द्रियाणि विषयेभ्यः विच्छिन्नानि भवन्ति, अर्थात् कच्छपाङ्गवत् सङ्कुचितानि भवन्ति । परन्तु विषयसम्बन्धिरागः (आसक्तिः) नष्टः न भवति । तस्य नाशः कथं भवितुम् अर्हति ? इति उच्यते –
यद्यपि विषयाणाम् अग्राहिणः, कष्टकरे तपसि स्थितस्य, देहाभिमानिनः अज्ञानिपुरुषस्यापि विषयशब्दवाच्येन्द्रियाणि विषयेभ्यः निवृत्तानि भवन्ति, तथापि तेषाम् अज्ञानिनां विषयेषु विद्यमानेभ्यः रसेभ्यः निवृत्तिः न भवति । तेषु विषयेषु तेषाम् आसक्तिः (रागः) तु सर्वदा भवति । रसशब्दः 'राग'-(आसक्ति)शब्दवाचकः । यतः 'स्वरसेन प्रवृत्तो रसिको रसज्ञः' इत्यादिवाक्यानि प्रसिद्धानि, प्रचलितानि च ।
साधकस्य सा रागात्मिका सूक्ष्मासक्तिः अपि परमार्थतत्त्वरूपिणः ब्रह्मणः प्रत्यक्षदर्शनेन निवृत्ता भवति अर्थात् 'अहमेव ब्रह्म' इति दृढे भावे तस्य साधकस्य विषयविज्ञानं निर्बीजं भवति । अभिप्रायः अस्ति यत्, विना यथार्थज्ञानं रागस्य मूलोच्छेदः असम्भवः, अतः यथार्थज्ञानात्मकबुद्धेः स्थिरता साधनीया इति ।
एवं चतुर्विधा ज्ञाननिष्ठा पूर्वपूर्वोत्तरोत्तरनिष्पाद्या इति प्रतिपादितम्। इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं च आह -
इन्द्रियाणाम् आहारो विषयाः निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषयाः विनिवर्तमाना रसवर्जं विनिवर्तन्ते। रसो रागः विषयरागो न निवर्तते इत्यर्थः। रागः अपि आत्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा विनिवर्तते।
भाष्यार्थः
[सम्पादयतु]एवं चतुर्धा ज्ञाननिष्ठा अस्ति । ताः निष्ठाः पूर्वपूर्वोत्तरोत्तरनिष्पाद्याः अर्थाद् आरोहक्रमेण सिद्ध्यन्ति इति उक्तम् । अधुना ज्ञानननिष्ठायाः दौर्लभ्यं, ज्ञाननिष्ठायाः प्राप्त्युपायं च वदति –
विषयाः इन्द्रियाणाम् आहारः । निराहारिणः मनुष्यस्य अर्थाद् यः इन्द्रियाणि विषयेभ्यः विनिवर्तते, तस्य ये विषयाः विमुक्ताः भवन्ति, ते रसं विना विमुक्ताः भवन्ति । आसक्तिः इत्युक्ते रसः । तात्पर्यम् अस्ति यद्, विषयाणां त्यागे विषयाणाम् आसक्तिः न निवर्तते । परन्तु विषयाणाम् अपेक्षया अत्यन्तं श्रेष्ठम् अतिशयसुखमयम् आत्मस्वरूपं प्राप्य अर्थात् आत्मस्वरूपस्य साक्षात्कारे सति आसक्तिः अपि विनिवर्तते ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये विषया विनिवर्तन्ते... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ સાધવસંજીવની, ગીતાપ્રેસ
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च