विद्याविनयसम्पन्ने...
श्लोकः
[सम्पादयतु]- विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
- शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टादशः (१८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥
अन्वयः
[सम्पादयतु]पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च समदर्शिनः भवन्ति ।
शब्दार्थः
[सम्पादयतु]- पण्डिताः = ज्ञानिनः
- विद्याविनयसम्पन्ने = विद्याविनयाभ्यां युक्ते
- ब्राह्मणे = विप्रे
- गवि = धेनौ
- हस्तिनि = गजे
- शुनि च एव = शुनके च
- श्वपाके च = चण्डाले च
- समदर्शिनः = समानदृष्टयः ।
अर्थः
[सम्पादयतु]पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे धेन्वां गजे कुक्कुरे चण्डाले च समदर्शिनः भवन्ति । एतेषु सर्वेषु अपि समानं ब्रह्म पश्यन्ति इत्यर्थः । (विद्या आत्मनो बोधः । विनयः विषयाणाम् उपशमः ।)
शाङ्करदर्शनम्
[सम्पादयतु]येषां ज्ञानेन नाशितमात्मनोऽज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्तीत्युच्यते-विद्येति। विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ विनय उपशमस्ताभ्यांाविद्याविनयाभ्यांसंपन्नो विद्याविनयसंपन्नो विद्वान्विनीर्तश्च यो ब्राह्मणस्तस्मिन्ब्राह्मणे गवि हस्तिनि शुनि चाव श्वपाके च पण्डिताः समदर्शिनो विद्याविनयसंपन्नउत्तमसंस्कारवति ब्राह्मणे सात्त्विके मध्यमायां च राजस्यां गवि संस्कारहीनायामत्यन्तमेव केवलतामसे हस्त्यादौ च सत्त्वादिगुणैस्तज्जैश्च संस्कारैस्तथा राजसैस्तथातामसैश्च संस्कारैरत्यन्तमेवास्पृष्टं सममेकमविक्रियं ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ।।18।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये विद्याविनयसम्पन्ने... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च