अथ केन प्रयुक्तोऽयं...
श्लोकः
[सम्पादयतु]( ( शृणु))
- अर्जुन उवाच
- अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
- अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य षड्त्रिंशत्तमः (३६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अथ केन प्रयुक्तः अयं पापं चरति पूरुषःअनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३६ ॥
अन्वयः
[सम्पादयतु]वार्ष्णेय ! अथ केन प्रयुक्तः अनिच्छन्नपि बलात् इव नियोजितः अयं पूरुषः पापं चरति ?
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
अथ | एवं हि |
केन | केन हेतुना |
प्रयुक्तः | प्रेरितः |
वार्ष्णेय | वृष्णिकुलसम्भव |
अनिच्छन् अपि | अनभिलषन् अपि |
बलात् इव | हठात् इव |
नियोजितः | प्रवर्तितः |
अयं पूरुषः | एषः मानवः |
पापं चरति | अकर्मणि प्रवर्तते? |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- प्रयुक्तोऽयम् = प्रयुक्तः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अनिच्छन्नपि = अनिच्छन् + अपि – ङ्मुडागमसन्धिः
- बलादिव = बलात् + इव – जश्त्वसन्धिः
कृदन्तः
[सम्पादयतु]- प्रयुक्तो = प्र + युज् + क्त (कर्मणि)
- इच्छन् = इच्छ् + शतृ (कर्तरि)
- नियोजितः = नि + युज् + क्त (कर्मणि)
तद्धितान्तः
[सम्पादयतु]- वार्ष्णेय = वृष्णि + ञ्यङ् (अपत्यार्थे), तत्सम्बुद्धौ
अर्थः
[सम्पादयतु]हे कृष्ण ! अनभिलषन् अपि मानवः राज्ञा नियोजितः भृत्यः इव केन प्रेरितः सन् बलात् पापम् आचरति ?
शाङ्करभाष्यम्
[सम्पादयतु]यद्यप्यनर्थमूलं 'ध्यायतो विषयान्पुंसः'(गी।२।६२), 'रागद्वेषौ ह्यस्य परिपन्थिनो' (गी।३।३४) इति चोक्तं विक्षिप्तमनवधारितं च तदुक्तम् । तत्संक्षिप्तं निश्चितं चेदमेवेति ज्ञातुमुच्छन्नर्जुन उवाच ज्ञाते हि तस्मिंस्तदुच्छेदाययत्नं कुर्यामिति-अथेति। अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्योऽयं पापं कर्म चरत्याचरति पुरुषः स्वयमिच्छन्नपिहे वार्ष्णेय, वृष्णिकुलप्रसूत, बलादिव नियोजितो राज्ञेवेत्युक्तो दृष्टान्तः ।।36।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये अथ केन प्रयुक्तोऽयं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च