ये त्वेतदभ्यसूयन्तो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य द्वात्रिंशत्तमः (३२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढान् तान् विद्धि नष्टान् अचेतसः ॥ ३२ ॥

अन्वयः[सम्पादयतु]

ये तु अभ्यसूयन्तः मे एतत् मतं न अनुतिष्ठन्ति सर्वज्ञानविमूढान् अचेतसः तान् नष्टान् विद्धि ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
ये तु ये मनुष्याः
अभ्यसूयन्तः असूयाविष्टाः सन्तः
मे मम
एतन्मतम् इदम् इष्टम्
न अनुतिष्ठन्ति न पालयन्ति
सर्वज्ञानविमूढान् सकलज्ञानशून्यान्
अचेतसः अविवेकिनः
तान् तान् मानवान्
नष्टान् नाशं गतान्
विद्धि जानीहि ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. त्वेतदभ्यसूयन्तः = तु + एतत् – यण्सन्धिः
    1. एतत् + अभ्यससूयन्तः – जश्त्वसन्धिः
  2. अभ्यसूयन्तो न = अभ्यसूयन्तः + न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  3. नानुतिष्ठति = न + अनुतिष्ठति – सवर्णदीर्घसन्धिः
  4. सर्वज्ञानविमूढांस्तान् = सर्वज्ञानविमूढान् + तान् – रुत्वम्, अनुस्वारागमः, विसर्गः सत्वं च

समासः[सम्पादयतु]

  1. सर्वज्ञानविमूढान् = सर्वाणि ज्ञानानि सर्वज्ञानानि – कर्मधारयः
    1. सर्वेज्ञानेषु विमूढाः, तान् – सप्तमीतत्पुरुषः
  2. अचेतसः = नास्ति चेतः येषां ते - बहुव्रीहिः

कृदन्तः[सम्पादयतु]

  1. अभ्यसूयन्तः = अभि + असू + शतृ (कर्तरि)
  2. नष्टान् = नश् + क्त (कर्तरि) तान्

अर्थः[सम्पादयतु]

ये मानवाः असूयाविष्टाः सन्तः मम अभिप्रायानुगुणं न अनुसरन्ति तान् सर्वान् अविवेकिनः सकल ज्ञानशून्यान् च मृतानेव जानीहि ।

शाङ्करभाष्यम्[सम्पादयतु]

ये त्विति। ये तु तद्विपरीता एतन्मम मतमभ्यसूयन्तो नानुतुष्ठन्ति नानुवर्तन्ते मे मतं सर्वेषु ज्ञानेषु विविधं मूढास्ते सर्वज्ञानविमूढांस्तान्विद्धि नष्टान्नाशं गतानचेतसोऽविवेकिनः।।32।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
ये मे मतमिदं नित्यम्...
ये त्वेतदभ्यसूयन्तो... अग्रिमः
सदृशं चेष्टते स्वस्याः...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ये_त्वेतदभ्यसूयन्तो...&oldid=393854" इत्यस्माद् प्रतिप्राप्तम्