ये मे मतमिदं नित्यम्...
दिखावट
श्लोकः
[सम्पादयतु]( (
शृणु))

- ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
- श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य एकत्रिंशात्तमः (३१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३१ ॥
अन्वयः
[सम्पादयतु]ये मानवाः मे इदं मतं नित्यम् अनुतिष्ठन्ति, अनसूयन्तः श्रद्धावन्तः तेऽपि कर्मभिः मुच्यन्ते ।
शब्दार्थः
[सम्पादयतु]| अन्वयः | सरलसंस्कृतम् |
| ये मानवाः | ये मनुष्याः |
| नित्यम् | सततम् |
| मे | मम |
| इदम् | एतत् |
| मतम् | अभिप्रायम् |
| अनुतिष्ठन्ति | आचरन्ति |
| अनसूयन्तः | असूयारहिताः |
| श्रद्धावन्तः | श्रद्धालवः |
| तेऽपि | तेऽपि |
| कर्मभिः | कर्मबन्धनात् |
| मुच्यन्ते | मुक्ताः भवन्ति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- श्रद्धावन्तोऽनसूयन्तः = श्रद्धावन्तः + अनसूयन्तः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अनसूयन्तो मुच्यन्ते = अनुसूयन्तः + मुच्यन्ते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- तेऽपि = ते + अपि – पूर्वरूपसन्धिः
कृदन्तः
[सम्पादयतु]- असूयन्तः = असू + शतृ (कर्तरि)
- श्रद्धावन्तः = श्रद्धा + मतुप् । श्रद्धा एषाम् एषु वा अस्ति ।
अर्थः
[सम्पादयतु]ये मानवाः मदभिप्रायानुगुणं विना असूयां श्रद्धया च व्यवहरन्ति ते मानवाः सर्वकर्मभिः मुक्ताः भवन्ति ।
शाङ्करभाष्यम्
[सम्पादयतु]यदेतन्मतं कर्म कर्तव्यमिति सप्रमाणमुक्तं तत्त्था-ये म इति। येमे मदीयमिदं मतमनुतिष्ठन्त्यनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तोऽसूयां च मयि गुरौ वासुदेवेऽकुर्वन्तो मुच्यन्ते तेऽप्येवभूताः कर्मभिर्धर्माधर्माख्यैः।।31।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]| विकिमीडिया कॉमन्स् मध्ये ये मे मतमिदं नित्यम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च