ये मे मतमिदं नित्यम्...
श्लोकः[सम्पादयतु]
( ( शृणु))

- ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
- श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य एकत्रिंशात्तमः (३१) श्लोकः ।
पदच्छेदः[सम्पादयतु]
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३१ ॥
अन्वयः[सम्पादयतु]
ये मानवाः मे इदं मतं नित्यम् अनुतिष्ठन्ति, अनसूयन्तः श्रद्धावन्तः तेऽपि कर्मभिः मुच्यन्ते ।
शब्दार्थः[सम्पादयतु]
अन्वयः | सरलसंस्कृतम् |
ये मानवाः | ये मनुष्याः |
नित्यम् | सततम् |
मे | मम |
इदम् | एतत् |
मतम् | अभिप्रायम् |
अनुतिष्ठन्ति | आचरन्ति |
अनसूयन्तः | असूयारहिताः |
श्रद्धावन्तः | श्रद्धालवः |
तेऽपि | तेऽपि |
कर्मभिः | कर्मबन्धनात् |
मुच्यन्ते | मुक्ताः भवन्ति । |
व्याकरणम्[सम्पादयतु]
सन्धिः[सम्पादयतु]
- श्रद्धावन्तोऽनसूयन्तः = श्रद्धावन्तः + अनसूयन्तः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- अनसूयन्तो मुच्यन्ते = अनुसूयन्तः + मुच्यन्ते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- तेऽपि = ते + अपि – पूर्वरूपसन्धिः
कृदन्तः[सम्पादयतु]
- असूयन्तः = असू + शतृ (कर्तरि)
- श्रद्धावन्तः = श्रद्धा + मतुप् । श्रद्धा एषाम् एषु वा अस्ति ।
अर्थः[सम्पादयतु]
ये मानवाः मदभिप्रायानुगुणं विना असूयां श्रद्धया च व्यवहरन्ति ते मानवाः सर्वकर्मभिः मुक्ताः भवन्ति ।
शाङ्करभाष्यम्[सम्पादयतु]
यदेतन्मतं कर्म कर्तव्यमिति सप्रमाणमुक्तं तत्त्था-ये म इति। येमे मदीयमिदं मतमनुतिष्ठन्त्यनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तोऽसूयां च मयि गुरौ वासुदेवेऽकुर्वन्तो मुच्यन्ते तेऽप्येवभूताः कर्मभिर्धर्माधर्माख्यैः।।31।।
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये ये मे मतमिदं नित्यम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च