प्रकृतेः क्रियमाणानि...
प्रकृतेः क्रियमाणानि... ज्ञान्यज्ञानिनोः भेदः | |
---|---|
श्लोकसङ्ख्या | ३/२७ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | न बुद्धिभेदं जनयेद्... |
अग्रिमश्लोकः | तत्त्ववित्तु महाबाहो... |
प्रकृतेः क्रियमाणानि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञान्यज्ञानिनोः भेदं प्रदर्शयति । पूर्वस्मिन् श्लोके ज्ञानिपुरुषेभ्यः बुद्धिभेदम् अनुत्पादनस्य आज्ञां दत्त्वा अत्र भगवान् ज्ञान्यज्ञानिनोः मध्ये किं भिन्नत्वम् अस्ति इति बोधयति । सः कथयति यद्, सर्वाणि कर्माणि सर्वधा प्रकृतिगुणैः एव क्रियन्ते । परन्तु अहङ्कारद्वारा मोहितान्तःकरणयुक्तः अज्ञानी पुरुषः 'अहं कर्ता' इति मनुते इति ।
श्लोकः
[सम्पादयतु]- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
- अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥
पदच्छेदः
[सम्पादयतु]प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते ॥ २७ ॥
अन्वयः
[सम्पादयतु]अहङ्कारविमूढात्मा प्रकृतेः गुणैः सर्वशः क्रियमाणानि कर्माणि कर्ता अहम् इति मन्यते ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
अहङ्कारविमूढात्मा | अहङ्कारविवशात्मा |
प्रकृतेः | स्वभावस्य |
गुणैः | देहेन्द्रियादिभिः विकारैः |
सर्वशः | सर्वप्रकारेण |
क्रियमाणानि | विधीयमानानि |
कर्माणि | कर्माणि |
कर्ता | आचरिता |
अहम् इति | अहमेव इति |
मन्यते | चिन्तयति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- कर्ताहम् = कर्ता + अहम् – सवर्णदीर्घसन्धिः
समासः
[सम्पादयतु]- अहङ्कारविमूढात्मा = अहङ्कारेण विमूढः अहङ्कारविमूढः – तृतीयातत्पुरुषः
- अहङ्कारविमूढः आत्मा यस्य सः – बहुव्रीहिः
कृदन्तः
[सम्पादयतु]- प्रकृतेः = प्र + कृ + क्तिन् (कर्तरि), तस्याः । प्रकरोति इति प्रकृतिः ।
- क्रियमाणानि = कृ + कर्मणि लट्, शानच्
तद्धितान्तः
[सम्पादयतु]- सर्वशः = सर्व + शस् (प्रकारार्थे)
अर्थः
[सम्पादयतु]देहेन्द्रियादयः सर्वेऽपि प्रकृतेः विकारभूताः । ते एव कर्माणि कुर्वन्ति न तु आत्मा । अयं पुनः आत्मा यदा प्रकृतिजन्येन अहारेण युक्तः भवति तदा अहमेव सर्वेषां कर्मणां कर्ता इति जानाति ।
भावार्थः
[सम्पादयतु]'प्रेकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः' – यस्याः समष्ट्याः शक्त्या शरीरवृक्षादयः उत्पद्यन्ते, पालयन्ते, गङ्गादयः नद्यः प्रवहन्ति, प्रासादादयः परिवर्तन्ते, सा एव समष्टिः मनुष्यानां दृश्य-श्रवण-पचनादिशक्तिषु कारणभूता । परन्तु अहङ्कारेण मोहितः अज्ञानी मनुषः एकया समष्ट्या जायमानां क्रियां द्विधा विभजनं करोति । शरीरनिर्माणं, भोजनपचनम् इत्यादयः स्वतः जायमानानां क्रियाणां कृते आत्मानम् अकर्ता चिन्तयति । अपरत्र दर्शनं, वदनं, भोजनम् इत्यादीनां क्रियाणां कर्तृत्वेन आत्मानम् एव स्वीकरोति । प्रकृत्याः उत्पन्नानां गुणानां (सत्त्व-रज-तमानां) कार्यत्वाद् बुद्धिः, अहङ्कारः, मनः, पञ्चमहाभूतानि, दश इन्द्रियाणि, इन्द्रियाणां शब्दाः इत्यादयः पञ्च विषयाः प्रकृतेः गुणाः भवन्ति । उपर्युक्तैः पदैः भगवान् स्पष्टयति यद्, सर्वाः क्रियाः (समष्टेः व्यष्टेः वा) प्रकृतीनां गुणैः एव भवन्ति, न तु स्वरूपेण इति ।
'अहङ्कार विमूढात्मा' - 'अहङ्कार' इत्येषा अन्तःकरणस्य काचित् वृत्तिः । स्वरूपं तु वृत्तेः ज्ञाता अस्ति । परन्तु अज्ञानत्वाद् स्वरूपं तां वृत्तिं प्रति ममत्वं स्थापयति । एवं तां वृत्तिम् एव आत्मत्वेन स्वीकृत्यः मनुष्यः विमूढात्मा उच्यते । यथा शरीरम् 'इदम्' इत्यस्मिन् अन्तर्भवति, तथैव 'अहम्' अपि तत्रैव अन्तर्भूतः इति सिद्धान्तः । यदा मनुष्यः अज्ञानत्वात् 'इदम्' इत्येनमेव 'अहम्' इतित्वेने मनुते, तदा सः 'अहङ्कारविमूढात्मा' उच्यते । सः मन्यमानः अहङ्कारः उद्योगेन न दूरीभवति । यतो हि उद्ये अपि अहङ्कारः भवति । मन्यमानः अहङ्कारः 'अस्वीकृत्या' एव अपाभवति । 'अहम्' द्विविधः । वास्तविकाधाररूपः, अवास्तविकाधाररूपश्च । वास्तविकाधाररूपः 'अहम्' इत्युक्ते 'अहम् अस्मि' इति । अवास्तविकाधाररूपः 'अहम्' इत्युक्ते 'अहं शरीरम् अस्मि' इति । तयोः वास्तविकावास्तविकयोः अहम् इत्येतयोः वास्तविकाहं नित्यत्वात् विस्मृते सत्यपि दूरे न भवति । प्रत्युत अवास्तविकाहम् अनित्यत्वाद् प्रतीते सत्यपि स्थायी न भवति ।
'कर्ताहमिति मन्यते' – सर्वाणि कर्माणि सर्वधा प्रकृतिजन्यैः गुणैः एव जायन्ते । तथापि अहङ्काराद् मोहितान्तःकरणयुक्तः अज्ञानी पुरुषः केषाञ्चन कर्मणां कर्तृत्वेन आत्मानम् आरपयति । किञ्च सः अहङ्कारमेव स्वरूपत्वेन अङ्गीकरोति । अङ्कारत्वादेव मनुष्यः शरीरेन्द्रियमनोबुद्ध्यादिषु 'अहन्त्वम्' स्वीकरोति । एवं तेषां क्रियाणां कर्तृत्वेन आत्मानं मनुते । सा विपरीता मान्यता मनुष्येण स्वेन एव अक्रियत । अतः तां दूरीकर्तुं सः स्वयमेव प्रयस्यात् (प्रयासं कुर्यात्) । 'कार्यम्', 'अकार्यम्' इत्येतौ पदौ विपरीतौ स्तः इति प्रतीयते । परन्तु तौ उभावपि कर्मणि अन्तर्भवतः । यतो हि शयनम्, अवस्थानं, गमनं, समाधिः इत्यादयः क्रिया एव । क्रिया केवलं प्रकृतौ एव जायते । चेतनः तु क्रियाक्रिययोः पर सर्वेषां प्रकाशकः । यदि चेतनेऽपि क्रिया अभविष्यति, तर्हि सः स्वस्य ज्ञाता कथम् अभविष्यत् । क्रियाक्रिययोः अवस्थितिः 'अहम्' इत्यस्य उपस्थितौ एव शक्यते ।
शाङ्करभाष्यम्
[सम्पादयतु]अविद्वानज्ञः कथं कर्मसु सज्जत इत्याह-प्रकृतेरिति। प्रकृतेः प्रकृतिः प्रधआनं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेर्गुणैर्विकारैः कार्यकरणरीपैः क्रियमाणानि कर्माणि लौकिकानि शास्रीयाणि च सर्वशः सर्वप्रकारैरहंकारविमूढात्मा कार्यकरणसंघात आत्मप्रत्ययोऽहंकारस्तेन विविधं नानाविधं मूढ आत्मान्तःकरणं यस्यसोऽयं कार्यकरणधर्मा कार्यकरणाभिमान्यविद्यया कर्माण्यात्मनि मन्यमानस्तत्तत्कर्मणामहं कर्तेति मन्यते ।।27।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये प्रकृतेः क्रियमाणानि... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च