सामग्री पर जाएँ

लोकेऽस्मिन् द्विविधा निष्ठा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लोकेऽस्मिन् द्विविधा निष्ठा...


समतायाः वर्णनम्
श्लोकसङ्ख्या ३/३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः व्यामिश्रेणेव वाक्येन...
अग्रिमश्लोकः न कर्मणामनारम्भात्...

लोकेऽस्मिन्द्विविधा निष्ठा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः वर्णनं करोति । पूर्वस्मिन् श्लोके अर्जुनः भगवन्तं मिश्रवचनम् अनुक्त्वा मह्यं कल्याणप्रदं तयोः एकं वदतु इति अवदत् । इतः भगवान् अर्जुनस्य व्यामिश्रेणेव वाक्येन इत्यस्य पदस्य उत्तरम् आरभते । सः कथयति यद्, हे निष्पाप अर्जुन ! एतस्मिन् मनुष्यलोके द्विधा निष्ठे स्तः । ये मया पूरा उक्ते । तयोः ज्ञानिनां निष्ठा ज्ञानयोगेन, कर्मयोगिनां निष्ठा कर्मयोगेन सिद्ध्यति इति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः

श्रीभगवानुवाच -

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

पदच्छेदः

[सम्पादयतु]

लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

अन्वयः

[सम्पादयतु]

अनघ ! अस्मिन् लोके पुरा मया ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् (इति) द्विविधा निष्ठा प्रोक्ता ।

शब्दार्थः

[सम्पादयतु]
अन्वयः सरलसंस्कृतम्
अनघ हे पापरहित
अस्मिन् एतस्मिन्
लोके प्रपञ्चे
पुरा पूर्वम्
मया अनेन मया
ज्ञानयोगेन आत्म-अनात्मविवेकेन
साङ्ख्यानाम् संन्यासिनाम्
कर्मयोगेन कर्माचरणेन
योगिनाम् कर्मासक्तानाम्
द्विविधा उभयविधा
निष्ठा व्यवस्था
प्रोक्ता वर्णिता ।

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. लोकेस्मिन् = लोके + अस्मिन् – पूर्वरूपसन्धिः
  1. अनघः = न विद्यते अघं यस्य सः – नञ्बहुव्रीहिः
  2. ज्ञानयोगः = ज्ञानम् एव योगः – कर्मधारयः
  3. कर्मयोगः = कर्म एव योगः - कर्मधारयः

कृदन्तः

[सम्पादयतु]
  1. निष्ठा = नि + स्था + अङ् (भावे) – व्यवस्थाः इत्यर्थः ।
  2. प्रोक्ता = प्र + वच् + क्त (कर्मणि)

तद्धितान्तः

[सम्पादयतु]
  1. योगिनाम् = योग + इनि (मुतबर्थे) । योगः एषाम् एषु वा अस्ति, तेषाम् ।
  2. साङ्ख्यानाम् = साङ्ख्या + अण् (भवार्थे) सङ्ख्यायां (बुद्धौ) भवाः, तेषाम् ।

हे अर्जुन ! साङ्ख्यानां कृते ज्ञानमार्गः योगिनां कृते कर्ममार्गः इति द्विविधो मार्गः मया प्रागेव प्रोक्तः ।

भावार्थः

[सम्पादयतु]

अर्जुनः युद्धं कर्तुं नेच्छति स्म । अतः समतावाचकस्य 'बुद्धिः' इत्यस्य पदस्य अर्थं 'ज्ञानम्' इति अङ्ग्यकरोत् सः । परन्तु पूर्वमेव भगवान् 'बुद्धिः', 'बुद्धियोगः' इत्येताभ्यां पदाभ्यां समतायाः वर्णनम् अकरोत् [] । अतः अत्रापि भगवान् ज्ञानकर्मयोगाभ्यां प्रापणीयायाः समतायाः वर्णनं करोति । 'अनघ' – अर्जनेन स्वस्य श्रेयसः प्रश्नः एव तस्य निष्पापतां बोधयति । यतो हि स्वस्य कल्याणस्य तीव्रेच्छा साधकं सर्वेभ्यः पापेभ्यः मोचयति । 'लोकेस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मया' – अत्र लोके इत्यनेन पदेन मनुष्यशरीरं स्वीकर्तव्यम् । यतो हि ज्ञानयोगं, कर्मयोगं च साधनत्वेन स्वीकर्तुम् अधिकारं साधकः मनुष्यशरीरे एव प्राप्नोति ।

'निष्ठा' – समभावे एका एव स्थितिः अस्ति । परन्तु तां स्थितिं द्वाभ्यां मार्गाभ्यां प्राप्तुं शक्नुमः । तौ मार्गौ ज्ञानयोगः, कर्मयोगश्च । तयोः उभयोः योगयोः भिन्नविभागं कर्तुं भगवान् अग्रे अवदत् यद्, एनां समबुद्धिम् अहं साङ्ख्ययोगस्य सन्दर्भे अवदम् (द्वितीयाध्यायस्य एकादशात् श्लोकात् त्रिंशं श्लोकं पर्यन्तम्), अधुना तां कर्मयोगसन्दर्भे शृणु (द्वितीयाध्यायस्य एकोनत्रिंशाद् श्लोकात् त्रिपञ्चाशं श्लोकं पर्यन्तम्) इति []पुरा इत्यस्य पदस्य अर्थः द्विधा भवति । प्रप्रथमः तु आदिकालः इति । द्वितीयः अमुकक्षणात् पूर्वम् इति च । अत्र पुरा इत्यस्य शब्दस्य अर्थः अमुकक्षणात् पूर्वम् इति अस्ति । अर्थात् अग्रिमे अध्याये इति । यद्यपि पुरा भवान् द्वे निष्ठे इति स्पष्टतया अवदत्, परन्तु तयोः निष्ठयोः कर्मत्यागस्य उल्लेखं कुत्रापि नाकरोत् सः । तथापि अर्जुनस्य मनसि शङ्का समुत्पन्ना ।

'ज्ञानयोगेन साङ्ख्यानाम्' – प्रकृत्याः उत्पन्नाः गुणाः एव गुणेषु सन्ति । सर्वाः क्रियाः गुणेषु, इन्द्रियेषु एव सन्ति । तेन सह मम कोऽपि सम्बन्धः नास्ति । एतादृशं विचिन्त्य क्रियाभ्यः स्वकर्तृत्वस्य त्याग एव ज्ञानयोगः । गीतोपदेशस्य आरम्भे एव भगवान् साङ्ख्ययोगस्य वर्णनं कुर्वन् नाशवतः शरीरस्य, अविनाशिनः शरीरिणश्च विवेचनम् अकरोत् । ते तत्त्वे एव असद्, सच्च [] । 'कर्मयोगेन योगिनाम्' – वर्णाश्रमस्वभावपरिस्थित्यानुसारं यानि शास्त्रविहितानि कर्तव्यकर्माणि सम्मुखम् आयान्ति, तेषु कर्मसु उत तेषां कर्मणां फलेषु कमना-ममता-आसक्त्यादीनां त्यागः करणीयः । कर्मणः सिद्ध्यसिद्ध्योः समत्वमेव 'कर्मयोगः' ।

अत्र भगवान् द्वे निष्ठे उपास्थापयत् । साङ्ख्यनिष्ठा (ज्ञानयोगः), योगनिष्ठा (कर्मयोगः) च । तथैव संसारे द्विविधाः पुरुषाः भवन्ति [] । तौ पुरुषौ क्षरः, अक्षरश्च । क्षरः अर्थाद् नाशवान् संसारः । अक्षरः अर्थाद् अविनाशिस्वरूपः । क्षरस्य सिद्ध्यसिद्धौ, प्राप्त्यप्राप्त्यौ च समत्वम् एव कर्मयोगः । क्षराद् विमुखः सन् अक्षरे अवस्थितिः एव ज्ञानयोगः । परन्तु तयोः पुरुषयोः उत्तमपुरुषस्तु भिन्न एव अस्ति । यः परमात्मा इति प्रसिद्धः [] । सः परमात्मा क्षराद् अतीतः अस्ति, तथा च अक्षराद् अपि उत्तमः अस्ति । अतः शास्त्रेषु, वेदेषु च सः पुरुषोत्तमः इति प्रसिद्धः []। तादृशस्य परमात्मनः सर्वथा सर्वभावेन शरणस्वीकरः एव भगवन्निष्ठा अर्थाद् भक्तियोगः इति । एवं क्षरस्य प्राधान्येन कर्मयोगः, अक्षरस्य प्राधान्येन ज्ञानयोगः, परमात्मनः प्राधान्येन भक्तियोगश्च चलति । वास्तव्येन ईश्वरस्य सम्बन्धः ज्ञानकर्मयोगाभ्यां सहापि अस्ति । किञ्च तयोः उभयोः विधायकः भगवान् स्वयम् अस्ति । कर्मयोगेन, ज्ञानयोगेन च कल्याणस्य विधानं तु केवलं भगवता एव जातम् अस्ति । अतः कर्मयोगी, ज्ञानयोगी च भगवतः मतं (सिद्धान्त) परिपालयतः । केवलं तस्मिन् भगत्परायणता न भवति ।

साङ्ख्यनिष्ठा, योगनिष्ठा च साधनकानां निष्ठे स्तः । परन्तु भगवन्निष्ठा साधकानां निष्ठा न । किञ्च साङ्ख्यनिष्ठायां, योगनिष्ठायां च साधकः अहम् अस्मि, संसारः अस्ति एतादृशम् अनुभवति । अतः ज्ञानयोगी संसाराद् सम्बन्धं विच्छिद्य स्वस्य स्वरूपे स्थितः भवति । कर्मयोगी च संसारस्य शरीरादिपदार्थान् संसारस्य सेवायाम् एव योजयित्वा संसाराद् सम्बन्धं विच्छेदयति । परन्तु भगवन्निष्ठायां साधकः 'भगवान् अस्ति' इति नानुभवति । अपि तु स्वरूपाद् संसाराच्च किमपि विलक्षणं तत्त्वम् (भगवान्) अस्ति इति विश्वसति । एवं सः श्रद्धया ईश्वरतत्त्वं स्वीकृत्य तस्मै आत्मानं समर्पयति । अतः साङ्ख्यनिष्ठायां, योगनिष्ठायां च तुं विवेकः मुख्यः अस्ति । परन्तु भगवन्निष्ठायां विश्वासः प्रामुख्यं वहति । विवेकः, विश्वासः इत्येतयोः कोऽपि भेदः नास्ति । यथा ज्ञानं सन्देहरहितं भवति, तथैव विश्वासोऽपि सन्देहरहितः भवति । विश्वासे कृते ततः विचारस्य सम्भावना न भवति । यथा अमुकस्त्री मे माता इति विश्वासे कृते तस्मिन् सन्दर्भे कदापि सन्देहः नोत्पद्यते । अतः भक्तियोगे यत्रापि ज्ञानस्य उल्लेखः अस्ति, तत्र विश्वासः एव स्वीक्रियते । एवमेव ज्ञानयोगस्य, कर्मयोगस्य च सन्दर्भे यत्र विश्वासस्य उल्लेखः अस्ति, तत्र ज्ञानम् एव अङ्गीक्रियते ।

साङख्यनिष्ठा, योगनिष्ठा च साधनसाध्यसम्बन्धं वहतः । तद् साधकानुगुमं भवति । परन्तु भगवन्निष्ठायां साधनसाध्यम् एव न भवति । भगवन्निष्ठायां साधकः भगवति, तस्य कृपयामेव निर्भरते । भगवन्निष्ठायाः वर्णनं गीतायां विवेधेषु स्थानेषु अस्ति ।

शाङ्करभाष्यम्

[सम्पादयतु]

प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच- लोकेऽस्मिन्निति। लोकेऽस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां द्विविधा द्विप्रकारा निष्ठा स्थितिरनुष्ठेयतात्पर्यंठपुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासामभ्युदयनिःश्रेयसप्राप्तिसाधनं वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेनेश्वरेण। हेऽनघापाप, तत्र का साद्विविधा निष्ठेत्याह-तत्र ज्ञानयोगेन ज्ञानमेव योगस्तेन साख्यानामात्मविषयविवेकज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा प्रोक्ता, कर्मयोगेन कर्मैव योगः कर्मयोगस्तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्तेत्यर्थः।यदि चैकेन पुरुषेणैकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं भगवतेष्टमुक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तं कथमिहार्जुनायोपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृकेएव ज्ञानकर्मनिष्ठे ब्रूयात्। यदि पुनरर्जुने ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यत्यन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामिति मतं भगवतः कल्प्येततदा रागद्वेषवानप्रमाणभूतो भगवान्कल्पितः स्यात्। तच्चायुक्तं, तस्मात् कयापि युक्त्या न समुच्चयोज्ञानकर्मणोः। यदर्जुनेनोक्तं कर्मणॊ बुद्धेस्तच्च स्थितमनिराकरणात् । तस्याश्च जननिष्ठायाः संन्यासिनामेवानुष्ठेयत्वं भिन्नपुरुषानुष्ठेयत्ववच्नात् भगवत एवमेवानुमतमिति गम्यतॆ ॥३॥

‘मां च बन्धकारणे कर्मण्येव नियोजयसि’ इति विषण्णमनसमर्जुनम् ‘कर्म नारभे’ इत्येवं मन्वानमालक्ष्य आह भगवान् — न कर्मणामनारम्भात् इति । अथवा — ज्ञानकर्मनिष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुमशक्त्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम्, न स्वातन्त्र्येण ; ज्ञाननिष्ठा तु कर्निष्ठोपायलब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन् आह भगवान् —

भाष्यार्थः

[सम्पादयतु]

प्रश्नानुगुणमेव उत्तरं यच्छन् भगवान् अवदत् – हे निष्पाप अर्जुन ! एतस्मिन् मनुष्यलोके शास्त्रोक्तयोः कर्मज्ञानयोः ये अधिकारिणः सन्ति, तेभ्यः त्रैवर्णिकेभ्यः अर्थात् ब्राह्मण-क्षत्रिय-वैश्येभ्यः द्विधा निष्ठा अस्ति । सा निष्ठा अर्थात् स्थितिः । सा स्थितिः इत्युक्ते कर्तव्यतत्परता । पुरा सृष्टेः आदिकाले प्रजानां रचनां कृत्वा तासां (प्रजानां) लौकिकोत्पत्तेः, मोक्षप्राप्तेः साधनरूपस्य वैदिकसम्प्रदायस्य च आविष्कुर्वता मया सर्वज्ञेन ईश्वरेण सा कर्तव्यतत्परता उक्ता आसीत् । ते द्विप्रकारे निष्ठे के ? चेद्, कथयति – यः आत्मानात्मयोः विषये विवेकजन्यात् ज्ञानात् सम्पन्नः अस्ति, यः ब्रह्मचर्याश्रमादेव सन्न्यासं गृहीतवान्, यः वेदान्तविज्ञानेन आत्मतत्त्वस्य योग्यतया निश्चयं कृतवान्, यः परमहंसः संन्यासी अस्ति, यः निरन्तरं ब्रह्मणि एव स्थितः अस्ति, तादृशस्य साङ्ख्ययोगिनः निष्ठा ज्ञानरूपियोगेन उक्ता । तथा च कर्मयोगेन कर्मयोगिनः निष्ठा उक्ता अस्ति ।

यदि केनचित् पुरुषेण एकस्यैव प्रयोजनस्य सिद्ध्यै ज्ञानकर्मणोः सहसा अनुष्ठानं योग्यम् इति अभिप्रायः भगवता गीताशास्त्रे पूर्वमेव अवदिष्यत् उत अग्रे अथयिष्यत् उत वेदाः एवम् उदलेखिष्यत्, तर्हि स्वस्य शरणम् आगतम् अर्जुनं ज्ञानकर्मनिष्ठयोः भिन्नैः पुरुषैः एव अनुष्ठानं योग्यम् इति भगवान् किमर्थं कथयेत् ? ज्ञानकर्मणोः विषये श्रुत्वा अर्जुनः स्वयमेव उभयोः अनुष्ठानं करिष्यति । उभयोः (ज्ञानकर्मणोः) भिन्नैः पुरुषैः अनुष्ठानस्य विषयं तु अन्यान् कथयिष्यामि इति भगवतः अभिप्रायः आसीत् । एवं चिन्तयामः चेत्, भगवान् रागद्वेषयुक्तः, अप्रमाणिकश्च सिद्ध्यति । एतादृशं चिन्तनं सर्वथा अनुचितम् । एवं न कस्यामपि स्थित्यां ज्ञानकर्मणोः समुच्चयः युक्तिसङ्गतः ।

कर्मणाम् अपेक्षया ज्ञानस्य श्रेष्ठता या अर्जुनेन उक्ता, सा तु सिद्धा एव अस्ति । यतो हि भगवान् तस्य निराकरणं नावदत् । तस्याः ज्ञाननिष्ठायाः अनुष्ठानाधिकारः सन्न्यासिनामेव अस्ति । यतो हि उभयोः निष्ठयोः भिनैः पुरुषैः अनुष्ठानस्य योग्यता उक्ता अस्ति । अतः भगवतः अपि अत्र एव सम्मतिः इति प्रतीयते ।

भाष्यार्थः

[सम्पादयतु]

हे अर्जुन ! पूर्वक्तं मे विषयं त्वं योग्यतया नावगच्छत् । विभिन्नेभ्यः अधिकारिभ्यः परिपूर्णे संसारेऽस्मिन् पुरा एव मया ज्ञानविषयकी, कर्मविषयकी च निष्ठे अधिकारिणाम् अनुसारं भिन्ने उक्ते । यतो हि सर्वेऽपि संसारिणः मनुष्याः मोक्षेच्छां कृत्वा सहसा ज्ञानयोगाधिकारिणः न भवन्ति । अपि तु फलाभिसन्धिरहितस्य केवलं परमपुरुषस्य परमात्मनः आराधनारूपिणि कर्मणि येन स्वमनसः मलः नष्टः कृतः, यस्य इन्द्रियाणि शान्तानि सन्ति, स एव पुरुषः ज्ञाननिष्ठायाः अधिकारी भवति ।

येन समस्तभूतानाम् उत्पत्तिः अभवत्, येन एषः संसारः व्याप्तः अस्ति, तं परमात्मानं स्वकर्णभिः पूजयित्वा मनुष्यः सिद्धिं प्राप्तुं शक्नोति [] । एवं परमपुरषस्य आराधना एव कर्मणाम् एकमात्रं प्रयोजनम् अस्ति इति अग्रे भगवान् वदिष्यति । अत्र अर्थात् द्वितीयेऽध्याये अपि 'कर्मण्येवाधिकारस्ते' इत्यादिभिः श्लोकैः फलाभिसन्धिरहितस्य कर्मणः कर्तव्यत्वेन उल्लिखितम् । ततः तेन कर्तव्यपालनेन यस्य बुद्धिः विषयेभ्यः अर्थात् व्याकुलतारूपात् मोहोत् उत्तीर्णा अस्ति, तादृशाय पुरुषाय 'प्रजहाति यदा कामान्' इत्यादिभिः श्लोकैः ज्ञानयोगस्य विधानं कृतम् अस्ति । अत एव सिद्ध्यति यद्, केवलं साङ्ख्ययोगिनामेव स्थितिः ज्ञानयोगात् उक्ता । योगिनां (कर्मयोगिनां) तु कर्मयोगेन एव उक्ता इति ।

सङ्ख्या इत्युक्ते बुद्धिः । तया युक्तः यः अस्ति, सः साङ्ख्यः अर्थात् यः एकमात्रम् आत्मविषयक्या बुद्ध्या युक्तः अस्ति, सः साङ्ख्यः । ये तस्य साङ्ख्यस्य अधिकारिणः न सन्ति, ते कर्मयोगस्य अधिकारिणः सन्ति । ये कर्मयोगस्य अधिकारिणः सन्ति, ते योगिनः (कर्मयोगिनः) सन्ति । यः विषययुक्तः अस्ति अर्थात् व्याकुलबुद्ध्या युक्तः अस्ति, तस्य कर्मयोगे अधिकारः उक्तः, परन्तु यस्य बुद्धिः अव्याकुला (स्थिरा) अस्ति, तस्य ज्ञानयोगेऽधिकारः इति उक्तम् । अत एव अत्र न तु परस्परविरुद्धम् उक्तं न तु व्यामिश्रम् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
व्यामिश्रेणेव वाक्येन...
लोकेऽस्मिन् द्विविधा निष्ठा... अग्रिमः
न कर्मणामनारम्भात्...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. गीता, अ. २, श्लो. ३९,४९
  2. गीता, अ. २, श्लो. ३९
  3. गीता, अ. २, श्लो. १६
  4. द्वाविमौ पुरुषौ लोके, गीता, अ. १५, श्लो. १६
  5. उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः, गीता, अ. १५, श्लो. १७
  6. गीता, अ. १५, श्लो. १८
  7. यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। गीता, अ. १८/४६

अधिकवाचनाय

[सम्पादयतु]