यज्ञार्थात्कर्मणोऽन्यत्र...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यज्ञार्थात्कर्मणोऽन्यत्र...


कर्म मुक्तिमार्गः
श्लोकसङ्ख्या ३/९
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः नियतं कुरु कर्म त्वं...
अग्रिमश्लोकः सहयज्ञाः प्रजाः सृष्ट्वा...

यज्ञार्थात्कर्मणोऽन्यत्र () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मणः मुक्तिः कथम् इति वदति । पूर्वस्मिन् श्लोके भगवान् अवदत् यद्, अकर्मणि सति शरीरनिर्वाहः अपि न भवति । एवं सः कर्मणः परमावश्यतां बोधयति । परन्तु कर्मणि कृते एव बन्धनं भवति इति उक्तम् अस्ति [१] । तर्हि बन्धनात् मुक्तिम् इच्छति यः मनुष्यः, तेन किं करणीयम् इति भगवान् अनेन श्लोकेन बोधयति । सः कथयति यद्, यज्ञाय (कर्तव्यकर्मभ्यः) क्रियमाणानि कर्माणि त्यक्त्वा स्वस्य कृते कर्म कर्तुं यः मनुष्यसमुदायः युक्तः अस्ति, सः कर्मबन्धनयुक्तः भवति । अतः हे कुन्तीनन्दन ! त्वम् अनासक्तो भूत्वा यज्ञाय (कर्तव्यकर्मभ्यः) कर्म कुरु इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥

पदच्छेदः[सम्पादयतु]

यज्ञार्थात् कर्मणः अन्यत्र लोकः अयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९॥

अन्वयः[सम्पादयतु]

यज्ञार्थात् कर्मणः अन्यत्र अयं लोकः कर्मबन्धनः (भवति) । तदर्थं कौन्तेय ! मुक्तसङ्गः कर्म समाचर ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
यज्ञार्थात् विष्णुप्राप्तिरूपात् प्रयोजनात्
कर्मणः कर्मणः अपेक्षया
अन्यत्र इतरत्र (संलग्नः)
अयं लोकः एषः प्रपञ्चः
कर्मबन्धनः कर्मबन्धवान् भवति
कौन्तेय अर्जुन !
तदर्थं यज्ञार्थम्
मुक्तसः त्यक्तसो भूत्वा
कर्म शास्त्रोक्तं कर्म
समाचर आचर ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. कर्मणोऽन्यत्र = कर्मणः + अन्यत्र – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. लोकोऽयम् = लोकः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च

समासः[सम्पादयतु]

  1. कर्मबन्धनः = कर्म बन्धनं यस्य सः – बहुव्रीहिः
  2. मुक्तसङ्गः = मुक्तः सङ्गः येन सः - बहुव्रीहिः

कृदन्तः[सम्पादयतु]

  1. बन्धिनम् = बन्ध + ल्युट् (करणे) बध्यते अनेन इत्यर्थः

अर्थः[सम्पादयतु]

येन विष्णोः प्राप्तिः भवति ततोऽतिरिक्तं सर्वमपि कर्म जनानां बन्धकं भवति । तस्मात् फलापेक्षारहितः सन् शास्त्रोक्तं स्वकीयं कर्म समाचर ।

भावार्थः[सम्पादयतु]

'यज्ञार्थात् कर्मणोऽन्यत्र' – गीतायां सर्वत्र कर्तव्यपालनम् इत्युक्ते 'यज्ञः' इति प्रतिपादितम् अस्ति । 'यज्ञः' इत्यस्य पदस्य उपयोगेन यज्ञ-दान-तपो-होम-तीर्थसेवन-व्रत-वेदाध्ययनादीनि समस्तानि शारीरिक-व्यावहारिक-पारमार्थिककर्माणि लक्षीभवन्ति । कर्तव्यं मत्त्वा क्रियमाणानि व्यापार-वृत्ति-अध्ययन-अध्यापनादीनि शास्त्रविहितानि कर्माणि अपि 'यज्ञः' एव । अन्यस्य सुखाय, हिताय च यानि कर्माणि क्रियन्ते, तानि सर्वाणि यज्ञे एव अन्तर्भवन्ति । यज्ञार्थे कृतानि कर्माणि आसक्तिं दूरीकुर्वन्ति, तथा च कर्मयोगिनः कर्माणि शीघ्रमेव नाशयन्ति [२] । अर्थात् यानि कर्माणि यज्ञाय भवन्ति, तानि तु कर्मबन्धनरूपिणी न भवन्ति इति तु अस्त्येव, परन्तु तेन सह तानि कर्माणि साधकस्य पूर्वसञ्चितानि कर्माणि समापयन्ति । वस्तुतः मनुष्यस्य स्थितिः तस्य उद्देश्यानुगुणं भवति, तस्य क्रियानुसारं न । यथा व्यापारिणः धनार्जनं प्रधानोद्देश्यं भवति । अतः तस्य स्थितिः धने एव भवति, अतः व्यापारविरामे सत्यपि तस्य वृत्तिः धनगामिनी एव भवति । एवं यथार्थकर्मणः पालनावसरे कर्मयोगिनः स्थितिः स्वस्य उद्देश्ये अर्थात् परमात्मनि एव भवति । ततः कर्मणि समाप्ते कृते तस्य बुद्धिः पुनः परमात्मनि एव विलीना भवति । सर्वेभ्यः वर्णेभ्यः भिन्नानि कर्माणि विहिकर्माणि सन्ति । एकस्य वर्णस्य कृते किमपि कर्म विहितकर्म (स्वधर्म) अस्ति, तर्हि अन्यस्य कृते तदेव कर्म अविहितम् (परधर्म) । भिक्षया जीवननिर्वाहः ब्राह्मणेभ्यः स्वधर्म अस्ति, परन्तु तदेव कर्म क्षत्रियेभ्यः परधर्म । एवमेव निष्कामभावेन कर्तव्यकर्मणः पालनं मनुष्यस्य स्वधर्म अस्ति, सकामभावेन कर्मणः पालनं मनुष्यस्य परधर्म अस्ति इति । यावन्ति सकामकर्माणि, निषिद्धकर्माणि च सन्ति, तानि सर्वाणि 'अन्यत्र कर्माणि' एव अन्तर्भवन्ति । स्वस्य सुखं, सम्माननं, प्रतिष्ठा इत्यादिभ्यः कृतं कर्म 'अन्यत्र कर्माणि' एव । अतः सर्वसु कर्मसु साधकेन सावधानेन भवितव्यं यत्, कुत्रापि स्वार्थङावेन कर्म न भवेद् इति ।

'अन्यत्रकर्म' – एतस्य विषयस्य द्वौ अङ्गौ स्तः । कोऽपि मनुष्यः यदा गृहं प्रति आगच्छति, तदा तस्य मनुष्यस्य कृते 'आगच्छतु, तिष्ठतु' इत्यादीनां सम्मानसूचकानां शब्दानां प्रयोगः क्रियते । परन्तु उक्तानां शब्दानाम् उच्चारणस्य पृष्ठे तस्य मनुष्यस्य मनसि स्वस्य सभ्यतायाः, सज्जनतायाः च प्रभावोत्पादनकामाना भवति, तर्हि तस्मिन् कार्येऽपि स्वार्थ एव । अतः तत् कर्म 'अन्यत्र कर्म' एव न तु यज्ञः इति प्रथमाङ्गः । सभादिषु कोऽपि व्यक्तिः प्रश्नं करोति । परन्तु तस्य मनसि भवति यद्, सर्वे मां ज्ञातृत्वेन अङ्गीकुर्युः इति । तर्हि तत्कर्म 'अन्यत्र कर्म' एव इति द्वितीयाङ्गः । तात्पर्यम् अस्ति यद्, साधकः कर्म तु कुर्यात्, परन्तु तस्मिन् स्वार्थादयः भावाः न भवेयुः । कर्मणः निषेधः नास्ति, परन्तु सकामभावस्य निषेधः अस्ति इति ।

भोगैश्वर्यबुद्ध्या साधकेन एकम् अपि कर्म न करणीयम् । यतो हि तादृश्यां बुद्ध्यां भोगासक्तिः, कामना च भवतः । एवं कर्मयोगस्य आचरणं न शक्यते । निर्वाहबुद्ध्या कर्मणि कृते सत्यपि मनसि जीवनेच्छा प्रबला भवति । अतः निर्वाहबुद्धेः अपि त्यागः करणीयः । साधकेन साधनबुद्ध्या एव सकलानि कर्माणि साधनीयानि । यः स्वमुक्तेः अपि विचारं त्यक्त्वा अन्यस्य हिताय कर्म कुर्यात् सः श्रेष्ठः साधकः मन्यते । यतो हि स्वस्य हितम् अन्यस्य हितेन भवति । अन्यस्मात् मे हितं भिन्नम् अस्ति इति यः चिन्तयति सः भ्रमितः अस्ति । अतः लौकिकानि, शास्त्रीयानि यानि कर्माणि क्रियन्ते, तानि लोकहिताय एव भवेयुः । 'लोकोऽयं कर्मबन्धनः' – कर्तव्यकर्मणः अधिकारः मुख्यतया मनुष्यस्य पार्श्वे एव अस्ति । एतस्मिन् अध्याये एव अग्रे यदा भगवान् सृष्टिचक्रस्य प्रसङ्गं कथयति, तदा अपि एवम् उक्तम् अस्ति [३] । प्राणिहितमेव यस्य उद्देश्यम् अस्ति, तेन कर्तव्यकर्मणां पालनं स्वतः एव भवति । यदा मनुष्यः अन्यस्य हिताय अविचिन्त्य स्वस्य हिताय एव चिन्तयति, तदा सः बद्धः भवति । आसक्त्या, स्वार्थभावेन च कृतं कर्म बन्धकारणमेव भवति ।

'तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर' – अत्र 'मुक्तसङ्गः' इत्यस्य पदस्य उपयोगाय भगवतः तात्पर्यम् अस्ति यद्, कर्मसु, पदार्थेषु, शरीरादिषु च ममता बन्धनकारणम् एव । ममतायाः अभावे कर्तव्यकर्मणां स्वतः एव पालनं भवति । यदि कर्तव्यकर्मणां प्राप्तिः न भवेत्, तर्हि स्वतः निर्विकल्पतायां स्वरूपः स्थिरीभवति । एवं साधनं सर्वदा भवति, तत्र असाधनावस्था नोद्भवति । आलस्यं, प्रमादः इत्यादीनां प्रभावेण नियतकर्मणां त्यागः 'तामसत्यागः' इति [४] । तादृशस्य तामसत्यागस्य फलं मूढता भवति । अर्थात् तामसत्यागकः मूढयोनिं प्राप्नोति इति [५] । दुःखरूपिणं मत्वा कर्मणः त्यागः 'रजस्त्यागः' इति [६] । रजस्त्यागस्य फलं दुःखप्राप्तिः भवति [७] । अत एव भगवान् अर्जुनम् अत्र कर्मणः त्यागाय न अपि तु कर्मणि प्रवृत्त्यै कथति । परन्तु सा प्रवृत्तिः स्वार्थादिरहिते सति कर्तव्यकर्मपालनयुक्ता भवेत् । एषः त्यागः 'सात्त्विकत्यागः' उच्यते [८] । स्वयं भगवान् अपि अग्रे कथयिष्यति यद्, मह्यं किमपि करणीयं नास्ति, तथापि अहं सावधानतया कर्म करोमि इति [९]

कर्तव्यकर्मणि शिथिलतायाः द्वे कारणे प्रमुखे मन्येते । मनुष्यस्य स्वभावः भवति यद्, सः पूर्वं फलकामानं कृत्वा एव कर्मणि प्रवृत्तः भवति । यदा सः पश्यति यद्, कर्मयोगानुगुणं फलकामना न करणीया इति, तदा सः चिन्तयति यद्, कर्म एव किमर्थं करवाणि ? इति प्रथमं कारणम् । द्वितीयं कारणं भवति यद्, कर्मणः आरम्भं कृत्वा अनन्तरं मनुष्यः जानाति यद्, एतस्य कर्मणः विपरीतः परिणामः भविष्यति, तदा सः चिन्तयति यद्, अहं तु योग्यं कर्म एव करोमि, परन्तु तस्य परिणामः विपरीतः एव आगच्छति । तर्हि कर्म एव किमर्थं करणीयम् ? इति । कर्मयोगी न तु कामनां करोति, न किमपि नाशवत् फलम् इच्छति । अतः उपर्युक्ते उभे शिथिलताकारणे तस्य कर्तव्यकर्मणः मार्गं नावरोधयतः ।

मर्मः[सम्पादयतु]

मनुष्यस्य स्वभावः एव भवति यद्, यस्मिन् कर्मणि सः स्वस्य स्वार्थं पश्यति, तस्मिन् तत्पर्तया युक्तः भवति इति । परन्तु तदेव कर्म तस्मै बन्धनरूपं भवति । अतः बन्धनात् मुक्त्यै मनुष्येन कर्मयोगानुगुणम् एव कर्म करणीयम् । कर्मयोगे सर्वाणि कर्माणि सर्वदा अन्येभ्यः करणीयानि भवन्ति, स्वस्य च कृते कदापि न । के ते अन्ये ? इत्यस्य अवबोधः अपि अत्यन्तावश्यकः । स्वस्य शरीरं विहाय अन्ये प्राणिपदार्थादयः 'अन्यानि' एव । परन्तु स्थूल-सूक्ष्म-कारणशरीराणि अपि 'अन्यानि' उच्यन्ते । यथा संसारः 'अन्यः' अस्ति, तथैव शरीर-इन्द्रिय-मनो-बुद्धयः अपि 'अन्यः' इतस्मिन् अन्तर्भवन्ति । अतः कर्मयोगी तासु अपि अन्यत्वं स्वीकृत्य, तासम् अपि सेवां कुर्वन्ति । शरीरं आलस्ययुक्तं, निद्राधिक्ययुक्तं, प्रमादि, भोगि च भवेत् इत्यस्य कृते चिन्तनम् अपि 'शरीरसेवा' इति । सांसारिकभोगेषु इन्द्रियाणाम् अयोगाय प्रयासः 'इन्द्रियसेवा' उच्यते । मनः अन्यस्य अहितं न चिन्तयेत्, विषयानां चिन्तनं न कुर्यात्, व्यर्थचिन्तां न कुर्यात् इत्यादि कृते सति 'मनस्सेवा' भवति । अपरस्य कर्तव्यं किमस्ति, अन्येन किं करणीयं किञ्च न इत्यस्य विचारे यदि बुद्धिः युक्ता न भवेत्, तर्हि 'बुद्धिसेवा' कथ्यते । एवं शरीरेन्द्रियमनोबुद्ध्यादिषु ममता-अभावः एव महती सेवा अस्ति । यतो हि स्वयं जीवात्मा चेतनपरमात्मनः अंशः अस्ति । शरीरादयस्तु जडप्रकृतेः अंशाः सन्ति । सर्वाः क्रियाः जडे, जडाय च भवन्ति । चेतने, चेतनाय च न कापि क्रिया भवति । अतः 'कर्म' स्वस्मै कदापि न भवति, न जातम् अस्ति, न च भवितुम् अर्हति । यदा जीवः संसारात् प्राप्तानां शरीरादीनां जडपदार्थानां कृते 'अहम्', 'मम', 'मह्यम्', इत्यादि स्वीकरोति, तदा तस्य स्वभावः 'स्वस्मै कार्यं करणीयम्' इति भवति । एवम् अन्येभ्यः कर्मणि कृते सति ममतादिभ्यः सुगमतया मुक्तिः प्राप्यते ।

शरीरस्य अवस्थानां परिवर्तने सत्यपि 'अहं स एव' इति प्राणिमात्रस्य अनुभवः निरन्तरं भवति । सा अपरिवर्तनशीलसत्ता एव परमात्मतत्वेन सह एकतायाः स्थितिः अस्ति । अन्यत् सर्वं परिवर्तनशीलेन संसारेण सह स्वस्य एकता अस्ति । मनुष्यद्वारा या कापि क्रिया भवति, सा शरीरेन्द्रियमनोबुद्द्ध्यादिभिः एव भवति । यतो हि क्रियामात्रेण सह प्रकृतेः, प्रकृतजन्यपदार्थस्य च सम्बन्धः भवति । स्वरूपेण सह क्रियायाः कोऽपि सम्बन्धः न भवति । अत एव शरीरेण सह सम्बन्धम् अस्थापयित्वा वयं किमपि कार्यं कर्तुं न शक्नुमः । अनेन सिद्ध्यति यद्, मनुष्येण स्वस्य कृते किमपि न करणीयम् । यतो हि 'कार्यं' तस्य कृते अस्ति, यः स्वयं कर्तुं शक्नुयात् । यः स्वयं किमपि 'कर्तुं' न शक्नोति, तस्य कृते 'कार्यस्य' विधानं नास्त्येव । यत्किमपि कर्म क्रियते, तत् संसारस्य साहाय्येन एव भवति । अतः 'कर्म' अपि संसाराय एव करणीयम् । स्वस्य कृते मनुष्यः यदा कर्म करोति, तदा एव सः बद्धः भवति । अत एव उक्तम् अस्ति, 'यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः' इति ।

विनाशिना, परिवर्तनशीलेन च शरीरादिना सह अविनाशिनः, अपरिवर्तनशीलस्य स्वरूपस्य कोऽपि सम्बन्धः नास्ति, अतः सर्वम् अन्येभ्यः करणीयम् अस्ति । शरीरादीनां साहाय्यं विना जीवः किमपि कर्तुं न शक्नोति, अतः स्वस्य कृते किमपि न करणीयम् । यतो हि स्वरूपे कदापि न्यूनता न भवति । न्यूनतायाः अभावे इच्छा अपि न भवति । अतः स्वस्य कृते किमपि न करणीयम् । एवं क्रियाभ्यः, पदार्थेभ्यश्च सर्वथा सम्बन्धविच्छेदः भवति, तदा वस्तुतः साक्षात्कारः भवति । साक्षात्कारः संस्कारानुगुणं प्राप्यते । यथा भक्तेः संस्कारे सति भगवतः प्रमे प्राप्यते इत्यादि ।

शाङ्करभाष्यम्[सम्पादयतु]

यच्च मन्यसे बन्धार्थत्वात्कर्म न कर्तव्यमिति तदप्यसत्, कथं-यज्ञार्थादिति। 'यज्ञो वै विष्णुः' इति श्रुतेर्यज्ञ ईश्वरस्तदर्भं यत्क्रियते तद्यज्ञार्थं कर्म,तस्मात्कर्मणोऽन्यत्रान्येन कर्मणा लोकोऽयमधिकृतः कर्मकृत् कर्मबन्धनः कर्म बन्धनं यस्य सोऽयं कर्मबन्धनो लोको न तु यज्ञार्थात् । अतस्दर्थं यज्ञार्थं कर्म कौन्तेय मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन् समाचर निर्वर्तय।।9।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
नियतं कुरु कर्म त्वं...
यज्ञार्थात्कर्मणोऽन्यत्र... अग्रिमः
सहयज्ञाः प्रजाः सृष्ट्वा...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. कर्मणा बध्यते जन्तुः
  2. गीता, अ. ४, श्लो. २३
  3. गीता, अ. ३, श्लो. १४-१६
  4. गीता, अ. १८, श्लो. ७
  5. अज्ञानं तमसः फलम्, गीता, अ. १५ , श्लो. १६
  6. गीता, अ. १८ , श्लो. ८
  7. गीता, अ. १४ , श्लो. १६
  8. गीता, अ. १८ , श्लो. ९
  9. गीता, अ. ३ , श्लो. २२-२३

अधिकवाचनाय[सम्पादयतु]