एवं प्रवर्तितं चक्रं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
एवं प्रवर्तितं चक्रं...


सृष्टिचक्रोल्लघनकर्तॄणां निन्दा
Avatars of Vishnu.jpg
श्लोकसङ्ख्या ३/१६
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः कर्म ब्रह्मोद्भवं विद्धि...
अग्रिमश्लोकः यस्त्वात्मरतिरेव स्यात्...

एवं प्रवर्तितं चक्रम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्रोल्लङ्खनं ये कुर्वन्ति, तेषआं निन्दां करोति । पूर्वस्मिन् श्लोके सृष्टिचक्रस्य कृते कर्तव्यपालनस्य आवश्यकतायाः विषयं समाप्य अत्र ये सृष्टिचक्रानुगुणम् आचरणं न कुर्वन्ति, तेषां निन्दां करोति । सः कथयति यद्, हे पार्थ ! यः मनुष्यः एतस्मिन् लोके एतस्मिन् लोके अनया परम्परया प्रचलितसृष्टिचक्रस्य अनुसारं न चलति, सः इन्द्रियैः भोगेषु रमणं कुर्वन् अघोयुः (पापमयं जीवनं यापयन्) मनुष्यः व्यर्थमेव जीवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥

पदच्छेदः[सम्पादयतु]

एवं प्रवर्तितं चक्रं न अनुवर्तयति इह यः अघायुः इन्द्रियारामः मोघं पार्थ सः जीवति ॥ १६ ॥

अन्वयः[सम्पादयतु]

पार्थ ! यः एवं प्रवर्तितं चक्रं इह न अनुवर्तयति अघायुः इन्द्रियारामः सः मोघं जीवति ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
पार्थ अर्जुन !
यः यः पुरुषः
इह अस्मिन् लोके
एवम् इत्थम्
प्रवर्तितम् निर्मितम्
चक्रम् कर्मचक्रम्
न अनुवर्तयति न अनुसरति
इन्द्रियारामः इन्द्रियेषु रममाणः
अघायुः पापभूयिजीवितः
सः सः पुरुषः
मोघम् वृथा
जीवति प्राणिति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. नानुवर्तयतीह = न + अनिवर्तयति + इह – सवर्णदीर्घसन्धिः
  2. आघायुरिन्द्रियारामो मोघः ¬ = अघायुः + इन्द्रियारामः विसर्गसन्धिः (रेफः)
    1. इन्द्रियारामः + मोघम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  3. स जीवति = सः + जीवति – विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

  1. अघायुः = अघम् (पापम्) आयुः यस्य सः – बहुव्रीहिः
  2. इन्द्रियारामः = इन्द्रियैः आरामः - तृतीयातत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. प्रवर्तितम् = प्र + वृत् + णिच् + क्त (कर्मणि)
  2. आरामः = आ + रम् + घञ् (कर्तरि बहुलम्)

अर्थः[सम्पादयतु]

यः मनुष्यः अस्मिन् लोके कर्मचक्रानुगुणं नैव व्यवहरति, यः च कर्तव्यकर्म न करोति तादृशः इन्द्रियसुखलोलुपः पापाभूयिजीवितः पुरुषः व्यर्थं जीवति ।

भाष्यार्थः[सम्पादयतु]

'पार्थ' – नवमाध्याये प्रारब्धस्य विषयस्य उपसंहारं कुर्वन् अर्जुनाय 'पार्थ' इति सम्बोधनं करोति । एतस्य तात्पर्यम् अस्ति यद्, त्वं तस्याः कुन्त्याः पुत्रः अस्ति, यया आजीवनम् अनेकेषां कष्टानां स्वकर्तव्यपालनाय स्वीकारः कृतः । अतः त्वया अपि तथैव कर्तव्यपालनं करणीयम् । यत् युद्धं तुभ्यं घोरकर्म अस्ति, तत् तु कर्तव्यपालनम् (यज्ञः) अस्ति । तस्य कर्तव्यस्य पालनं सृष्टिचक्रानुगुणम् अपि उचितम् अस्ति । यदि तस्य कर्तव्यस्य पालनं न करिष्यसि, तर्हि सृष्टिचक्रविरुद्धं ते वर्तनं भविष्यति इति । 'एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः' – यथा रथचक्रस्य लघुभागस्य भङ्गे सति सम्पूर्णे रथे, रथिनि च प्रभावः भवति, तथैव पूर्वोक्तसृष्टचक्रानुसारं (चतुर्दशे, पञ्चदशे च श्लोकयोः) न चलति, सः समष्टेः सृष्टेः सञ्चालने विघ्नम् उत्पादयति । संसारः, मनुष्यः च विजातीयौ न स्तः । यथा शरीराङ्गानां शरीरेण सह घनिष्ठः सम्बन्धः भवति, तथैव मनुष्यस्य संसारेण सह घनिष्ठः सम्बन्धः भवति । यदा मनुष्यः कामना, आसक्तिः, अहङ्कारः इत्यादीनां च त्यागं कृत्वा कर्तव्यपानं करोति, तदा सृष्टौ स्वतः एव सुखं प्रवर्तते ।

'इन्द्रियारामः' – यः मनुष्यः कामनादीनां त्यागम् अकृत्वा आसक्तियुक्तः सन् इन्द्रियभागेषु एव रतः भवति, सः भोगरमणं कुर्वन् मनुष्यः पशोः अपेक्षया अपि निकृष्टः । यतो हि पशुः नवीनानि पापानि नाचरति । प्रत्युत पशुः अपि पूर्वसञ्चितानां पापानां फलं भुक्त्वा निर्मलताङ्गच्छति । परन्तु 'इन्द्रियारामः' मनुष्यः नवीनानि पापानि आचरति । एवं सः पतनं प्रति गच्छन् सृष्टिचक्रे विघ्नम् उत्पादयति । सृष्टिचक्रे विघ्ने सम्भूते सति सर्वत्र दुःखं प्रवर्तते । 'अधायुः' – सृष्टिचक्रानुसारं यः आचरणं न करोति, तस्य आयुष्यम् अर्थात् तस्य जीवनं केवलं पापमयं भवति । यतो हि इन्द्रियैः भोगबुद्ध्या भोगेषु एव सः मनुष्यः रतः हिंसारूपिपापैः युक्तः भवति । स्वार्थी, अभिमानी, भोगेच्छुकः, सङ्ग्रहप्रवृत्तः मनुष्यः अन्यस्य हितं चिन्तयितुम् अपि न शक्नोति । अतः तादृशस्य मनुष्यस्य जीवनं पापमयं भवति ।

'मोधं पार्थ स जीवति' – स्वस्य कर्तव्यस्य पालनं न कुर्वतः मनुष्यस्य निन्दां कुर्वन् भगवान् कथयति यद्, एतादृशाः मनुष्याः व्यर्थम् एव जीवन्ति । सृष्टिचक्रपदाक्रान्तेभ्यः मनुष्येभ्यः भगवान् 'स्तेन एव सः' [१], 'भुञ्जते ते त्वघम्' [२] इत्यादि पूर्वमेव उक्तवान् । अधुना 'अघायुरिन्द्रियारामः' इत्यस्य पदस्य उपयोगं कृत्वा तेषां जीवनं व्यर्थं घोषयति ।

शाङ्करभाष्यम्[सम्पादयतु]

एवमिति। एवमित्थमीश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं नानुवर्तयतीह लोके यः कर्मण्यधिकृतः सन्नघायुरघं पापमायुर्जीवनं यस्य योऽघायुः पापजीवन इति यावत्,इन्द्रियाराम इन्द्रियैराराम आरमणमाक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हेपार्थ, स जीवति। तस्मादज्ञेनाधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थः। प्रागात्मज्ञाननिष्ठायोग्यताप्राप्तेस्तादर्थ्येनकर्मयोगनुष्ठानमधिकृतेनानात्मज्ञेन कर्तव्यमेवेत्येतत् 'न कर्मणामनारम्भाद्' इत्यत आरभ्य 'शरीरयात्रापि च ते न प्रसिध्येदकर्मणः' इत्येवमन्तेन प्रतिपाद्य 'यज्ञार्थात्कर्मणोऽन्यत्र'इत्यादिना 'मोघं पार्थ स जीवति' इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकमधिकृतस्यानात्मविदः कर्मानिष्ठाने बहुकारणमुक्तं तदकरणे च दोषसंकीर्तनं कृतम् ।।16।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
कर्म ब्रह्मोद्भवं विद्धि...
एवं प्रवर्तितं चक्रं... अग्रिमः
यस्त्वात्मरतिरेव स्यात्...
Orange animated right arrow.gif
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. ३ , श्लो. १२
  2. गीता, अ. ३ , श्लो. १३

अधिकवाचनाय[सम्पादयतु]