तत्त्ववित्तु महाबाहो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
तत्त्ववित्तु महाबाहो...


साङ्ख्ययोगिनः वैलक्षण्यम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या ३/२८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः प्रकृतेः क्रियमाणानि...
अग्रिमश्लोकः प्रकृतेर्गुणसम्मूढाः...

तत्त्ववित्तु महाबाहो () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः साङ्ख्ययोगिनः वैलक्षण्यं प्रदर्शयति । पूर्वस्मिन् श्लोके भगवान् मूढपुरुषाणां लक्षम् उक्त्वा अत्र कर्मासक्तजनेभ्यः अपेक्षया साङ्ख्ययोगिनि का विलक्षणता वर्तते इति प्रतिपादयति । सः वदति यद्, परन्तु हे महाबाहो ! गुणविभागस्य, कर्मविभागस्य च तत्त्वज्ञः महापुरुषः 'सर्वे गुणाः एव गुणेषु वर्तन्ते' इति ज्ञात्वा तेषु आसक्तः न भवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥

पदच्छेदः[सम्पादयतु]

तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ २८ ॥

अन्वयः[सम्पादयतु]

महाबाहो ! गुणकर्मविभागयोः तत्त्ववित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
महाबाहो महाबाहो (अर्जुन)
गुणकर्मविभागयोः चक्षुरादीनाम् इन्द्रियाणां दर्शनादीनां च क्रियाणां विभागयोः
तत्त्ववित् तु याथातथ्येन ज्ञाता पुनः
गुणाः चक्षुरादीनि इन्द्रियाणि बुद्धिः मनश्च
गुणेषु रूपशब्दादिषु
वर्तन्ते विद्यन्ते
इति मत्वा इति ज्ञात्वा
न सज्जते आत्मा सक्तो न भवति।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. गुणा गुणेषु = गुणाः + गुणेषु – विसर्गसन्धिः (लोपः)
  2. वर्तन्त इति = वर्तन्ते + इति – यान्तावान्तादेशसन्धिः (यलोपः)

समासः[सम्पादयतु]

  1. गुणकर्मविभागयोः = गुण च कर्म च गुणकर्मणी – द्वन्द्वः
    1. गुणकर्मणोः विभागः, तयो – षष्ठीतत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. मत्वा = मन् + क्त्वा

अर्थः[सम्पादयतु]

हे महाबाहो ! चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि, वाक्पाणिप्रभृतीनि कर्मेन्द्रियाणि, बुद्धिः मनश्च प्रकृतिजन्यानि इति गुणाः इत्युच्यन्ते । तानि च क्रमेण दर्शनश्रवणादौ वचनस्वीकारादौ अहारेण सङ्कल्पेन च प्रवर्तन्ते । न कदापि आत्मा एतेषु कर्मसु व्याप्रियते, निष्क्रियत्वात् । एवं गुणाः के,तेषां च क्रियाः काः इति ज्ञात्वा अयम् आत्मा तेभ्यः भिद्यते इति यः वस्तुस्थितिं विजानाति सः कदापि रूपशब्दादीनां दर्शनश्रवणादौ न ममतां प्राप्नोति ।

भावार्थः[सम्पादयतु]

'तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः' – पूर्वस्मिन् श्लोके वर्णिताद् 'अहङ्कारविमूढात्मा' इत्येन पदेन तत्त्वज्ञमहापुरुषेभ्यः सर्वथा भिन्नः, विलक्षणः इति प्रदर्शयितुम् अत्र 'तु' इत्यस्य पदस्य उपयोगः अभवत् । सत्त्वरजस्तमानां त्रिगुणानां कार्यत्वात् समस्ता सृष्टिः त्रिगुणात्मिका उच्यते । अतः शरीरेन्द्रियमनोबुद्धिप्राणिपदार्थादयः सर्वेऽपि त्रिगुणमयाः । एवं ते गुणविभागे अन्तर्भवन्ति । शरीरादिभ्यः जायमनाः क्रियाः 'कर्मविभागे' समन्तर्भवन्ति । गुणाः (पदार्थाः), कर्माणि च निरन्तरं परिवर्तनशीलाः भवन्ति । पदार्थाः उत्पन्नविनाशशिलाः, क्रियाश्च आरम्भान्तयुक्ताः । एतादृशः यथार्थोऽनुभव एव गुणकर्मविभागयोः तत्त्वज्ञानम् उच्यते । अज्ञानिपुरुषः यदा गुणकर्मविभागाभ्यां सह स्वसम्बन्धं मनुते, तदा सः बद्धो जायते । शास्त्रीयया दृष्ट्या तस्य बन्धनस्य मुख्यं कारणम् 'अज्ञानम्' एव, परन्तु साधकस्य दृष्ट्या 'राग' एव तत्र मुख्यतया कारणभूतम् । विवेके जाग्रते सति रागो निश्यति । स विवेकः सर्वसु प्राणिषु भवत्येव । परन्तु तस्य महत्त्वं ज्ञात्वा तस्य उपयोगस्य आवश्यका भवति । अतः विवेकजागृतिपूर्वकं साधकः रागनाशाय प्रयस्येत् ।

'गुणा गुणेषु वर्तन्ते' – प्रकृतिजन्येभ्यः गुणेभ्यः उत्पन्नत्वाच्छरीरेन्द्रियमनोबुद्ध्यादयः अपि 'गुणाः' । तैः सर्वाणि कर्माणि भवन्ति । अविवेकिपुरुषः तैः गुणैः सह सम्बन्धं स्थापयति । तैः जायमानानां क्रियाणां कर्तृत्वेन आत्मानां प्रस्थापयति । यथा वाणी 'पदार्थः' अस्ति । वदनक्रियायाः प्रवृत्तिः 'क्रिया' भवति । वदनं तु समष्टिशक्त्या एव जायमानम् अस्ति । अर्थात् गुणाः एव गुणेषु वर्तन्ते । परन्तु मनुष्यः अज्ञानवशात् पदार्थस्य, क्रियायाः च सम्बन्धं स्वेन सह मत्वा आत्मानं कर्तृत्वेन चिन्तयति । रेल-यानस्य प्रचालकयन्त्रं (Engine) चलति । अर्थात् तस्मिन् क्रिया भवति । परन्तु कर्षणशक्तिः प्रचालकयन्त्रात्, चालकाच्च उद्भवति । वस्तुतः कर्षणशक्तिः तु प्रचालकयन्त्रस्य एव भवति । परन्तु चालकेन सञ्चालनत्वाद्देव गन्तव्यस्थानं प्रति प्राप्तुं शक्नुमः । किञ्च प्रचालनयन्त्रे इन्द्रिय-मनो-बुद्धयः न सन्ति, अतः तस्य सञ्चालनाय इन्द्रिय-मनो-बुद्धियुक्तस्य चालकस्य (मनुष्यस्य) आवश्यकता भवति । परन्तु मनुष्यस्य पार्श्वे शरीररूपं प्रचालकयन्त्रम् अस्ति । तस्य सञ्चालनाय इन्द्रिय-मनो-बुद्धयः अपि सन्ति । शरीरेन्द्रियमनोबद्धीनां सत्तास्फूर्तिस्रोतः कश्चन प्रकाशपुञ्जः चेतनः एव । तस्य प्रेरणया एव ताः कार्याय समर्थाः भवन्ति । सामान्यप्रकाशस्य प्रतिबम्बः (ज्ञानम्) बुद्धौ आपतति, बुद्धेः ज्ञानं मनः स्वीकरोति । मनसः ज्ञानाद् इन्द्रियाणि कार्यं कुर्वन्ति । एवं शरीररूपिणः प्रचालनयन्त्रस्य सञ्चालनं भवति । शरीरायः गुणाः आत्मतत्त्वादेव स्फुर्तिमन्ताः भवन्ति । सः आत्मा सर्वदा निर्लिप्तः तिष्ठति । एवं वस्तुतः सर्वेऽपि गुणाः एव गुणेः वर्तन्ते ।

श्रेष्ठपुरुषस्य आचरणानामेव सर्वेऽपि अनुसरणं कुर्वन्ति । अत एव भगवान् तैः लोकसङ्ग्रहस्य कार्यं कथं स्यादित्यस्य वर्णनं करोति । सः कथयति यद्, यथा 'गुणाः गुणेषु वर्तन्ते' इति महापुरुषाः अनुभवन्ति, अतः ते आसक्ताः न भवन्ति, तथैव साधकोऽपि मत्वा तेषु गुणेषु आसक्तः मा भूयात् । आकर्षणं सर्वदा सजातीयतायामेव भवति । यथा कर्णयोः शब्देषु, त्वचः स्पर्शे, नेत्रयोः रूपे, जिह्वायाः रसेषु, नासिकायाः गन्धे च आकर्षणं भवति । एकस्य इन्द्रियस्य अपरस्य इन्द्रियस्य विषये कदापि आकर्षणं न भवति । आकर्षणस्य, प्रवृत्तेः, निवृत्तेः च सिद्धिः सजातीयतायामेव भवति । विजातीयवस्तुषु न तु आकर्षणं भवति, न तु प्रवृत्तिः । एवम् आकर्षणं, प्रवृत्तिः, निवृत्तिश्च 'प्रकृतौ' एव भवति । पुरुषे (आत्मनि) विजातीयं प्रति (प्रकृतिं प्रति) यदाकर्षणम् अनुभूते, तत्तु वस्तुतः प्रकृत्यंशत्वादेव प्रतीयते । करणस्य, भोगस्य च क्रिया प्रकृते एव भवन्ति, पुरुषे न ।

त्रयोदशस्य अध्यायस्य एकत्रिंशे श्लोके भगवान् वदति यत्, शरीरे विद्यमानः पुरुषः वस्तुतः तस्माद् अलिप्तः भवति इति [१] । पुरषस्तु केवलं 'प्रकृतिस्थः' अर्थात् प्रकृत्या सह तादात्म्यं स्थापयति, अतः सुखदुःखादीनां भोक्तृत्वे स्वकारणं स्वीकरोति [२] [३] । तात्पर्यम् अस्ति यद्, यद्यपि सर्वाः क्रियाः, क्रियाणां सिद्धिः, आकर्षणं प्रकृतौ एव भवति, तथापि प्रकृत्या सह तादात्म्यं मन्यमानः पुरुषः 'अहं सुखी', 'अहं दुःखी' इत्यादि विचन्त्य स्वस्य भोक्तृत्वस्य कारणं भवति । यतो हि सुखी, दुःखी च चेतनः न, अपि तु प्रकृतिः भवति, अतः सः प्रकृतिं विना सुखदुःखयोः भोक्ता भवितुं नार्हति ।

पुरुषे प्रकृतिवत् परिवर्तनरूपिणी क्रिया उत विकारः नास्ति, परन्तु तस्मिन् सम्बन्धस्थापनस्य उत सम्बन्धविच्छेदस्य योग्यता तु अस्त्येव । सः पाषाणवत् जडः नास्ति, परन्तु ज्ञानस्वरूपः अस्ति । यदि परुषे सम्बन्धस्थानस्य, सम्बन्धविच्छेदस्य च योग्यता नावभिष्यति, तर्हि प्रकृत्या सह स्वस्य सम्बन्धं कथं स्वीकुर्यात् ? प्रकृत्या सह सम्बन्धं मत्वा स्वस्य क्रियाभिः सह स्वस्य सम्बन्धं कथम् आरोपयेत् ? स्वस्मिन् कर्तृत्वभावस्य, भोक्तृत्वभावस्य च कथं स्वीकारं कुर्यात् ? सम्बन्धस्य स्वीकारः उत अस्वीकारः 'भावः' अस्ति, न तु 'क्रिया' । पुरुषे सम्बन्धस्थापनस्य सम्बन्धविच्छेस्य च क्षमता अस्ति, परन्तु क्रियायाः नास्ति । क्रियां कर्तुं योग्यता तस्मिन् भवति, यस्मिन् विकारः भवति, अर्थात् यः परिवर्तनशीलः भवति । प्रकृतेः स्वभावः परिवर्तनशीलः, पुरुषस्य स्वभावः अपरिर्तनशीलः भवति । एवं स्वयं क्रियां कुर्वन् अस्ति इति पुरुषः स्वयं मन्यते, सा वास्तविकता न [४]

पुरुषे परिवर्तनं न भवति इति न पुरुषस्य दौर्बल्यम् उत अयोग्यता । प्रत्युत सा एव तस्य माहात्म्यम् । परिवर्तनक्रिया केवलं प्रकृतेः स्वभावः, न तु पुरुषस्य । परन्तु प्रकृत्या सह स्वसम्बन्धस्य विच्छेदज्ञानाय पुरुषे योग्यता, सामर्थ्यं, स्वातन्त्र्यं च भवति । यतो हि वस्तुतः प्रकृत्या सह तस्य कोऽपि सम्बन्धः नास्ति । यदा प्रकृतेः अंशभूतं शरीरं पुरुषः स्वस्य स्वरूपत्वे मनुते, तदा प्रकृतेः तस्मिन्नंशे आकर्षणं, क्रियाः, तासां फलप्राप्तिः च भवन्ति । एतस्य सङ्केतं कर्तुमेवात्र 'गुणाः गुणेषु वर्तन्ते' इत्येतेषां पदानामुपयोगोऽभवत् ।

'इति मत्वा न सज्जते' – अत्र 'मत्वा' इत्यस्य पदस्य उपयोगोऽत्र 'अवगमनार्थे' अस्ति । तत्त्वज्ञः पुरुषः प्रकृतिं (जडं), पुरुषं (चेतनं) च स्वाभाविकतया भिन्नं वेत्ति । अत एव सः प्रकृतिजन्येषु गुणेषु आसक्तो न भवति । 'मत्वा' इत्यस्य पदस्य उपयोगेन भगवान् अत्र आदिशति यद्, साधकाः अपि प्रकृतिजन्येभ्यः गुणेभ्यः आत्मानं भिन्नं मत्वा तेषु आसक्ताः न भवेयुरिति ।

कर्मयोगिनः, साङ्ख्ययोगिनः च साधनाप्रणाल्याम् एकता न भवति । 'कर्मयोगी' तु शरीरेण सह स्थापितस्य सम्बन्धस्य विच्छेदाय प्रयसति । अत एव श्रीमद्भागवतमहापुराणे उक्तम् अस्ति यद्, कर्मयोगः कामिभ्यः एवेति [५] । गीताशास्त्रेऽपि भगवता पौनःपुन्येन कर्मयोगिनः कर्म कर्तुं विशेषतया आदिश्यन्ते । यथा – कर्मणः आरम्भम् अकृत्वा मनुष्यः निष्कर्मतां प्राप्तुं न प्रभवति [६] । योगे आरुरुक्षमाणाय (आरोहेच्छुकाय) मननशीलाय पुरुषाय कर्म एव साधनम् उच्यते [७] । कर्मयोगी कर्म तु करोति, परन्तु अन्येषां हिताय एव करोति इत्यादि । कर्मयोगी अन्येभ्यः कर्म करोति, अत एव सः भोक्ता न भवति । भोक्तृत्वस्य नाशे सति कर्तृत्वस्य स्वतः एव नाशो भवति । तात्पर्यम् अस्ति यद्, कर्तृत्वं फलेच्छा एव । फलोद्देश्याभावत् कर्तृत्वमपि न । अत एव वस्तुतः कर्मयोगी अपि न कर्ता इति ।

साङ्ख्ययोगिनि विवेकविचारस्य प्राधान्यं भवति । सः 'प्रकृतिजन्याः गुणाः एव गुणेषु वर्तन्ते' इति ज्ञात्वा स्वस्य क्रियाणां कर्तृत्वं न मनुते । अत एव भगवान् त्रयोदशाध्याये कथयति यद्, यः पुरुषः 'सर्वाणि कर्माणि सर्वधा प्रकृत्या एव जायन्ते' इति पश्यति, आत्मानं च अकर्तृत्वे लक्षते, स एव यथार्थं पश्यति । एवं साङ्ख्ययोगी कर्तृत्वं नश्यति । कर्तृत्वनाशे तस्य भोक्तृत्वं स्वतरेव जम्भति (नश्यति) । तृतीयाध्याये भगवान् सर्वविधोदाहणने बोधयति यद्, कर्म एव श्रेयस्करम् अस्ति इति [८] [९] [१०]

शाङ्करभाष्यम्[सम्पादयतु]

यः पुनर्विद्वान् तत्त्वविदिति। तत्त्ववित्तु महाबाहो, कस्य तत्त्वविद् गुणकर्मविभागयोर्गुणविभागस्य कर्मविभागस्य च तत्त्वविदित्यर्थः। गुणाः करणात्मका गुणेषुविषयात्मकेषु वर्तन्ते नात्मेति मत्वा न सज्जते सक्तिं न करोति ।।28।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
प्रकृतेः क्रियमाणानि...
तत्त्ववित्तु महाबाहो... अग्रिमः
प्रकृतेर्गुणसम्मूढाः...
Orange animated right arrow.gif
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते
  2. पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते, गीता, अ. १३, श्लो. २०
  3. पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्, गीता, अ. १३, श्लो. २१
  4. कर्ताहमिति मन्यते, गीता, अ. ३, श्लो. २७
  5. कर्मयोगस्तु कामिनाम्, श्रीमद्भागवतमहापुराणम्, स्कन्धः ११, अ. २०, श्लो. ७
  6. गीता, अ. ३ , श्लो. ४
  7. गीता, अ. ६ , श्लो. ३
  8. जनकादयः महापुरुषाः अपि निष्कामभावेन कर्म कृत्वा परमसिद्धिं प्राप्तवन्तः, गीता, अ. ३, श्लो, २०
  9. अहमपि कर्म करोमि, गीता, अ. ३ , श्लो. २२
  10. ज्ञानिमहापुरुषाः अपि अज्ञानिपुरुषवत् लोकसङ्ग्रहार्थे कर्म कुर्वन्ति, गीता, अ. ३ , श्लो. २५ - २६

अधिकवाचनाय[सम्पादयतु]