न हि कश्चित्क्षणमपि...
न हि कश्चित्क्षणमपि... कर्मत्यागः असम्भवः | |
---|---|
श्लोकसङ्ख्या | ३/५ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | न कर्मणामनारम्भात्... |
अग्रिमश्लोकः | कर्मेन्द्रियाणि संयम्य... |
न हि कश्चित् क्षणमपि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मत्यागः असम्भवः इति कथयति । पूर्वस्मिन् श्लोके उभयोः निष्ठयोः कर्मत्यागस्य निषेधं कृत्वा अत्र भगवान् वदति यद्, मनुष्यमात्रः कर्मणा विना स्थातुमेव न शक्नोति इति । सः अर्जुनम् अबोधयद् यद्, कोऽपि मनुष्यः यस्यां कस्यामपि अवस्थायां क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति । यतो हि प्रवृत्त्या वशीभूताः सर्वे प्राणिनः प्रकृत्त्यानुगुणम् उत्पन्नाः गुणाः तैः कार्यं कारयन्ति इति ।
श्लोकः
[सम्पादयतु]- न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
- कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥
पदच्छेदः
[सम्पादयतु]न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः ॥ ४ ॥
अन्वयः
[सम्पादयतु]कश्चित् जातु क्षणमपि अकर्मकृत् न हि तिष्ठति । सर्वः हि प्रकृतिजैः गुणैः अवशः कर्म कार्यते ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
कश्चित् | कोऽपि मनुष्यः |
जातु | कदापि |
क्षणमपि | क्षणकालमपि |
अकर्मकृत् | कर्मरहितः |
न हि तिष्ठति | नैव वर्तते |
हि | यतः |
सर्वः | सर्वोऽपि |
प्रकृतिजैः | प्रकृतिरूपैः |
गुणैः | सत्त्वरजस्स्तमोभिः |
अवशः | परवशः भूत्वा |
कर्म | कर्म कर्तुम् |
कार्यते | चोद्यते । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- तिष्ठत्यकर्मकृत् = तिष्ठति + अकर्मकृत् – यण्सन्धिः
- ह्यवशः = हि + अवशः – यण्सन्धिः
- प्रकृतिर्जैगुणैः = प्रकृतिजैः + गुणैः – विसर्गसन्धिः (रेफः)
समासः
[सम्पादयतु]- अकर्मकृत् = न कर्मकृत् – नञ्तत्पुरुषः
- अवशः = न वशः – नञ्तत्पुरुषः
कृदन्तः
[सम्पादयतु]- वशः = वश् + अच् (कर्मणि)
अर्थः
[सम्पादयतु]यः कोऽपि कदापि क्षणकालमपि कर्मरहितः सन् न भवति यतः सर्वेऽपि प्रकृतिसम्भूतैः विकारैः विवशाः सन्तः कर्मकरणे प्रवर्तन्ते ।
भावार्थः
[सम्पादयतु]'न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' – कर्मज्ञानभक्तियोगेषु साधकः कर्म अकृत्वा न तिष्ठति । अत्र 'कश्चित्', 'क्षणम्', 'जातु' इत्येतानि त्रीणि पदानि विलक्षणानि सन्ति । 'कश्चित्' इत्येनेन पदेन भगवान् बोधयति यद्, मनुष्यः कर्म विना न समास्ते । सः मनुष्यः ज्ञानी अस्ति उत अज्ञानी इत्यस्यापि प्रभावः न भवति । यद्यपि ज्ञानिनः शरीरात् सम्बन्धं विच्छिन्दन्ति, तथापि तस्य शरीरेण तु सततं कार्यं क्रियते इति । 'क्षणम्' इत्यस्य पदस्य उपयोगेन भगवान् बोधयति यद्, यद्यपि "अहं सर्वदा कर्म करोमि" इति मनुष्यः चिन्तयति, तथापि यावत्पर्यन्तं सः शरीरेण सह स्वसम्बन्धम् आमन्यते, तावता निष्क्रियः न आस्ते । 'जातु' इत्यस्य पदस्य उपयोगेन भगवान् बोधयति यद्, जाग्रत-स्वप्न-सुषुप्ति-मूर्छादिषु अवस्थासु अपि मनुष्यः निष्क्रियः नोपविशति ।
किमर्थं मनुष्यः कर्मणा विना आसितुं न शक्नोति इत्यस्य प्रश्नस्य उत्तरं भगवान् एतस्य श्लोकस्य उत्तरार्धे 'अवशः' इत्यनेन पदेन यच्छति । 'अवशः' इत्यनेन पदेन भगवान् बोधयति यद्, प्रकृत्त्या परवशत्वात् मनुष्येन कर्माणि कर्तव्यानि एव भवन्ति । प्रकृतिः निरन्तरं परिवर्तनशीला अस्ति । साधकेन किमपि न करणीयम् अस्ति । यत्कर्म तस्य सम्मुखम् उपतिष्ठति, तत् कर्म केवलम् अन्येषां हितं साधयितुं कर्तव्यम् अस्ति । परमात्मप्राप्तेः उद्देशत्वात् साधकः निषिद्धकर्माणि कर्तुं न प्रभवत्येव । अनेके मनुष्याः केवलं स्थूलशरीरस्य क्रियाम् एव कर्मत्वेन अङ्गीकुर्वन्ति । परन्तु गीतायां मनसः क्रिया अपि कर्मत्वेन उपस्थापिता । मनोवाग्च्छरीरैः जायमानाः सर्वाः क्रियाः गीतायां कर्मत्वेन स्वीकृता अस्ति [१] । यैः शारीरिकमानसिकक्रियाभिः सह मनुष्यः स्वसम्बन्धं स्थापयति, स एव क्रियां 'कर्म'त्वेन स्वीकरोति । तत् कर्म एव बन्धनरूपं भवति, न तु अन्यत् ।
मनुष्येषु मान्यता अस्ति यद्, बालकानां पालनं, धनोपार्जनं, व्यवहारः इत्यादीनि कर्माणि सन्ति । परन्तु भोजनं, शयनं, चिन्तनम् इत्यादीनि न कर्माणि इति । अत एव अनेके मनुष्याः स्ववृत्तिं वा संसारं त्यक्त्वा अहम् अकर्ता इति मन्यते । परन्तु तथा नास्ति । शरीरनिर्वाहरूपिण्यः स्थूलशरीरस्य क्रियाः निद्रादयः अपि कर्माणि एव । यावता शरीरे अहन्ता भवन्ति, त्वातता शरीरेण जायमानाः सर्वाः क्रियाः 'कर्मणः' स्वरूपं धरन्ते । यतो हि शरीरं प्रकृत्तेः कार्यं करोति । प्रकृतिश्च कदापि निष्क्रिया न भवति । अत एव शरीरे यस्य मनुष्यस्य अहन्ता अस्ति, सः क्षणमात्रम् अपि निष्क्रियः स्थातुं न प्रभवति । अर्थात् मनुष्यस्य प्रवृत्तावस्थया, निवृत्तावस्थया च कोऽपि भेदः न भवति ।
'कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः' – प्रकृतिजन्याः गुणाः स्ववशीभूतैः प्राणिभिः कर्म कारयति । यतो हि मनुष्यः परवशः अस्ति, अतः तेषां गुणानाम् अनुरूपं कर्म करोति । यतो हि प्रकृतिः निरन्तरं क्रियाशीला भवति [२] [३] । यद्यपि आत्मा स्वयं निष्क्रियः, असङ्गः, अविनाशी, निर्विकारी, निर्लिप्तश्च अस्ति, तथापि यावता सः स्थूल-सूक्ष्म-कारणशरीरैः सह स्वसम्बन्धं मत्वा तैः सुखस्य कामनां करोति, तावता प्रकृत्या परवशः एव तिष्ठति [४] । आत्मनः एषा परवशता एव भवता अत्र 'अवशः' इत्यनेन पदेन उल्लिखिता ।
स्वभावनिर्माणं वृत्तिभिः भवति । गुणैः वृत्तिः आकारं प्राप्नोति । गुणाः प्रकृतेः उत्पद्यन्ते । अतः स्वभावः परवशः, गुणवशः उत प्रकृतिवशः भवेत्, परन्तु तत् सर्वं समानमेव । वस्तुतः सर्वत्र प्रकृतिजन्यपदार्थान् प्रति परवशता अस्ति । तया परवशतयै सर्वाः अन्याः परवशताः उत्पद्यन्ते । अत एव सा प्रकृतिजन्या परवशता एव कुत्रचित् कालस्य, स्वभावस्य, कर्मणः, गुणानां च परवशतात्वेन उल्लिखिता । तात्पर्यम् अस्ति यद्, मनुष्यः यावत्पर्यन्तं प्रकृत्यतीतः, गुणातीतः च न भवति, तावत्पर्यन्तं सः कालादीनां परवशतायाः मुक्तः न भवति । एवं सर्वदा परतन्त्रः सः परिस्थिति-व्यक्ति-स्त्री-पुत्र-धन-गृहादीनां वशे भवति । परन्तु यदा मनुष्यः गुणातीतो भूत्वा स्वरूपस्य दर्शनं करोति अर्थात् परमतत्त्वानुभूतिं करोति, तदा तस्य सर्वाः परवशताः नष्टाः भवन्ति । सः स्वतः स्वतन्त्रः भवति । प्रकृतेः सक्रियावस्था (स्थूलावास्था), निष्क्रियावस्था (सूक्ष्मावस्था) च भवतः । क्रियायां सत्यां सक्रियावस्थाया, अक्रियायां सत्यां (निद्रादिषु) निष्क्रियावस्था च मन्यते । परन्तु वस्तुतः निष्क्रियावस्थायाम् अपि प्रकृतिः सूक्ष्मतया तु सक्रिया एव भवति । कश्चन निद्रायमानः मनुष्यः अन्येन मध्यावस्थायां जागरितः सन् मे निद्रा अपूर्णा इति कथयति । अतः सिद्ध्यति यद्, निद्रायाः निष्क्रियावस्थायाम् अपि निद्रापाकस्य क्रिया आसीदिति । एवमेव समाधि-प्रलय-महाप्रलयादिषु अवस्थासु अपि सूक्ष्मतया क्रिया तु जायते एव । वस्तुतः प्रकृतेः कदापि निष्क्रियावस्था न भवति । यतो हि तस्यां प्रतिक्षणं परिवर्तनं भवति । स्वयम् आत्मनि अपि कर्तृत्वं नास्ति । परन्तु प्रकृतेः कार्यैः सह सम्बन्धे स्थापिते प्रकृतिपरवशः भवति । एवं सः आत्मानं कर्तृत्वेन पश्यति । वस्तुतः आत्मनि न कापि क्रिया उत परिवर्तनं भवति । मनुष्यस्य शरीरे अनेकाः क्रियाः प्राकृतिकतया स्वाभिक्यः भवन्त्यः सन्ति । यथा बाल्यावस्थातः युवावस्थायाः प्राप्तिः, भोजनपचनक्रिया, श्वोच्छस्वासः, श्रवणम् इत्यादयः । परन्तु जीवात्मा कासुचित् क्रियासु स्वस्य कर्तृत्वं मन्यते, अतः सः बन्धकः भवति । वस्तुतः उक्तासु, क्रियासु अन्यक्रियासु च कोऽपि भेदः नास्ति ।
प्रकृतिः सर्वदा परिवर्तनशीला अस्ति, परन्तु शुद्धस्वरूपे कोऽपि परिवर्तनं नास्ति । वस्तुतः प्राकृतिकपदार्थानां कापि स्वतन्त्रा सत्ता नास्ति । यदि मनुष्यः अङ्गीकुर्यात् यद्, पदार्थैः सह मे कोऽपि सम्बन्धः नास्ति, तर्हि तेन कर्म न भवति । प्रत्युत सः कर्म अकृत्वा न आस्ते । अर्थाद् सर्वाः क्रियाः पादार्थेषु जायन्ते, न तु मयि इति बोधः एव परवशतायाः तं मुक्तं करोति । कर्मयोगी प्रतिक्षणं परिवर्तनशीलस्य पदार्थस्य कामना-ममता-आसक्त्यादीनां त्यागं कृत्वा परवशतायाः मुक्तः भवति । भगवान् अत्र प्रकृतेः परवशतायाः यां चर्चां करोति, तामेव चर्चाम् अग्रे अपि कुर्वन् वदिष्यति यद्, प्रकृत्या सह स्वस्य सम्बन्धे स्वीकृते कोऽपि मनुष्यः कर्मणां सम्पूर्णतया त्यागं कर्तुं न प्रभवति [५] इति ।
शाङ्करभाष्यम्
[सम्पादयतु]न हिति। न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित्तिष्ठत्यकर्मकृत् सन्। कस्मात् कार्यते हि यस्मादवश एव कर्म सर्वः प्राणी प्रकृतिजैः,प्रकृतितो जातैः सत्त्वरजस्तमोभिर्गुणैः। अज्ञ इति वाक्यशेषः। यतो वक्ष्यति 'गुणैर्यो न विचाल्यते' इति। साख्यानां पृथक्करणादज्ञानामेव हि कर्मयोगो न ज्ञानिनाम्।ज्ञानिनां। तु गुणैरचाल्यमानानां स्वश्चलनाभावात्कर्मयोगो नोपपद्यते। तथाच व्याख्यातं 'वेदाविनाशिनं' [गी।२।२१] इत्यत्र।।५।।
भाष्यार्थः
[सम्पादयतु]ज्ञानं विना केवलं कर्मसन्न्यासमात्रेण मनुष्यः निष्कर्तारूपिणीं सिद्धिं किमर्थं प्राप्तुं न शक्नोति ? इत्यस्य कारणं ज्ञातुम् आकाङ्क्षायां वदति – कोऽपि मनुष्यः कदापि क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति । यतो हि 'सर्वे प्राणिनः' प्रकृत्याः उत्पन्नैः गुणैः (सत्व-रजः-तमोभिः) परवशाः सन्ति । अतः ते मनुष्याः गुणैः परवशाः सन्तः प्रवृत्ताः भवन्ति ।
अत्र प्राणिन् इत्यनेन शब्देन सह अज्ञानिन् इत्येषः शब्दः योजनीयः । अर्थात् 'सर्वे अज्ञानिनः प्राणिनः' इति बोध्यम् । यतो हि अग्रे 'यान् गुणेभ्यः विचलितान् कर्तुं न शक्यते' [६] इत्यादिना ज्ञानिनां पृथग्त्वं प्रतिपादितम् अस्ति । अतः अज्ञानिभ्यः एव कर्मयोगः अस्ति, न तु ज्ञानिभ्यः । यतो हि ते ज्ञानिनः गुणैः विचलतिताः भवितुं नार्हन्ति । तेषु ज्ञानिषु स्वतःक्रियाणाम् अभावत्वात् कर्मयोगः असम्भवः । एतादृशमेव वचनं 'वेदाविनाशिनम्' इत्यस्मिन् श्लोके विस्तारपूर्वकं बोधितम् ।
भाष्यार्थः
[सम्पादयतु]उक्तं विषयं सिद्ध्यति – एतस्मिन् लोके वर्तमानः कोऽपि पुरुषः कदापि कर्म अकृत्वा न आस्ते । यतो हि 'अहं किमपि न करिष्यामि' इति विचिन्त्य स्थितः सर्वः मनुष्यः पूर्वकृतकर्मानुसारं वर्धमानैः प्रकृतिजन्यैः गुणैः बाध्यः सन् स्वयोग्यतानुगुणं कार्येषु युक्तः भवत्येव । अत एव उपरि लक्षितेन कर्मयोगेन पूर्वकृतस्य पापसञ्चयस्य नाशं कृत्वा तथा च सत्त्वादिन् त्रीन् गुणान् विशीकृत्य निर्मलान्तःकरणेन ज्ञानयोगस्य सम्पादनं करणीयम् ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये न हि कश्चित्क्षणमपि... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च