सामग्री पर जाएँ

सक्ताः कर्मण्यविद्वांसो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सक्ताः कर्मण्यविद्वांसो...


महापुरुषेभ्यः कर्मतत्परतायाः विधानम्
श्लोकसङ्ख्या ३/२५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः उत्सीदेयुरिमे लोका...
अग्रिमश्लोकः न बुद्धिभेदं जनयेद्...

सक्ताः कर्मण्यविद्वांसः () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः महापुरुषेभ्यः कर्मतत्परतायाः विधानं करोति । पूर्वस्मिन् श्लोके भगवान् स्वस्य उदाहरणं दत्त्वा स्वस्य कृते कर्मणि तत्परतायाः वर्णनं कृत्वा अत्र महापुरुषेभ्यः अपि सावधानतया कर्तव्यकर्मणि योजनस्य प्रेरणां करोति । सः प्रेरयति यद्, हे भारत ! कर्मणि आसक्ताः अज्ञानिजनाः यथा कर्म कुर्वन्ति, तथैव आसक्तिरहिताः विद्वांसः अपि लोकसङ्ग्रहम् ईष्यमाणाः कर्म कुर्वन्ति इति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥

पदच्छेदः

[सम्पादयतु]

सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वान् तथा असक्तः चिकिर्षुः लोकसङ्ग्रहम् ॥ २५ ॥

अन्वयः

[सम्पादयतु]

भारत ! अविद्वांसः कर्मणि सक्ताः यथा कुर्वन्ति तथा विद्वान् असक्तः लोकसङ्ग्रहं चिकीर्षुः (कर्म) कुर्यात् ।

शब्दार्थः

[सम्पादयतु]
अन्वयः सरलसंस्कृतम्
भारत हे भरतकुलश्रेष्ठ
कर्मणि कर्तव्ये
सक्ताः आसक्ताः
अविद्वांसः अज्ञानिनः
यथा येन प्रकारेण
कुर्वन्ति आचरन्ति
तथा तेन प्रकारेण
लोकसङ्ग्रहम् स्वधर्मे प्रवर्तनम् अधर्माच्च निवर्तनम्
चिकीर्षुः कर्तुमनाः (कर्तुम् इच्छुः)
असक्तः न्यस्सः
विद्वान् ज्ञानी
कुर्यात् आचरेत् ।

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. कर्मण्यविद्वांसः = कर्मणि + अविद्वांसः – यण्सन्धिः
  2. विद्वांसो यथा = विद्वांसः + यथा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  3. कुर्याद्विद्वान् = कुर्यात् + विद्वान् – जश्त्वसन्धिः
  4. विद्वांस्तथा = विद्वान् + तथा – रुत्वम्, अनुस्वारागमः, विसर्गः, सत्वञ्च
  5. तथासक्तः = तथा + असक्तः – सवर्णदीर्घसन्धिः
  6. असक्तश्चिकीर्षुः = असक्तः + चिकीर्षुः – विसर्गसन्धिः (सकारः) श्चुत्वम्
  7. चिकीर्षुर्लोकसङ्ग्रहम् = चिकीर्षुः + लोकसङ्ग्रहम् – विसर्गसन्धिः (रेफः)

कृदन्तः

[सम्पादयतु]
  1. विद्वान् = विद् + शतृ (कर्तरि) वसु इति आदेशः
  2. सक्तः = सज्ज + क्त (कर्तरि)

सन्नन्तः

[सम्पादयतु]
  1. चिकीर्षुः = कृ + सन् + उ (कर्तरि)

हे अर्जुन ! कर्मणि आसक्ताः अज्ञानिनः यथा कर्म आचरन्ति तथा अनासक्तोऽपि विद्वान् लोकोद्धाराय कर्म आचरेत् ।

भावार्थः

[सम्पादयतु]

ये मनुष्याः शास्त्र-शास्त्रपद्धति-शास्त्रविहतशुभकर्मभ्यः श्रद्धां वहन्ति, शास्त्रविहितकर्मणाम् आचरणेन फलम् अवश्यं प्राप्यते इति येषां विश्वासः अस्ति, ये न तु तत्त्वज्ञाः सन्ति, न च दुराचारिणः, तथापि ये कर्मभोगेषु पदार्थेषु च आसक्ताः सन्ति, तादृशेभ्यः मनुष्येभ्यः अत्र 'सक्ताः', 'अविद्वांसः' इत्येतयोः पदयोः उपयोगः अस्ति । एतादृशाः पुरुषाः यद्यपि शास्त्रज्ञाः भवन्ति, तथापि केवलं कामनात्वात्ते मनुष्याः अज्ञानिनः उद्यन्ते । ते केवलं स्वस्य कृते कर्म कुर्वन्ति, अतः ते अज्ञानिनः । एतादृशाः अविद्वांसः पुरुषाः कर्मसु कदाचित् प्रमादः, आलस्यम् इत्यादिकं त्यक्त्वा सावधानतया साङ्गोपाङ्गं कर्म कुर्वन्ति । यतो हि तेषां मते कर्मणि निम्नता, फलेऽपि निम्नत्वम् आवहति इति । तेषाम् अविदुषां पुरुषाणां पद्धतिम् आदर्शपद्धतित्वेन स्वीकृत्य भगवान् विद्वद्भ्यः अपि लोकसङ्ग्रहाय तथा कर्म कर्तुं प्रेरयति । (अज्ञानिवत् फलाय कर्म कर्तुं न अपि तु फलवाञ्च्छिते सति तत्परयायां यथा कार्यं कुर्वन्ति, तथा लोकसङ्ग्रहाय कार्यं कर्तुम्) 'कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्' – यस्मिन् कामना-ममता-आसक्ति-वासना-पक्षपत-स्वार्थादीनां सर्वथा अभावः अस्ति, शरीरादिपादर्थेभ्यः किञ्चिन्मात्रम् अपि मोहः नास्ति, तादृशाय तत्त्वज्ञाय महापुरुषाय अत्र 'अनासक्तः, विद्वान्' इत्येतयोः पदयोः उपयोगः । विंशे श्लोके 'लोकसङ्ग्रहमेवापि सम्पश्यन्' इत्युक्त्वा एकविंशे श्लोके तस्य व्याख्या अभवत् । तदेवात्र 'लोकसङ्ग्रहं चिकीर्षुः' इत्येनन उक्तम् । श्रेष्ठपुरुषस्य सर्वाण्यपि कार्याणि स्वाभाविकतया यज्ञाय, मर्यादारक्षणाय च भवन्ति । यथा भोगिनः भोगे, मोहिनः कुटुम्बे, लोभिनः धने च रतिः भवति, तथैव श्रेष्ठमनुष्यस्य प्राणिमात्रस्य हिते रतिः भवति । तस्य अन्तःकरणे 'अहं लोकहितं कुर्वन् अस्मि' इति भावोऽपि नोद्भवति । प्रत्युत तेन सहजतया लोकहितं भवति । यतो हि प्राकृतपदार्थेभ्यः महापुरुषाणां सर्वथा सम्बन्धविच्छेदः जातः, अतः तेषाम् उच्यमानाः शरीर-इन्द्रिय-मनो-बुद्ध्यादयः अपि 'लोकसङ्ग्रहः' इत्यस्मिन् पदे अन्तर्भूते 'लोक' इत्यस्मिन् पदे अन्तर्भवति ।

अन्येषां सांसारिकदृष्ट्यां तु ते महापुरुषाः लोकसङ्ग्रहस्य इच्छायुक्ताः दरीदृश्यन्ते, परन्तु वस्तुतः ते महापुरुषाः लोकसङ्ग्रहम् अपि नेच्छन्ति । यतो हि साधनावस्थायाः एव ते शरीर-इन्द्रिय-मनो-बुद्धि-पदार्थ-अधिकार-धन-योग्यता-सामर्थ्यादिषु ममत्वं नाङ्गीकुर्वन्ति । प्रत्युत संसारस्य, संसारसेवायै एव तेषाम् अङ्गीकारं कुर्वन्ति । एतस्मिन् श्लोके 'यथा', 'तथा' इत्येतयोः पदयोः उपयोगः कर्मप्रकारार्थे अभवत् । तात्पर्यम् अस्ति यद्, यथा सकामपुरुषः (अज्ञानी) स्वार्थाय सावधानतया, तत्परतापूर्वकं च कर्म करोति, तथैव ज्ञानी पुरुषः अपि लोकसङ्ग्रहार्थं (अन्येषां हिताय) कुर्यात् इति ।

अज्ञानिपुरुषाः तु फलप्राप्त्यै सावधानतया कर्म कुर्वन्ति । परन्तु ज्ञानिपुरुषस्य फले आसक्तिः न भवति । अतः तेन कर्मणः उपेक्षायाः सम्भावना भवति । एवं विचिन्त्य भगवान् कर्माचरणविषये ज्ञानिपुरुषम् अपि अज्ञानिपुरुषस्य (सकामपुरुषस्य) अनुसुरणं कर्तुम् आज्ञापयति । एकविंशे श्लोके विद्वान् सर्वेषाम् आदर्शभूतः इति प्रतिपादितः, परन्तु अत्र स एव विद्वान् पुरुषः अनुयायित्वेन उपस्थापितः । तात्पर्यम् अस्ति यद्, विद्वान् पुरुषः आदर्शभूतः उत अनुयायी स्यात्, परन्तु तेन स्वतरेव लोकसङ्ग्रहः भवति इति निश्चयः भवति । यथा भगवान् श्रीरामः प्रजाभ्यः उपदशति, पितुः आज्ञानुसारं वनवासम् अपि स्वीकरोति । यतो हि तस्य कर्मणि उत अकर्मणि किमपि प्रयोजनं नासीत् ।

शाङ्करभाष्यम्

[सम्पादयतु]

सक्ता इति। सक्ताः कर्मण्यस्य कर्मण फलं मम भविष्यतीति केचिदविद्वांसो यथा कुर्वन्ति भारत,कुर्याद्विद्वानात्मवित्तथासक्तः सन्। तद्वत् किमर्थं करोति तच्छृणु चिकीर्षुर्यथा कर्तुमिच्छुर्लोकसंग्रहम् ।।25।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
उत्सीदेयुरिमे लोका...
सक्ताः कर्मण्यविद्वांसो... अग्रिमः
न बुद्धिभेदं जनयेद्...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]

अधिकवाचनाय

[सम्पादयतु]