उत्सीदेयुरिमे लोका...
उत्सीदेयुरिमे लोका... ईश्वरस्य अकर्मणा नाशस्य वर्णनम् | |
---|---|
श्लोकसङ्ख्या | ३/२४ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | यदि ह्यहं न वर्तेयं... |
अग्रिमश्लोकः | सक्ताः कर्मण्यविद्वांसो... |
उत्सीदेयुरिमे लोका ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वस्य अकर्मण्यतायाः कारणेन उत्पन्नस्य नाशस्य वर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् स्वस्य अकर्मण्यतायाः कारणने किं किं भवितुम् अर्हति इत्यस्य विवरणम् आरब्धवान् । तस्य विवरणस्य द्वितीयसोपानत्वेन अत्र सः मनुष्यतायाः नाशात्मकताम् उपस्थापयति । सः वदति यद्, यदि अहं कर्म न कर्याम्, तर्हि इमे सर्वे मनुष्याः निष्टाः भविष्यन्ति । तथा च अहं सङ्करतायाः कर्ता स्याम् । एवञ्च सर्वासां प्रजानां नाशकः भवेयमिति ।
श्लोकः
[सम्पादयतु]- उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
- सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥
पदच्छेदः
[सम्पादयतु]उत्सीदेयुः इमे लोकाः न कुर्यां कर्म चेत् अहम् सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ २४ ॥
अन्वयः
[सम्पादयतु]अहं कर्म न कुर्यां चेत् इमे लोकाः उत्सीदेयुः । सङ्करस्य च कर्ता स्याम् । इमाः प्रजाः उपहन्याम् ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
अहम् | अहम् |
कर्म | कर्तव्यम् |
न कुर्यां चेत् | यदि न आचरेयम् |
इमे लोकाः | एतानि भुवनानि |
उत्सीदेयुः | विनश्येयुः |
सङ्करस्य च | सार्यस्य च |
कर्ता | विधाता |
स्याम् | भवेयम्, |
इमाः प्रजाः | एतान् जनान् |
उपहन्याम् | विनाशयेयम् । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- उत्सीदेयुरिमे = उत्सीदेयुः + इमे – विसर्गसन्धिः (रेफः)
- लोका न = लोकाः + न – वसर्गसन्धिः (लोपः)
- चेदहम् = चेत् + अहम् – जश्त्वसन्धिः
कृदन्तः
[सम्पादयतु]- सङ्करस्य = सम् + कृ + अच् (भावे) तस्य
- कर्ता = कृ + तृत् (कर्तरि)
अर्थः
[सम्पादयतु]यदि अहं कर्म न आचरेयं तर्हि भुवनानि नाशं प्राप्नुयुः । किञ्च अहमेव सरस्य कारणम्, प्रजानाशकश्च भवेयम् ।
भावार्थः
[सम्पादयतु]'उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्' – पूर्वं भगवान् कर्मसु असावधानतायाः हानिम् अवदत् [१] । अहं कर्तव्यकर्मणः त्यागं करोमि इति तु असम्भवमेव इति भावम् उदितुमेव भगवान् अत्र 'चेत्' इत्यस्य पदस्य प्रयोगम् अकरोत् । मनुष्यस्य अकर्मण्यतायाम् अपि आसक्ति न स्याद् [२] इति स्वस्य उदाहरणेन अत्र उपस्थापयति । यदि अहं स्वकर्तव्यस्य पालनं न कुर्याम्, तर्हि सर्वेऽपि मत्मार्गानुगामिनः मनुष्याः निष्टाः भविष्यन्ति । किञ्च स्वकर्तव्यस्य त्यागे कृते सति मनुष्येषु तामसगुणाः समुद्भवन्ति । तेन तेषाम् अधोगतिः भवति [३] ।
'सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः' – यदि अहं कर्तव्यकर्माणि न करोमि, तर्हि प्रजाः नष्टाः भविष्यन्ति । तेषां नाशकारणम् अहमेव भवामि । यद्यपि तत् न सम्भवति । परस्परविरुद्धौ द्वौ धर्मौ एकस्मिन् एव भवतः, तदा सः 'सङ्करः' इति उच्यते । प्रथमाध्यायस्य चत्वारिंशे, एकचत्वारिंशे च श्लोकयोः अर्जुनः अवदत् यद्, यदि अहं युद्धं करिष्ये, तर्हि अनेकेषां कुलानां नाशः भविष्यति । कुलानां नाशे सति समग्रे कुले कुलधर्मस्य नाशः भविष्यति । कुलधर्मस्य नाशे सति समस्ते कुले पापाचारो व्याप्स्यति । पापातिरेकेण स्त्रियः दूष्यन्ति, येन वर्णसङ्कराः जायन्ते इति । एवम् अर्जुनस्य भावः आसीत् यद्, युद्धे कृते सति वर्णसङ्कराः भविष्यन्ति इति । परन्तु अत्र भगवान् तस्माद् विपरीतं कथयति । सः कथयति यद्, युद्धरूपं कर्तव्यकर्म अकृत्वा वर्णसङ्करता उद्भविष्यति इति । एतस्मिन् विषये भगवान् स्वस्य उदाहरणम् अपि यच्छति । सः उदाहरति यद्, यदि अहं कर्तव्यकर्म न करोमि, तर्हि कर्म-धर्म-उपासना-वर्ण-आश्रम-जात्यादीनां स्वतः सङ्करता भविष्यति । तात्पर्यम् अस्ति यद्, कर्तव्यकर्मणाम् अभावे एव सङ्करता उत्पद्यते इति । अर्जुनस्य वर्णसङ्करोत्पन्नतायाः यत् कारणम् अस्ति, तस्मिन् दोषः अस्ति । युद्धे कृते कुलनाशः कदाचिद् भवेत् । परन्तु कुलस्त्रियः कर्तव्याच्युत्यः अभूत्वा एवं चिन्तयेत् यद्, मम पतिः धर्मयुद्धं कुर्वन् अर्थात् कर्तव्यपालनं कुर्वन् हुतात्मा अभवदिति । तर्हि पतिम् अनुरन्त्यः ताः अपि स्वकर्तव्यात् च्युताः न भवेयुः । कुलनाशे वर्णसङ्करतायाः उत्पत्तिः स्त्रिणां कर्तव्यच्यूततायाः कारणेन भवति, न तु युद्धत्वात् । इत्येव श्लोकेऽस्मिन् भगवान् अर्जुनम् अबोधयत् ।
अर्जुनस्य मूलप्रश्नः आसीत् यद्, भवान् किमर्थं माम् एतस्मिन् घोरे कर्मणि योजयति इति । तस्य प्रश्नस्य उत्तरं भगवान् द्वाविंशे, त्रयोविंशे, चतुर्विंशे च श्लोकेषु स्वस्य उदाहरणं दत्त्वा प्राबोधयत् । भगवान् स्वस्य कृते त्रिषु लोकेषु किमपि कर्तव्यम् अप्राप्यं च नास्ति, तथापि अहं कर्म करोमि इति अवदत् । अनेन भगवान् सङ्केतं करोति यद्, हे अर्जुन ! त्वं रथी, अहञ्च सारधी । क्षत्रिये सत्यपि अहं सारथी भूत्वा स्वस्य कर्तव्यस्य पालनं कुर्वन्नस्मि । एवं सावधानतया अहं स्वस्य कर्तव्यस्य पालनं करोमि । मम एतस्य कर्तव्यस्य प्रभावः त्रिषु लोकेषु भविष्यति । यतो हि अहं त्रिलोकेषु आदर्शभूतः अस्मि । सर्वे प्राणिनः मम एव मार्गानुसरणं कुर्वन्ति । एवं त्वया अपि कर्तव्योपेक्षा अकृत्वा सावधानतया स्वकर्तव्यस्य पालनं क्रियेताम् ।
शाङ्करभाष्यम्
[सम्पादयतु]तथाच को दोष इत्याह-उदिति। उत्सीदेयुर्विनश्येयुरिमे सर्वे लोका लोकस्थितिनिमित्तस्य कर्मणोऽभावात् न कुर्यां कर्म चेदहम्, किंच संकरस्य च कर्ता स्याम्। तेनकारणेनोपहन्यामिमाः प्रजाः प्रजानामनुग्रहाय प्रवृत्त उपहतिमुपहननं कुर्यामित्यर्थः। ममेश्वरस्याननुरूपमापद्येत यदि पुनरहमिव त्वं कृतार्थबुद्धिरात्मविदन्योवा तस्याप्यात्मनः कर्तव्याभावेऽपि परानुग्रह एव कर्तव्य इति।।24।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये उत्सीदेयुरिमे लोका... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च