काम एष क्रोध एष...
श्लोकः
[सम्पादयतु]( ( शृणु))
- श्रीभगवानुवाच
- काम एष क्रोध एष रजोगुणसमुद्भवः।
- महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमः (३७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]कामः एषः क्रोधः एषः रजोगुणसमुद्भवः महाशनो महापाप्मा विद्धि एनम् इह वैरिणम् ॥ ३७ ॥
अन्वयः
[सम्पादयतु]एषः कामः एषः क्रोधः रजोगुणसमुवः महाशनः महापाप्मा च अस्ति । (तेन) इह एनं वैरिणं विद्धि ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
एषः कामः | अयम् अभिलाषः |
एषः क्रोधः | अयं रोषः |
रजोगुणसमुवः | रजोगुणात् उत्पन्नः |
महाशनः | महाभोजनः |
महापाप्मा | महापापः च |
इह | अत्र |
एनम् | अमुम् |
वैरिणम् | शत्रुम् |
विद्धि | जानीहि । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- काम एष क्रोध एष = कामः + एषः + क्रोधः + एषः – विसर्गसन्धिः (लोपः)
- महाशनो महापाप्मा = महाशनः + महापाप्मा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- विद्ध्येनम् = विद्धि + एनम्
समासः
[सम्पादयतु]- रजोगुणसमुद्भवः = रजोगुणात् समुद्भवः – पञ्चमीतत्पुरुषः
- महाशनः ¬= महत् अशनं यस्य सः – बहुव्रीहिः
- महापाप्मा = महत् पाप्मा यस्मिन् सः – बहुव्रीहिः
तद्धितान्तः
[सम्पादयतु]- वैरी = वैर + इनि (मतुबर्थे) । वैरम् अस्य अस्मिन् वा अस्ति इत्यर्थः ।
अर्थः
[सम्पादयतु]अयं विषयाभिलाषः । प्रतिरोधे सति अयमेव क्रोधः इति उच्यते । अयं रजोगुणात् समुवति । अनेन पुरुषः अपरिमितानि वस्तूनि प्राप्तुम् इच्छति इति हेतोः अयं महाशनः । अनेनैव हेतुना अपरिमितं पापं च करोति इति अयं महापाप्मा इति उच्यते । अनेनैव प्रेरितः एव पुरुषः पापम् अवाप्नोति इति एनं वैरिणं भावय ।
शाङ्करभाष्यम्
[सम्पादयतु]शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि-श्रीभगवानुवाच। 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना'। ऐश्वर्यादिषट्कंयस्मिन् वासुदेवे नित्यमप्रतिबन्धत्वेन सामस्त्येन च वर्तते 'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति'। उत्पत्यदिविषयंतच विज्ञानं यस्य स वासुदेवो वाच्यो भगवानिति। काम इति। काम एष सर्वलोकशत्रुर्यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनां स एष कामः प्रतिहतः केनचित्क्रोधत्वेनपरिणमते। अतः क्रोधोऽप्येष एव। रजोगुणसमुद्भवो रजश्च तद् गुणश्च रजोगुणः समुद्भवो यस्य स कामो रजोगुणसमुद्भवो रजोगुणस्य वा समुद्भवः, कामो ह्युद्भूतो रजः प्रवर्तयन्पुरुषं प्रवर्तयति। तृष्णयाह्यहंकारित इति दुःखितानां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते। महाशनो महदशनमस्येति महाश्नोऽतएव महापाप्मा कामेन प्रेरितो जन्तुः पापं करोति। अतोविद्धयेनं काममिह संसारे वैरिणम् ।।37।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये काम एष क्रोध एष... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च