कर्म ब्रह्मोद्भवं विद्धि...
कर्म ब्रह्मोद्भवं विद्धि... सृष्टिचक्रस्य वर्णनम् | |
---|---|
श्लोकसङ्ख्या | ३/१५ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | अन्नाद्भवन्ति भूतानि... |
अग्रिमश्लोकः | एवं प्रवर्तितं चक्रं... |
कर्म ब्रह्मोद्भवं विद्धि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्रम् अग्रे वदति । पूर्वस्मिन् श्लोके सृष्टिचक्रस्य कृते कर्तव्यपालनस्य आवश्यकतां वर्णयन् भगवान् सृष्टिचक्रस्य आरम्भम् अकरोत् । अत्र तस्य आरम्भस्यानगुणं सृष्टिचक्रस्य विषये अग्रे वदति । सः कथयति यद्, कर्मसमुदायः वेदेभ्यः उत्पन्नः, वेदश्च अविनाशिनः परमात्मनः उत्पन्नः इति जानातु । सर्वव्यापी परमात्मा सर्वदा यज्ञे (कर्तव्यपालने) प्रतिष्ठितः इति अनेन सिद्ध्यति इति ।
श्लोकः
[सम्पादयतु]- कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुवम् ।
- तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
पदच्छेदः
[सम्पादयतु]कर्म ब्रह्मोद्भवं विद्धि ब्रह्म अक्षरसमुद्भवम् तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
अन्वयः
[सम्पादयतु]कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म अक्षरसमुद्भवं विद्धि । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
कर्म | यागदिकं कर्म |
ब्रह्मोद्भवम् | वेदसमुद्भवम् |
विद्धि | जानीहि |
ब्रह्म | वेदः |
अक्षरसमुद्भवम् | परमात्मसमुद्भवः (इति विद्धि) |
तस्मात् | अतः |
सर्वगतम् | सर्वव्यापी |
ब्रह्म | परमात्मा |
नित्यम् | सदा |
यज्ञे | यागे |
प्रतिष्ठितम् | स्थिरतया स्थितः । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- ब्रह्माक्षरसमुद्भवम् = ब्रह्म + अक्षरसमुद्भवम् – सवर्णदीर्घसन्धिः
समासः
[सम्पादयतु]- ब्रह्मोद्भवम् = ब्रह्मणः उद्भवम् – पञ्चमीतत्पुरुषः
- अक्षरसमुद्भवम् = अक्षरात् समुद्भवम् - पञ्चमीतत्पुरुषः
कृदन्तः
[सम्पादयतु]- गतम् = गम् + क्त (कर्तरि)
- उद्भवम् = उद् + भू + अच् (कर्तरि), उद्भवतीति उद्भवम् ।
अर्थः
[सम्पादयतु]कर्म वेदात् उत्पन्नम् । वेदश्च परमात्मनाः उत्पन्नोऽस्ति । अतः सर्वव्यापी भगवान् यज्ञे सदा तिति ।
भावार्थः
[सम्पादयतु]'कर्म ब्रह्मोद्भवं विद्धि' – कर्तव्यकर्मणाम् आचरणस्य उपदेशं वेदाः यच्छन्ति [१] । मनुष्याः कर्तव्यकर्माचरणस्य ज्ञानं वेदेभ्यः एव प्राप्तवन्तः, अत एव वेदाः कर्मणाम् उत्पत्तिस्थानं मन्यते । 'वेदः' इत्यस्मिन् शब्दे न केवलं चत्वारः वेदाः (ऋग्यजुसामाथर्वाः) अन्तर्भवन्ति, अपि तु स्मृति-पुराण-इतिहास-आचर्योपदेशादयः सर्वेऽपि वेदानुकूलोपदेशाः अन्तर्भवन्ति ।
'ब्रह्माक्षरसमुद्भवम्' – अत्र 'ब्रह्म' इत्यनेन पदेन वेदः स्वीक्रियत् । वेदाः सच्चिदानन्दधनेन परमात्मना एव उत्पादिताः [२] । एवं परमात्मा एव सर्वेषां मूलम् । परमात्मना वेदाः निष्पन्नाः । वेदाः कर्तव्यपालनस्य विधिं प्रदर्शयन्ति । मनुष्यः तस्य कर्तव्यस्य विधिपूर्वकं पालनं करोति । कर्तव्यकर्मणां पालनेन यज्ञः भवति । यज्ञात् वर्षाः भवन्ति । वर्षाभ्यः अन्नं जायते । अन्नेन प्राणिनः उत्पद्यन्ते । तेषु प्राणिषु मनुष्यः कर्तव्यपालनाय कर्म करोति । एवं सृष्टिचक्रं चलति । 'तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्' – अत्र 'ब्रह्म' इत्यस्य पदस्य अक्षरवाचकत्वं ज्ञेयम् । अर्थात् सगुणनिराकरः परमात्मा इति । अतः सर्वगतः (सर्वव्यापी) परमात्मा अस्ति, न तु वेदाः । सर्वव्यापित्वाद् अपि परमात्मा विशेषरूपेण 'यज्ञे' कर्तव्यपालने सर्वादा विद्यमानः भवति । तात्पर्यम् अस्ति यद्, यत्र निष्कामभावेन कर्तव्यपालनं भवति, तत्र ईश्वरः निवसति । अतः परमात्मप्राप्तेः इच्छुकाः स्वकर्तव्यपालनेन एव परमात्मप्राप्तिं सहजतया कर्तुं प्रभवन्ति [३] ।
अत्र शङ्का भवति यद्, परमात्मा यदि सर्वव्यापी अस्ति, तर्हि सः यज्ञे नित्यप्रतिष्ठितः इति किमर्थम् उक्तम् ? किं सः अन्येषु स्थानेषु नास्ति ? अस्य समाधानम् अस्ति यद्, परमात्मा तु सर्वत्र अस्ति, सः अनित्यः, एकदेशीयः च न । अतः परमात्मनः कृते 'सर्वगतः' इत्यस्य उपयोगः अत्र अभवत् । यज्ञे (कर्तव्यकर्मणि) नित्यप्रतिष्ठितः इत्यस्य तात्पर्यम् अस्ति यद्, यज्ञे सः उपलब्धः अस्ति इति । पृथिव्यां सर्वत्र जले सत्यपि कूपादिषु एव जलं प्राप्यते । तथैव सर्वगतः परमात्मा अपि यज्ञेन एव प्राप्यः अस्ति । स्वस्य कृते कर्मणि कृते तथा च जडपदार्थैः सह स्वस्मबन्दः आरोपिते सति सर्वव्यापिनः परमात्मनः प्राप्तौ विघ्नम् उत्पद्यते । निष्कामभावपूर्वकं कर्तव्यपालनं क्रियते चेत्, विघ्नं दूरीभवति । ततः नित्यप्राप्तस्य परमात्मनः स्वतः एव अनुभवः जायते । अत एव कर्तव्यपालनात् विमुखो भवितुं तत्पराय अर्जुनाय भगवान् विभिन्नप्रकारेण कर्तव्यपालनाया विशेषाग्रहं करोति ।
शाङ्करभाष्यम्
[सम्पादयतु]तच्च कर्मेति। कर्म ब्रह्मोद्भवं ब्रह्म वेदः स उद्भवः कारणं यस्य तत् कर्म ब्रह्मोद्भवं विद्धि जानीहि। ब्रह्म पुनर्वेदाख्यमक्षरसमुद्भवम्। अक्षरं ब्रह्म परमात्मासमुद्भवो यस्य तदक्षरसमुद्भवं ब्रह्म वेदइत्यर्थः।यस्मात्साक्षात्परमात्माख्यादक्षरात्पुरुषनिःश्वासवत् समुद्भुतं ब्रह्म तस्मात्सर्वार्थप्रकाशकत्वात्सर्वगतम्। सर्वगतमपि सन्नित्यं सदा यज्ञविधिप्रधानत्वाद्यज्ञे प्रतिष्ठितम्।।15।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये कर्म ब्रह्मोद्भवं विद्धि... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च