सामग्री पर जाएँ

यस्त्विन्द्रियाणि मनसा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यस्त्विन्द्रियाणि मनसा...


योगव्याख्या
श्लोकसङ्ख्या ३/७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः कर्मेन्द्रियाणि संयम्य...
अग्रिमश्लोकः नियतं कुरु कर्म त्वं...

यस्त्विन्द्रियाणि मनसा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वदति यद्, आसक्तिरहितकर्माचरणम् एव योगः इति । पूर्वस्मिन् श्लोके कर्मणः स्वरूपमात्रेण त्यागः मिथ्याचारम् उकत्वा अत्र भगवान् वास्तविकज्ञानस्य उपस्थापनं करोति । सः कथयति यद्, हे अर्जुन ! यः मनुष्यः मनसा इन्द्रियेषु नियन्त्रणं प्रस्थाप्य आसक्तिरहितो भूत्वा निष्कामभावेन समस्तेन्द्रियैः कर्मयोगस्य आचरणं करोति, सः श्रेष्ठः अस्ति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

पदच्छेदः[सम्पादयतु]

यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः कर्मयोगम् असक्तः सः विशिष्यते ॥ ७ ॥

अन्वयः[सम्पादयतु]

अर्जुन ! यः तु असक्तः इन्द्रियाणि मनसा नियम्य कर्मेन्द्रियैः कर्मयोगम् आरभते सः विशिष्यते ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
अर्जुन हे पार्थ
यः तु यः पुरुषः पुनः
मनसा चित्तेन
इन्द्रियाणि नेत्रादीनि
नियम्य वशीकृत्य
असक्तः सङ्गरहितः
कर्मेन्द्रियैः हस्तादिभिः
कर्मयोगम् कर्माचरणम्
आरभते प्रारभते
सः सः पुरुषः
विशिष्यते उत्कृष्टः भवति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. कर्मेन्द्रियैः = कर्म + इन्द्रियैः – गुणसन्धिः
  2. यस्त्विन्द्रियाणि = यः + त्विन्द्रियाणि – विसर्गसन्धिः (सकारः)
  3. तु इन्द्रियाणि = यण्सन्धिः
  4. नियम्यारभतेऽर्जुन = नियम्य + आरभते – सवर्णदीर्घसन्धिः
  5. आरभते अर्जुन - पूर्वरूपसन्धिः

समासः[सम्पादयतु]

  1. असक्तः = न सक्तः - नञ्तत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. नियम्य = नि + यम् + ल्यप्
  2. सक्तः = सज्ज + क्त (कर्तरि)

अर्थः[सम्पादयतु]

अर्जुन ! यः मनुष्यः चित्तेन ज्ञानेन्द्रियाणि वशीकृत्य सङ्गरहितः सन् वाक्पाण्यादिभिः कर्म प्रारभते सः मनुष्यः श्रेष्ठः इति परिगण्यते ।

भावर्थः[सम्पादयतु]

अध्यायस्यास्य चतुर्थे श्लोके भगवान् कर्मयोगदृष्ट्या, साङ्ख्ययोगदृष्ट्या च कर्मणां त्.यागः अनावश्यकः इत उक्त्वा पञ्चमे श्लोके कोऽपि मनुष्यः यस्यां कस्यामपि अवस्थायां क्षणमात्रमपि कर्म अकृत्वा स्थातुं न शक्नोति इति वदति । ततः तस्मात् पूर्वस्मिन् श्लोके बलपूर्वकम् इन्द्रियाणां क्रियानां निग्रहे कृते आत्मानं क्रियारहितत्वेन यः उपस्थापयति, सः मिथ्याचारी अस्ति इति स्पष्टीकृतम् । एवं भगवता सिद्धिं कृतं यत्, कर्मणां स्वरूपादेव त्यागः न वास्तविकत्यागः । अतः अनेन श्लोकेन भगवान् वास्तिकः त्यागः कः इति व्याख्याति ।

'तु' – अत्र अनासक्तः सन् कर्तव्यापालनं कुर्वतः कर्मयोगिनः अपेक्षया मिथ्याचारिणः अधमत्वम् उक्तम् अस्ति । एवं 'तु' पदेन न केवलं कर्मयोगानुसारम् अपि तु साङ्ख्यगोयोगानुसारम् अपि मिथ्याचारिणः अधमत्वं प्रदर्शितम् । अर्थात् अनासक्तः सन् कर्तव्यपालनं कर्ता श्रेष्ठः इति ।

'अर्जुन' – अर्जुन ! इत्यस्य पदस्य अर्थः भवति 'स्वच्छः' इति । अत्र भगवान् 'अर्जुन' इत्यनेन सम्बोधनेन अर्जुनस्य निर्मलान्तःकरणस्य सङ्केतं करोति । अर्थात् हे अर्जुन ! तव अन्तःकरणं निर्मलम् अस्ति । अतः व अन्तःकरणे कर्तव्यकर्मविषयकः सन्देहः एषः कीदृशः ?

'यस्त्विन्द्रियाणि मनसा नियम्य' – अत्र 'मनसा' इति पदं सम्पूर्णान्तःकरणस्य अर्थात् मनोबुद्धिचित्ताहङ्काराणां वाचकम् । मनसा इन्द्रियाणि वशे करणस्य तात्पर्यम् अस्ति यद्, विवेकवन्त्या बुद्ध्या 'मनसा, इन्द्रियैः च सह मे कोऽपि सम्बन्धः नास्ति' इति अनुभवः । इन्द्रियाणां नियमने कृते सति इन्द्रियाणां स्वतन्त्रः आग्रहः न भवति । अर्थात् मनुष्यः यत्र आत्मानं योक्तुम् इच्छति, तत्र योजयितुं शक्नोति । तथैव यस्मात् स्थानात् आत्मानं विरक्तं कर्तुम् इच्छति, तस्मात् स्थानात् आत्मानं विरक्तुं कर्तुं प्रभवति । इन्द्रियाणि तदा वशीभवन्ति, यदा ममतायाः सर्वथा अभावः भवति । अग्रेऽपि कर्मयोगिभ्यः इन्द्रियवशस्य चर्चा भविष्यति [१] । तात्पर्यम् अस्ति यद्, वशीकृताभिः इन्द्रियैः कर्मयोगस्य आचरणं भवति इति । पूर्वस्मिन् श्लोके इन्द्रियाणां बलपूर्वकं दमनं मिथ्याचारः इति वक्तुं 'संयम्य' इत्यस्य पदस्य उपयोगः कृतः आसीत्, परन्तु अत्र 'नियम्य' इत्यस्य पदस्य उपयोगं कृत्वा शास्त्रमर्यादानुसारम् इन्द्रियनियमनस्य चर्चा कृता अस्ति । नियमनम् इत्युक्ते निषिद्धात् कर्मणः शास्त्रविहिते कर्मणि स्थापनम् । इन्द्रियनियमने कृते इन्द्रियाणां संयमः स्वतः सिद्ध्यति ।

'आसक्तः' – आसक्तिः स्थानद्वये भवति । १) कर्मसु २) कर्मणः फलेषु च । सर्वे दोषाः आसक्त्यामेव निहिताः सन्ति । कर्मसु उत तस्य फलेषु न । आसक्तित्वा योगः न सिद्ध्यति । अतः साधकः कर्मणः त्यागम् अकृत्वा तस्यां स्थितायः आसक्तेः त्यागः करणीयः । आसक्तिरहिते सति सावधानतया तत्परतापूर्वकं कर्तव्यकर्मणः आचरणम् अकृत्वा कर्मणा सह सम्बन्धः न विच्छिनत्ति । साधकः आसक्तिरहितः तदैव भवति, यदा शरीरेन्द्रियमनोबुद्ध्यः न मे, न च मह्यम् इति स्वीकरोति । एवं केवलं संसारस्य , संसाराय च इति मत्वा संसारहिताय तत्परतापूर्वकं कर्तव्यकर्मणां पालनं कर्तव्यम् । यदा स्वस्य कृते कर्म अकृत्वा केवलम् अन्येषां हिताय सर्वाणि कर्माणि करोति, तदा तस्मिन् स्थिता फलासक्तिः स्वतः एव नष्टा भवति । कर्मेन्द्रियैः जायानानि साधारणक्रियातः चिन्तनसमाधिपर्यन्तायाः सर्वसां क्रियाणाम् आत्मस्वरूपेण सह कोऽपि सम्बन्धः नास्ति [२] । परन्तु स्वरूपेण अनासक्ते सत्यपि जीवात्मा स्वयम् आसक्तः भूत्वा संसारेण सह स्वस्य सम्बन्धं स्थापयति । कर्मयोगिनः वास्तविकमहिमा आसक्तिरहिते एव अस्ति । कर्मभिः जायमानायाः फलेच्छायाः अभावः अर्थात् फलेच्छायाः सर्वथा असङ्गता एव आसक्तिरहितता उच्यते ।

सामान्यमनुष्यः स्वस्य कर्मणः सिद्ध्यै एव कार्ये प्रवृत्तः भवति । परन्तु साधकः आसक्तित्यागस्य उद्देश्यं लक्षीकृत्य कार्ये प्रवृत्तः भवति । तादृशः साधकः एव अत्र 'असक्तः' इति उक्तः । यदा ज्ञानयोगी, कर्मयोगी च फलेच्छाम्, आसक्तिं च त्यजतः, तदा ज्ञानयोगिनः अपेक्षया कर्मयोगिनः सिद्धिः सुगमा भवति । यतो हि कर्मयोगिना ततः अन्यायाः साधनायाः आवश्यकता न भवति । परन्तु ज्ञानियोगिनः कृते देहाभिमानस्य, क्रियापदार्थस्य आसक्तेः उन्मूलनाय साधनायाः आवश्यकता भवति [३] [४] । कर्मयोगे आसक्तित्यागः प्रमुख्यः, येन कर्मयोगी समबुद्धिं प्राप्नोति । अत एव भगवान् कथयति यद्, कर्मणः त्यागम् अकृत्वा आसक्तिरहितं कर्म कुरु इति । कर्मणः त्यागः न कर्तव्यः । वस्तुतः एषः गीतायाः सिद्धान्तः नास्ति । गीतायाः वास्तविकसिद्धान्तः अस्ति यद्, कर्मणि अनासक्तिः भवेदिति । कर्मयोगे 'कर्म' सर्वदा अन्येषां हिताय एव भवति । 'योगः' स्वस्य कृते भवति । अर्जुनः कर्म स्वस्य कृते मन्यते । अतः तस्य कृते युद्धरूपी कर्म भङ्करं प्रतीयते । एतस्मिन् सन्दर्भे भगवान् स्पष्टयति यद्, आसक्तिः एव भयङ्करा न तु कर्म भयङ्करम् इति ।

'कर्मेन्द्रियैः कर्मयोगम् आरभते' – यथा एतस्य श्लोकस्य प्रथमे चरणे 'इन्द्रियाणि' इत्यस्य पदस्य अर्थः दश इन्द्रियाणि इति भवति, तथैव उत्तरार्धे उपयुक्तस्य 'कर्मेन्द्रियैः' इत्यस्य पदस्यापि दश इन्द्रियाणि एव अङ्गीकर्तव्यः । यदि अत्र केवलं हस्तादीनामेव स्वीकारं कुर्मः, तर्हि अदृष्ट्वा, अश्रुत्वा वा कार्म कथं भवितुम् अर्हति ? अतः सर्वेषां करणानाम् अर्थात् अन्तःकरणनां, बाह्यकरणानां च कर्मेन्द्रियशब्देन बोधः ग्रहणीयः । स्वार्थत्यागोत्तरम् अन्येषां हिताय कृतं कर्म कर्मयोगः उच्यते । स्वस्य कृते कर्मणि कृते कर्मणा, कर्मफलेन च सह सम्बन्धः भवति । अन्येभ्यः कर्मणि कृते सति कर्मणः, कर्मफलस्य च सम्बन्धः अन्यैः, परमात्मना च सह भवति । एवं स्थल-काल-परिस्थित्यनुगुणं सम्मुखम् उपस्थितस्य कर्तव्यकर्मणः निःस्वार्थभावेन पालनम् एव कर्मयोगस्य आरम्भः ।

कर्मयोगिसाधकाः द्विधा भवन्ति । प्रथमप्रकारकेषु कर्मयोगिषु कर्मणि आसक्तिः, रुचिः तु भवति, परन्तु कल्याणार्थं कर्मकरणभावना मुख्या भवति । तादृशेभ्यः साधकेभ्यः नवीनानां कर्मणाम् आरम्भस्य आवश्यकता न भवति । तस्य कृते तु केवलं प्राप्तपरिस्थितेः सदुपयोगस्य एव आवश्यकता भवति । द्वितीयप्रकारकेषु साधकेषु कल्याणस्य इच्छा प्रमुखा नास्ति । तेषां समाजपरिष्कारे, समाजसेवायां च अधिका रुचिः भवति । अतः तेषां मनसि भवति यद्, अमुके कर्मणि कृते सति समाजस्य अधिकाधिकसेवा भवितुम् अर्हति इत्यादि । एतादृशाः साधकाः यदि नवीनानां कर्मणाम् आरम्भं कुर्युः, तर्हि तत्र न कापि हानिः । परन्तु नवीनकर्मणाम् आरम्भः कर्मासक्तेः मुक्त्यै एव भवेत् । गीताशास्त्रे भगवान् अर्जुनं प्राप्तपरिस्थितेः सदुपयोगं कर्तुम् एव कथयति । यतो हि तस्य कल्याणस्य इच्छा प्रमुखा आसीत् [५] [६]

'स विशिष्यते' – यः स्वस्य स्वार्थं त्यक्त्वा केवलं प्राणिनां हिताय कर्म करोति, सः श्रेष्ठः अस्ति । यतो हि तस्य सर्वाः क्रियायाः संसारं प्रति गच्छन्ति । अतः तासां प्रति स्वतः एव अनासक्तिभावः उद्भवति । यदा साधकस्य मनसि स्वकल्याणस्य विचारः भवति, तदा सः कर्म विघ्नत्वेन स्वीकृत्य तस्मात् उपरामो भवितुम् इच्छति । वस्तुतः कर्मणि कृते कोऽपि दोषः न भवति । परन्तु कर्मणि कामभावना एव दोषः । अतः भगवान् कथयति यद्, बाह्येन्द्रियेषु संयमे कृते मनसि विषयानां चिन्तनं मिथ्याचारः इति । अतः मिथ्याचारिपुरुषात् आसक्तिरहितेन अन्येभ्यः कर्मकर्ता पुरुषः श्रेष्ठः इति । ततोधिकं मिथ्याचारिपुरुषात् सकामभावनया कर्मकर्ता पुरुषः अपि श्रेष्ठः अस्ति । तर्हि अन्येषां हिताय कर्मकर्तुः पुरुषस्य श्रेष्ठायाः विषये तु किं वक्तव्यम् ? अग्रे पञ्चमाध्याये यदा अर्जुनः भगवन्तं प्रक्ष्यति यद्, संन्यासकर्मयोः कः योगः श्रेष्ठः इति, तदा भगवान् उभयोः कल्याणत्वम् उक्त्वा कर्मंसन्न्यास्य अपेक्षया कर्मयोगः श्रेष्ठः इति वदिष्यति । अत्रापि तमेव आशयं स्वीकृत्य स्वार्थत्यागोत्तरम् अन्यस्य हिताय कर्मकर्ता एव कर्मयोगी श्रेष्ठः इति वदति ।

शाङ्करभाष्यम्[सम्पादयतु]

यस्त्विति । यस्तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभतॆ अर्जुन, कर्मेन्दियैः वाक्पाण्यादिभिः । किमारभत् इत्याह कर्मयोगमसक्तः सन् फलाभिसन्धिवर्जितः सः विशिष्यतॆ इतरस्मात् मिथ्याचारात् ॥७॥


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
कर्मेन्द्रियाणि संयम्य...
यस्त्विन्द्रियाणि मनसा... अग्रिमः
नियतं कुरु कर्म त्वं...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्, गीता, अ. १२, श्लो. ११
  2. गाती, अ. ५, श्लो. ११
  3. गीता, अ. ५, श्लो. ६
  4. गीता, अ. १५, श्लो. ११
  5. गीता, अ. २, श्लो. ७
  6. गीता, अ. ५, श्लो. १

अधिकवाचनाय[सम्पादयतु]