सामग्री पर जाएँ

यदि ह्यहं न वर्तेयं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यदि ह्यहं न वर्तेयं...


ईश्वरस्य अकर्मणा का हानिः ?
श्लोकसङ्ख्या ३/२३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः न मे पार्थास्ति कर्तव्यं...
अग्रिमश्लोकः उत्सीदेयुरिमे लोका...

यदि ह्यहं न वर्तेयम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वस्य अकर्मणः हानिं वदति । पूर्वस्मिन् श्लोके भगवान् स्वस्य कर्मरतायाः कारणेन कः लाभः इति उक्त्वा अत्र स्वस्य अकर्मण्यतायाः कारणेन के दोषाः समुद्भवितुम् अर्हन्ति इति कथयति । सः उपस्थापयति यद्, किञ्च (अग्रिमेन श्लोकेन सह सम्बन्धः अस्ति) हे पार्थ ! यदि कदाचित् अहं सावधानतया कर्मसु युक्तः न भवामि, तर्हि महती हानिः भविष्यति । यतो हि मनुष्याः तु ममाश्रितं मार्गम् एव अनुसरन्ति इति ।

श्लोकः

[सम्पादयतु]
गीतोपदेशः
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

पदच्छेदः

[सम्पादयतु]

यदि हि अहं न वर्तेयं जातु कर्मणि अतन्द्रितः मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

अन्वयः

[सम्पादयतु]

पार्थ ! यदि अहं कर्मणि जातु अतन्द्रितः न वर्तेयम् । (तर्हि) सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते ।

शब्दार्थः

[सम्पादयतु]
अन्वयः सरलसंस्कृतम्
यदि चेत्
अहम् अहम्
जातु कदापि
कर्मणि कर्तव्ये
अतन्द्रितः अप्रमत्तः (जागरूकः)
न वर्तेयम् न भवेयम्
तर्हि तस्मिन् पक्षे
सर्वशः सर्वे
मनुष्याः मानवाः
मम मे
वर्त्म मार्गम्
अनुवर्तन्ते अनुसरन्ति ।

व्याकरणम्

[सम्पादयतु]

सन्धिः

[सम्पादयतु]
  1. ह्यहम् = हि + अहम् – यण्सन्धिः
  2. कर्मण्यतन्द्रितः = कर्मणि + अतन्द्रितः – यण्सन्धिः
  3. वर्त्मानुवर्तन्ते = वर्त्म + अनुवर्तन्ते - सवर्णदीर्घसन्धिः
  1. अतन्द्रितः = न तन्द्रितः - नञ्तत्पुरुषः

कृदन्तः

[सम्पादयतु]
  1. तन्द्रितः = तन्द्रा + इतच् (तन्द्रा जाड्यम् अस्य सञ्जाता)

तद्धितान्तः

[सम्पादयतु]
  1. सर्वशः = सर्व + शस् (स्वार्थे)

हे पार्थ ! यदि अहं कर्म न करोमि तर्हि सर्वेऽपि जनाः मम मार्गमेव अनुसरेयुः । एतेन महती हानिः सम्भवति ।

भावार्थः

[सम्पादयतु]

'यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः' – पूर्वस्मिन् श्लोके उपयुक्तानां 'वर्त एव च कर्मणि' इत्येतेषां पदानां पुष्ट्यै अत्र 'हि' इत्यस्य पदस्य उपयोगः । तेन भगवान् वदति यद्, अहं सावधानो भूत्वा कर्म न करोमि इति तु असम्भवम् एव । तथापि 'यदि अहं तथा न करोमि इति मन्यामः' इत्यस्य अर्थस्य कृते एव अत्र 'यदि जातु' इत्यस्य पदस्य उपयोगः । 'अतन्द्रितः' इत्यस्य पदस्य तात्पर्यं भवति यद्, कर्तव्यकर्मणि आलस्यम्, प्रमादश्च न कर्तव्यः । प्रत्युत कर्तव्यकर्माणि सावधानतया करणीयानि । यः मनुष्यः तथा न करोति, सः स्वस्य जीवनं नाशयति । कर्तव्यकर्मणि तत्परता एव कर्मभ्यः सम्बन्धविच्छेदं कारयति । अत एव एकोनविंशे श्लोके 'समाचर' इत्यस्य पदस्य उपयोगः कृतः, तथा च श्लोकेऽस्मिन् 'अतन्द्रितः' इत्यस्य पदस्य । यदि कस्यचित् कर्मणः पौनःपुन्येन स्मरणं भवति, तर्हि बोध्यं यद्, तस्य कर्मणः क्रियान्वये काचित् त्रुटिः अस्ति इति । त्रुटिः इत्युक्ते कामना, आसक्तिः, अपूर्णता, आलस्यम्, उपेक्षा इत्यादयः । तस्याः त्रुटेः कारणेन कर्मणः सम्बन्धविच्छेदः भवति । कर्मभ्यः सम्बन्धस्य विच्छेदाभावदेव कृतानि कर्माणि पौनःपुन्येन स्मर्यन्ते ।

'मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः' – एतैः पदैः भगवान् कथयति यद्, मम मार्गानुसरणं कर्तारः एव वस्तुतः मनुष्याः भवन्तीति । ये मे आदर्शत्वेन अनुसरणम् अकृत्वा प्रमादवशाः, अलसाः सन्ति, ते आकृत्या तु मनुष्याः सन्ति, परन्तु वस्तुतः मनुष्ययोग्याः न इति । एतस्य अध्यायस्य एकविंशे श्लोके एव भगवान् अवदत् यद्, श्रेष्ठपुरुषाणाम् आचरण-प्रमाणानुसारुं जनसामान्याः तेषाम् अनुसरणं कुर्वन्ति इति । अत्र श्लोकेऽस्मिन् भगवान् मनुष्यसामान्यस्य कृते स्वमार्गानुसरणं सङ्केतयति । तात्पर्यं भवति यद्, ते श्रेष्ठाः पुरुषाः तु एकस्य लोकस्य कृते एव आदर्शभूताः भवन्ति, परन्तु अहं त्रिभ्यः लोकेभ्यः आदर्शोऽस्मीति ।

शाङ्करभाष्यम्

[सम्पादयतु]

यदि हि पुनरहं न वर्तेयं जातु कदाचित्कर्मण्यतन्द्रितोऽनलसः सन् मम श्रेष्ठस्य सतो वर्त्म मार्गमनुवर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः।।23।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
न मे पार्थास्ति कर्तव्यं...
यदि ह्यहं न वर्तेयं... अग्रिमः
उत्सीदेयुरिमे लोका...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]

अधिकवाचनाय

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=यदि_ह्यहं_न_वर्तेयं...&oldid=403568" इत्यस्माद् प्रतिप्राप्तम्