सामग्री पर जाएँ

कर्णाटकस्य आदिवासिनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोरग जनाङ्गः
कर्णाटकस्य आदिवासिनः
कर्णाटकस्य आदिवासिनः

कर्णाटकस्य आदिवासिनः

[सम्पादयतु]

पीठिका

[सम्पादयतु]

कर्णाटकराज्यस्य सांस्कृतिकविस्मयेषु आदिवासिनः अपि अन्तर्भवन्ति । अत्र ५० अपेक्षया अधिकानि आदिवासिजनाङ्गानि सन्ति । समाजविज्ञानिनः यैः लक्षणैः ‘आदिवासिनां’ विषये विवरणं वदन्ति, तैः लक्षणैः सह एतेषां तुलना कर्तुं न शक्या एव । नगरे, ग्रामे च वासं कुर्वतः जनान् विहाय, सागरमध्ये द्वीपेषु, शैलपर्वतेषु, वनेषु, मरुभूमिप्रदेशेषु, इतरजनेभ्यः दूरे, पृथग्रूपेण वासं कुर्वन्तं , प्रत्येकसंस्कृतेः जनानां समाजं ‘आदिवासिनः’ इति निर्दिष्टवन्तः सन्ति । एतेषु समाजेषु रक्तसम्बन्धः बहुप्रमुखः भवति । व्यक्ति-व्यक्तिषु परस्परं सम्बन्धः गाढः भवति । सांस्कृतिकदृष्ट्या एतेषु अत्यन्तदृढाः नियमाः सन्ति । बाह्यजनान् सर्वदा सन्देहदृष्ट्या एव पश्यन्ति । एतस्य सामाजिकवर्गस्य संस्कृतिः, नगरस्य, ग्रामस्य च संस्कृतेः अपेक्षया नितरां भिन्ना भवति । एतेषां जनानां भाषा, जीवनक्रमः च विशिष्टः अस्ति ” । एवम् आदिवासिजनानां लक्षणानि स्थूलतया वक्तुं शक्यन्ते ।

भारतदेशः इव विशालस्य, सङ्कीर्णभौगोलिकरचनायाः, बहुसंस्कृतेः, बहुविधजातीनां, बहुभाषाणां सङ्गमस्य एतस्मिन देशे उपर्युक्तस्थितेः आदिवासिनाम् अभिज्ञानम् कष्टकरम् । कतिचन आदिवासिजनाङ्गानां स्वकीया भाषा अस्ति । किन्तु सर्वेषां तथा नास्ति इत्यपि ज्ञातव्यम् । सरलतया वदामः चेत् ‘जातिः’ भारतीयानां जीवने महत्त्वस्य पात्रं वहति । सर्वेषु कार्येषु जातेः व्यवस्था दृश्यते । धर्मे, सम्प्रदाये, आचरणे, भाषायाम् चापि ‘जातिः’ दृश्यते । सर्वाणि कार्याणि जातिव्यवस्थातः निर्धारितानि सन्ति । कस्यचित् व्यक्तेः नाम, वंशः, वधूवराणां चयनमपि जात्या एव निर्धरितं भवति । भारते जातेः उगमाय आर्याः कारणाः इति कल्पितमस्ति । कालक्रमेण मूलवर्णव्यवस्थायां भागाः अभवन् । एते विभागाः, उपविभागाः एव कालानन्तरे जातिः, उपजातिः इव परिवर्तनं प्राप्तवन्तः । जातिपद्धतिः समग्रभारतीयानां वैयक्तिकजीवने, सामाजिकजीवने, सांस्कृतिकजीवने च तेषां कार्याणि क्रमबद्धं कृत्वा निर्देशनं, नियन्त्रणं च करोति । एवं जातिपद्धतिः अद्य काचित् प्रमुखव्यवस्था इव वर्धिता अस्ति ।

भारते ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः च इत्येवं वर्णव्यवस्था अस्ति । एतान् विहाय अवशिष्टान् सामाजिकवर्गान् आदिवासिनः इति वा गिरिजनः इति वा आह्वयन्ति । एते इतरजातिजनैः सह न मिलन्ति स्म । बहुकालपर्यन्तं स्वतन्त्रतया वनेषु, पर्वतेषु च निवासं कुर्वन्तः आसन् । हिन्दूधर्मस्य प्रभावतः दूरे आसन् इति कारणतः हिन्दूधर्मस्य अंशाः सन्ति चेदपि एतेषाम् एव विशिष्टसंस्कृतेः आरम्भः अभवत् । आदिवासिजनाङ्गस्य जनाः जनन- मरण- विवाहः एवं त्रिषु सन्दर्भेषु अपि ब्राह्मणपुरोहितशाहिवर्गाय अवसरम् अदत्वा स्वतन्त्रतया निर्वहणं कुर्वन्ति । यावत् पर्यन्तम् एषा परिस्थितिः अनुवर्तते तावत् पर्यन्तं आदिवासिजनाङ्गं स्वस्य मूलस्वरूपं रक्षयितुं शक्नोति । उपर्युक्तान् सर्वान् विचारान् परिशीलयामः चेत् एते अंशाः ज्ञायन्ते यद् शिष्टसमाजेभ्यः दूरं स्थित्वा अपि तेषां अपेक्षया विभिन्नं जीवनक्रमं रूपयित्वा, स्वेषामेव विशिष्टानि सांस्कृतिकमौल्यानि अद्यपर्यन्तं रक्षयन्तः पोषयन्तः सन्ति । तादृशं निर्दिष्टं गणं ‘आदिवासिनः’ इति आह्वातुं शक्नुमः । नगरस्य संस्कृतेः प्रभावात् दूरे वनेषु, पर्वतप्रदेशेषु, द्वीपेषु निवसन्तः स्वेषामेव आचारं, विचारं, भाषां, दैवं, मूलपुरुषं, विश्वासं, वस्त्रं, मन्त्र-तन्त्रं, आहारं, पानीयं, निर्दिष्टसामाजिकनियमं रचयित्वा एते जीवन्तः सन्ति ।

आदिवासिनः व्यवस्थिततया कुत्रचित् तिष्ठन्तः जीवनं न कुर्वन्ति । वनेषु स्वतन्त्रतया विहरन्तः, तत्र लभ्यमानं फलं, कन्दं, मूलं, पर्णं, मधु इत्यादि वनोत्पन्नानि, मृगयया प्राप्तान् प्राणिनः च खादन्ति । स्थानान्तरव्यवसायस्य पद्धतिम् अधिकतया अनुसरन्ति । स्वेषां देवस्य आराधनार्थं गानं, नृत्यं कुर्वन्तः, नायकस्य आज्ञाः पालयन्तः, विशिष्टं वस्त्रं धरन्तः, पृथक्कलायाः सृष्टिं कुर्वन्तः, परस्परेण साहाय्येन जीवनं कुर्वन्तः सन्ति । एतेषाम् अपराधार्थं विशिष्टाः दण्डाः अपि भवति । विशेषन्यायपद्धतिं अनुसरन्ति एते । नागरिकतायाः भिन्नजीवनस्य स्थितिं सांस्कृतिकमानवशास्त्रस्य विधानेन अभ्यासकरणस्य क्रमः पाश्चात्येषु गतशतकतः आरब्धम् अस्ति । मेलिनोव्स्कि, र्याड् क्लिप् ब्रौन्, रूत्बेनेडिक्ट्, मार्गरेट् मीड् इत्यादयः विद्वांसाः एतस्मिन् विषये महत्संशोधनं कृत्वा नूतनविचारान् प्रकटितवन्तः सन्ति । एतेषां सांस्कृतिकभिन्नतायाः प्राकृतिकान्, सामाजिकान्, मानसिकान् कारणान् अन्विष्ट्वन्तः सन्ति । भारते एतदृशम् अध्ययनं कदा आरब्धम् इति निश्चितरूपेण वक्तुं न शक्यते चेदपि गतशतक्स्य आरम्भे एव विद्वांसः आदिवासिनां विषये आसक्तिं दर्शितवन्तः सन्ति इति दृश्यते। एतस्य अध्ययनस्य आसक्त्याः मूलप्रेरणा एतेषां प्रगतेः अपेक्षया तेषां विशिष्टसांस्कृतिकविषये कुतूहलमेव इति भाति । सर्. हर्बर्ट् रिस्ले पूर्णभारते प्रत्येकराज्यस्य आदिवासिनां, जातेः जनसङ्ख्यायाः, वसतिस्थानस्य च इतिवृत्तं कृतवान् अस्ति । एतावदेव न, तेषां सम्प्रदायानाम् अध्ययनं कृत्वा बृहत्सम्पुटद्वारा प्रकटितवान् अस्ति । एतानि पुस्तकानि प्रमुखतया परिशीलनसामग्री इव, शासनकार्यालयस्य उपयोगाय, समाजविज्ञानिभ्यः च उपयुक्तानि सन्ति । क्रि.श.१९०३ तमे वर्षे मैसूरुराज्ये हेच्.वि.नञ्जुण्डय्यस्य मार्गदर्शने तदानीन्तनस्य मैसूरु-आदिवासिनः विषये मानवशास्त्रीया समीक्षा आरब्धा । सप्तदशवर्षाणि यावत् एषा समीक्षा प्रचलिता । तस्मिन् समये ते ३४ सम्पुटान् बहिः आनीतवन्तः । अनन्तरं मैसूरुसंस्थानस्य ओडेयर शासकानां नेतृत्वे एतेषां कार्याणां प्रोत्साहः प्राप्तः । अनन्तरम् एल्.के. अनन्तकृष्ण अय्यर् एतत् क्षेत्रं प्रविश्य सङ्गृहीतं सर्वं परिशील्य, परिष्कृत्य दशवर्षाणां परिश्रमेण `The Mysore Tribes and Castes’ इति नाम्ना चत्वारि सम्पुटान् रचितवान् । एतेन सह ‘अपराधी आदिवासी’ इत्येव सूचितस्य कस्यचित् आदिवासिनः गणस्य अध्ययनमपि कृतमस्ति । एतेषु सम्पुटेषु एतेषां जनसङ्ख्या, जातिः, वासस्थानं, सम्प्रदायः च सूचितः अस्ति ।

भारतसर्वकारस्य संविधानस्य ३४२ तमस्य अनुच्छेदस्य अनुगुणम् आदिवासिनाम् आवली तदा तदा परिष्कृता भवति । तदनुगुणं कर्णाटके प्रधानतया दृश्यमानानाम् आदिवासिनाम् आवली एवम् अस्ति ।

ए.ए.डि.लूयिस् Tribes of Mysore’ कृतिम् लिखित्वा मैसूरुराज्यस्य २७ आदिवासिजनाङ्गानां विषये विवृतवान् अस्ति ।

न केवलं तावत् एड्गर् थर्स् टन् , रङ्गाचारिः च ‘Castes and Tribes of Southern India’ नामकस्य ७ सम्पुटानां ग्रन्थं प्रकटय्य आदिवासिनां जातेः विवरणानि दत्तवन्तौ स्तः । गुस्तार् ओपर्ट् स्वस्य ‘Original Inhabitants of India’ इत्यस्मिन् ग्रन्थे अनेकेषाम् आदिवासिजनाङ्गानां विवरणां दत्तवान् अस्ति । एषु दिनेषु कर्णाटकराज्यस्य अन्यान्यविश्वविद्यालयाः, स्वायत्तसङ्घसंस्थाः आदिवासिनाम् अध्ययने, संशोधने च आसक्तिं दर्शयन्तः सन्ति इति कारणेन तादृशविषयिक्यः कृतयः कन्नडेन प्रकटिताः भवन्तः सन्ति इति आनन्दस्य विषयः । एं.फिल्., पि.एच्.डि. पदविनिमित्तं च आदिवासिनां विषयस्य चयनं कृत्वा क्षेत्रकार्यं कृत्वा संशोधनस्य महाप्रबन्धरचनाप्रवृत्तिः अधिका जायमाना अस्ति । एतादृशानाम् अध्ययनानां मुख्यप्रेरणादातुः वेरियर् एल्विनस्य नाम अविस्मरणीयम् अस्ति ।

आदिवासिनां विषयस्य अध्ययनं न तथा सुलभकार्यम् । अन्यसंस्कृतेः अध्ययनं नाम महासाहसमेव । यतः अन्येषां केषाञ्चित् आदिवासिनां सांस्कृतिकविचारान् क्षेत्रकार्यद्वारा यदा सङ्गृहन्ति, तदा ते जागरूकतया स्वसमाजस्य संस्कृतेः रहस्यं न प्रकाशयन्ति । एतया दृष्ट्या कदाचित् एतादृशम् अध्ययनम् असमर्पकम् इति भासते । आदिवासिसंशोधकेभ्यः प्रमुखतया जातिभेदः भाषासमस्या अपरिचितमनोभावः च समस्यारूपेण भवन्ति इति तु सामान्य विषयः । एताः सर्वाः समस्याः परिहृत्य यदा अध्ययने स्तिरतया तिष्ठति तदा एव समग्रम् अद्ययनं कर्तुं शक्यते । केषाञ्चित् आदिवासिनाम् अध्ययनस्य मूलोद्देशः “आदिवासिसंस्कृतेः मूलस्वरूपस्य ज्ञानम् । अतः एतादृशेन अध्ययनेन तेषां वासस्थानस्य, प्रदेशस्य, परम्परायाः, इतिहासस्य, आन्तरिकसमाजरचनायाः, कलायाः, वृत्तेः कुटुम्बव्यवस्थायाः, सामाजिकस्थानमानयोः, जन्म-विवाह-मरणानाम्, आचार-विचाराणां, वेषभूषाणां, आहारस्य, पानीयस्य च परिशीलनं करणीयं भवति । एतया दृष्ट्या सामाजिकवर्गेभ्यः पृथग्रूपेण स्थिताः अनेके आदिवासिजनाङ्गाः सन्ति । एतेषां सांस्कृतिकाध्ययनं बहुविस्तृतम् अस्ति । विषयस्य यावत् अन्तःप्रवेशः भवति तावत् गहनं जायमानं भवति । अस्य सीमा एव नास्ति ।

वैविध्यमयाः आदिवासिजनाङ्गाः

[सम्पादयतु]

कर्णाटकं भारतस्य नवमं बृहत् राज्यम् । एतस्य भूविस्तीर्णता १,९१.७९१ व.कि.मी., जनसंङ्ख्या ५,२७,३३,९५८ । शासनोद्देशेन राज्यं बेङ्गळूरु, बेळगावी, गुल्बर्गा, मैसूरु च इति चतुर्धा विभक्तम् अस्ति ।एतेषु विभागेषु २७ मण्डलानाम् अन्तर्भावः कृतः अस्ति । एतेषु मण्डलेषु आहत्य १७५ उपमण्डलानि सन्ति । राज्यस्य राजधानी अस्ति ‘बेङ्गळूरु’ । आहत्य २७,०६६ ग्रामेषु जनवसतिः अस्ति । जनवसतिरहितग्रामाणां सङ्ख्या २,१२७ (२००१ तमस्य वर्षस्य जनगणनाधारेण) । राज्ये राज्यस्य जनसङ्ख्यायाः ४.९१ % (१९८१वर्षस्य गणनानुसारम् ), ४.२६ % (१९९१वर्षस्य गणनानुसारम् ) च आदिवासिनः सन्ति । कर्णाटकस्य घोषितेषु आदिवासिजनाङ्गेषु केचन सञ्चारशीलाः(तदा तदा वासस्थानं परिवर्तयन्ति) केचन सामिसञ्चारशीलाः अन्ये केचन कृषिं वा, पशुपालनं वा, मृगयां वा, भ्रूत्यं वा अवलम्ब्य स्थिताः सन्ति । मृगयामूलस्य, पशुपालनामूलस्य जनाङ्गाः अटनशीलाः आसन् । राजगोण्डजनाङ्गे, हक्किपिक्किजनाङ्गे जीवनाय अद्यापि अटनमेव कुर्वन्ति । राजगोण्डाः ग्रामवैद्यवाणिज्यस्य निमित्तम् आन्ध्रप्रदेशं, गोवां, तमिळ्नाडुराज्यं, महाराष्ट्रं च गच्छन्ति । शताधिकवर्षेभ्यः पूर्वं केचन आदिवासिनः मृगयां, आहारसङ्ग्रहणं च कुर्वन्ति स्म । काडुकुरुबनामकाः, जेनुकुरुबनामकाः, सोलिगजानाङ्गीयाः चएतादृशं कार्यं कुर्वन्ति स्म । व्यवसायः आदिवासिजनाङ्गस्य सुभद्रस्थितेः कारणीभूतः । आरम्भे कुम्रिपद्ध्त्या, स्थलान्तरपद्धत्या च कृषिं कुर्वन्तः एते कालान्तरेण पारम्परिककृषिपद्धतिम् अनुसृतवन्तः । एषु दिनेषु अधिकांशानाम् आदिवासिजनाङ्गानां प्रधानव्यवसायः कृषिः अथवा कृषिक्षेत्रेषु कर्मकराः इव कार्यम् । अटनशीलान् विहाय अन्ये सर्वे आदिवासिनः कृषिम् अवलम्ब्य सन्ति । पशुपालनरताः प्रमुखजनाङ्गाः नाम – काडुकुरुबजनाङ्गः , जेनुकुरुबजनाङ्गः, इरुळजनाङ्गः, हसलजनाङ्गः, यरवजनाङ्गः। एते मेषपालनं, गोपालनं च अद्यापि कुर्वन्तः सन्ति । किन्तु संरक्षितगोचरप्रदेशानां न्यूनताकारणेन पशुपालनं न्यूनं जायमानम् अस्ति । अतः पशुपालनावलम्बिनः आदिवासिनः अनिवार्यतया अन्यानि कार्याणि कुर्वन्तः सन्ति । मृगयासम्बद्धाः नियमाः केषाञ्चन जनाङ्गानां अस्तित्वाय मारकाः इव अभवन् । क्रि.श. १९५९ तमस्य वर्षस्य कर्णाटकप्राणिबलीनां प्रतिबन्धकः अधिनियमः, १९६३तथा १९७८ तमस्य वर्षस्य च अरण्य-(परिष्कारः) अधिनियमः, १९७२ तमवर्षस्य वन्यजीविसंरक्षण- अधिनियमः, १९७६ तमवर्षस्य कर्णाटक-वृक्ष-संरक्षण-अधिनियमः, १९८७ तमवर्षस्य भारतसर्वकारस्य मत्स्योद्यमसम्बद्धः अधिनियमः इत्यादयः नियमाः मृगयां निषिध्य सस्यानां, प्राणिनां च रक्षणं कुर्वन्तः सन्ति । किन्तु मृगयया एव जीवनं कुर्वतां जनाङ्गानां स्थितिः शोचनीया अस्ति । अभिवृद्धेः नाम्ना अभयारण्यानां संरक्षणस्य, उद्यान-धाम- उद्यमानां जलबन्धकानां च निर्माणं प्रचलति । एताः योजनाः यत्र आदिवासिनः वसन्ति तत्रैव कार्यान्विताः भवन्तः सन्ति इति कारणेन तेषां जीवनं कष्टकरम् अस्ति ।

आदिवासिजनाङ्गेषु न्यायव्यवस्था

[सम्पादयतु]

यः परम्परायाः उल्लङ्घनं करोति तेन उग्रदण्डः अनुभोक्तव्यः आसीत् । नियमस्य उल्लङ्घनं करोति चेत् अपराधी इति मत्वा बहिष्कारं कुर्वन्ति स्म । एवम् निर्वासिताः अटनं कुर्वन्तः अपराधिजनाङ्गत्वेन परिवर्तिताः अभवन् । ब्रिटिष् सर्वकारः एतादृशान् अपराधिजनाङ्गान् अन्विष्य ‘अपराधि-आदिवासि- अधिनियमं’ १८७१ तमे वर्षे अरचयत् । एतेन सह अपराधि-आदिवासि- अधिनियमः(परिष्कृतः) (१८९७), अपराधि-आदिवासि अधिनियमः (१९११), अपराधि-आदिवासि-अधिनियमः(परिष्कृतः) (१९२३), अपराधि- आदिवासि-अधिनियमः (१९२४), अपराधि-आदिवासि-अधिनियमः (परिष्कृतः) (१९४७) च रचिताः अभवन् । एतेषु अधिनियमेषु बेडजनाङ्गः, पर्दिजनाङ्गः, इरुळजनाङ्गः, कुरुबजनाङ्गः, गोण्डजनाङ्गः इत्यादयः आदिवासिजनाङ्गाः अन्तर्भाविताः आसन् ।

आदिवासिजनानां लिङ्गानुपातः साक्षरता च

[सम्पादयतु]

कर्णाटके १९९१ तमवर्षस्य जनगणनानुगुणं ९,७६,७४४ पुरुषाः ९,३८,९४७ महिलाः आदिवासिजनाङ्गे सन्ति । एताः सङ्ख्याः परिशीलयामः चेत् प्रतिसहस्रपुरुषेभ्यः ९६१ महिलानां प्रमाणम् अस्ति । एतेन प्रमाणेन वृद्धिक्षयः भवति चेत् आदिवासिसमाजे समस्याः, आर्थिकाभिवृद्धौ च न्यूनताः भवन्ति । अतः महिलानां विषये आदिवासिभिः विशेषध्यानम् अनिवार्यतया दातव्यम् । १९९१ तमस्य वर्षस्य जनगणनानुसारं कर्णाटके आहत्य ३६.१ % साक्षराः सन्ति । रायचूरु मण्डलस्य आदिवासिमहिलासु ५.३९ % साक्षराः सन्ति । राज्ये बेङ्गलूरुनगरे अत्यधिकाः आदिवासिसाक्षराः तन्नाम ७१.६४ % पुरुषाः, ५१.५३% महिलाः च सन्ति । राज्यस्य अनेकेषु मण्डलेषु आदिवासिनां साक्षरता ४०% अपि नाभवत् ।

आदिवासिनां दैवतानि

[सम्पादयतु]

आदिवासिनः सामान्यतः सर्वचेतनवादिनः । किन्तु इदानीन्तनदिनेषु नगरप्रदेशस्य जनैः सह एतेषां मेलनं भवति इति कारणेन तत्रत्य धार्मिकाचरणानि अपि एतेषाम् उपरि तीव्रप्रभावं जनयन्तः सन्ति । प्राणिषु दैवत्वम् आरोपयन्तः सन्ति । उपयुक्ततायाः दृष्ट्या धेन्वाः मेषस्य सूर्यस्य चन्द्रस्य निम्बवृक्षस्य अश्वत्थवृक्षस्य च आराधनां कुर्वन्तः सन्ति । मारियम्म, एल्लम्म, सङ्कलम्म, भवानी इत्येताः देव्यः एतेषां जीवनस्य संस्कृतीकरणेन रूपिताः सन्ति ।

आदिवासिनां वंशमूलम् (बळि), तद्वैशिष्ट्यानि(बेडगु) च

[सम्पादयतु]

कर्णाटकस्य आदिवासिनां रक्तसम्बन्धस्य मूलतन्तुः एव बळिनाम्ना निर्दिश्यते । एतेन आदिवासिनां सांस्कृतिकेतिहासस्य ज्ञाने साहाय्यं भवति । एतेन आधारेण आदिवासिनां मूलस्य विषये शोधनं कर्तुं शक्यते । परिसरस्थाः प्राणिनः पक्षिणः सस्यानि, वृक्षाः पुष्पाणि लताः च आदिवासिनां वैशिष्ट्यानि (बेडगु) भवितुम् अर्हन्ति । एतानि रक्तसम्बन्धेन आचरणरूपेण आनुवंशिकतया च आगच्छन्ति । सामान्यतया समानबळिषु विवाहस्य निषेधःअस्ति ।

कर्णाटकस्य आदिवासिनाम् आवलिः

[सम्पादयतु]

आदिवासिसंस्कृतिः इदानीन्तनदिनेषु नश्यमाना अस्ति । तेषां सांस्कृतिकीम् अनन्यताम् अभिज्ञातुं प्रयत्नाः प्रचलन्तः सन्ति । व्यापकरूपेण वैज्ञानिकरीत्या क्षेत्रकार्याणां द्वारा आदिवासिनां समग्रम् अध्ययनं भवत् अस्ति । कर्णाटकस्य विविधानाम् आदिवासिजनाङ्गानां विषये इदानीमेव अनेके विद्वांसः अध्ययनं कृत्वा अनेकान् कुतुहलकरविचारान् प्रकटीकृतवन्तः सन्ति । येषाम् अध्ययनं कृतं तेषाम् आदिवासिजनाङ्गानाम् आवली एवम् अस्ति –

"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_आदिवासिनः&oldid=392543" इत्यस्माद् प्रतिप्राप्तम्