सामग्री पर जाएँ

तेलङ्गाणाराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तेलङ्गाणाराज्यं इत्यस्मात् पुनर्निर्दिष्टम्)
तेलङ्गाणा
తెల౦గాణ
تلنگانہ
—  राज्यम्  —

तेलङ्गाणाराज्यस्य मुद्रिका
भारते तेलङ्गाणाराज्यस्य अवस्थानम् (लोहितवर्णेन) राज्यस्य स्थानम्
भारते तेलङ्गाणाराज्यस्य अवस्थानम् (लोहितवर्णेन)
Coordinates (हैदराबाद्): १७°२१′५८″उत्तरदिक् ७८°२८′३४″पूर्वदिक् / 17.366°उत्तरदिक् 78.476°पूर्वदिक् / १७.३६६; ७८.४७६
देशः भारतम्
प्रदेशः दक्षिणभारतम्, डेकन्
निर्मितम् २ जून् २०१४
राजधानी हैदराबाद्
वृहत्तमनगरम् हैदराबाद्
मण्डलानि १०
सर्वकारः
 • राज्यपालः इ एस् नरसिंहन्
 • मुख्यमन्त्री के चन्द्रशेखर् राव् (टी आर् एस्)
 • विधानसभा द्विदलीयव्यवस्था (११९ + ४० केन्द्राणि)
 • लोकसभकेन्द्राणि १७
 • उच्चन्यायालयः हैदराबाद्-उच्चन्यायालयः
विस्तीर्णता
 • संहतिः १,१४,८४० km
क्षेत्रविस्तारः १२ तमम्
जनसङ्ख्या (२०११)[]
 • संहतिः ३,५१,९३,९७८
 • रैङ्क् १२ तमम्
प्रादेशिकजनाः तेलुगु
भारतीयसमयवलयः (UTC+०५:३०)
ऐ एस् ओ ३१६६ कोड् IN-xx (न निश्चितम्)
वहानपञ्जीकरणपत्रम् TS[]
एच् डि ऐ
आधिकारिकभाषा तेलुगु, ऊर्दू
जालस्थानम् telangana.gov.in
^† आन्ध्रप्रदेशराज्येन सह युग्मराजधानी


तेलङ्गाणाराज्यं Listeni/ˌtɛlənˈɡɑːnə/ दक्षिणभारतस्य एकं राज्यमस्ति । १९४७ तमसंवत्सरं पर्यन्तं प्रदेशोऽयं निजाम्-राज्ञा शासितस्य हैदराबाद्-राज्यस्य अंशः आसीत् । स्वाधीनभारते अन्तर्भुक्तिकरणस्य अनन्तरमपि तेलङ्गाणा हैदराबाद्-राज्यस्य एव प्रदेशः आसीत् । १९५६ तमे वर्षे हैदराबाद्-राज्यस्य विलोपं संसाध्य आन्ध्रप्रदेशस्य संरचना अभूत् । २०१४ तमवर्षस्य द्वितीये दिनाङ्के आन्ध्रप्रदेश-पुनर्निर्मानविधि-अनुगुणं आन्ध्रप्रदेशस्य उत्तर-पश्चिमदिशि दशमण्डलानि स्वीकृत्य तेलङ्गाणारज्यस्य संरचना अभवत्[]हैदराबाद्-नगरं तलङ्गाणा- आन्ध्रप्रदेशराज्ययोः यौथराजधानीरूपेण अग्रिमदशवर्षाणि स्थास्यति[]

तेलङ्गाणाराज्यस्य उत्तरपश्चिमदिशि महाराष्ट्रराज्यं, पश्चिमे कर्णाटकराज्यम्, उत्तरपूर्वे छत्तीसगढराज्यम् एवञ्च दक्षिण तथा पूर्वदिशि आन्ध्रप्रदेशराज्यं विद्यते । अस्य राज्यस्य आयतनं १,१४,८४० वर्ग किलोमीटर (४४,३४० वर्ग मील) तथा जनसङ्ख्या ३५,२८६,७५७ (२०११ जनगणनानुसारम्[]

नाम्नः व्युत्पत्तिः

[सम्पादयतु]

एवं मनुते यत्, "तेलङ्गाणा" नाम इदं "तेलुगु"शब्दात् आगतम् इति । एतेन पदेन तेलुगुभाषी-जनैः[] अध्युषितः प्रदेशः इति बोध्यते । अपरपक्षस्य मतानुयायी "त्रिलिङ्गदेशः" इत्यऽयं शब्दः "तेलङ्गाणा" पदस्य मूलः । अस्य अयमर्थः भवति- त्रिलिङ्गविशिष्टः देशः । प्रचलितहिन्दुकथानुसारं शिवः लिङ्गरूपेण कालेश्वरम्, श्रीशैलम्, तथा द्राक्षरामपर्वते आविर्भूतः आसीत् । एताः पर्वतश्रेण्यः अस्य देशस्य सीमारूपेण स्थिताः आसन् । शब्दविस्तारः यथा-

त्रिलिङ्ग > थेलिङ्ग > तेलुङ्गा > तेलुगु [][]

मालिक मकबुल महोदस्य अपरनामरूपेण "तेलङ्गाणा" इति शब्दस्य प्रयोगऽपि अन्यतमः ।"तिलङ्गानि" इति तस्य उपाधिः आसीत्[]

इतिहासः

[सम्पादयतु]

प्राचीनयुगः

[सम्पादयतु]
सातवाहनसाम्राज्यस्य मूलप्रदेशः आसीत् करीमनगरमण्डलस्य कोटिलिङ्गलप्रदेशः ।

प्राचीनकाले करीमनगरस्य कोटिलिङ्गलप्रदेशः षोडशजनपदस्य अस्मकजनपदस्य राजधानी आसीत् । अस्मिन् प्रदेशे प्राक्-सातवाहनसाम्राज्यस्य मुद्राः प्राप्ताः । सातवाहनराजवंशस्य प्रतिष्ठाता चिमुख् तथा तदोत्तराकालीनां राज्ञानां ताम्रमुद्राः अपि उत्खनिताः ।[१०]

सातवाहनराजवंशः (क्रैस्तपूर्वं २३० अब्दः - २२० क्रैस्ताब्दः) अस्य प्रदेशस्य प्रधानशक्तिरासीत् । अस्य राजवंशस्य उत्पत्तिः आसीत् गोदावरी-कृष्णा नद्योः मध्यवर्तिभूभागे ।[११] सातवाहनसाम्राज्यस्य अनन्तरं वाकाटक्, विष्णुकुण्डिना, चालुक्य, राष्ट्रकूट प्रभृतयः राजवंशाः अत्र शासनं कृतवन्तः ।[१२]

वीक्षणीयस्थलानि

तेलङ्गाना-राज्यस्य पर्यटनस्थालानि जनान् आकर्षन्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । हैदराबाद-नगरस्य “चार मीनार”, “थए पापी हिल्”, कुन्तला-जलप्रपातः इत्यादीनि आकर्षणकेन्द्राणि सन्ति । राज्येऽस्मिन् मन्दिराणि अपि बहूनि सन्ति । “भद्राचलम”, “सहस्त्रस्तम्भानां मन्दिरं”, “श्री राजा राजेश्वरा स्वामी मन्दिरम्” इत्यादीनि प्रमुखाणि मन्दिराणि सन्ति । आवर्षं बहवः पर्यटकाः भ्रमणार्थं तेलङ्गाना-राज्यं गच्छन्ति ।

हैदराबाद

[सम्पादयतु]

हैदराबाद-नगरं तेलङ्गाना-राज्यस्य हैदराबाद-मण्डलस्य मुख्यालयः अस्ति । अस्य नगरस्य राजधानी अपि हैदराबाद-नगरम् एव अस्ति । इदं स्थलं सम्पूर्णे भारते विश्वस्मिन् च बहुचर्चितम् अस्ति । नगरमिदं मूसी-नद्याः तटे स्थितम् अस्ति । ई. स. १५९१ तमे वर्षे “मोहम्मद कुली कुतुब शाह” इत्याख्येन कुतुबशाही-वंशस्य शासकेन अस्य नगरस्य स्थापना कृता । भागमती-इत्याख्या एक नर्तकी आसीत् । राजा अस्यां नर्तक्यां स्निहति स्म । अतः राज्ञा “भागमती” इत्यस्याः नाम्ना अस्य नगरस्य नाम भाग्यनगरम् इति कृतम् आसीत् । यदा भागमत्या इस्लामधर्मः आचरितः, तदा राज्ञा तया सह विवाहः कृतः । तदनन्तरं भागमत्याः नामान्तरणं “हैदर महल” इत्यभवत् । अनेन कारणेन अस्य नगरस्य नाम “हैदराबाद” इति कृतम् । कुतुबशाह-वंशजैः हैदराबाद-नगरे शतवर्षाणि यावत् शासनं कृतम् आसीत् । यदा “औरङ्गजेब” इत्याख्येन मुगल-शासकेन भारतस्य दक्षिणभागे आक्रमणं कृतं, तदा हैदराबाद-नगरे आधिपत्यं स्थापितम् । ई. स. १७२४ तमे वर्षे “आसिफ जाह प्रथम” इत्याख्येन जाहीवंशः स्थापितः । आसिफ-राजा हैदराबाद-नगरस्य निजाम-रूपेण स्थितः जातः । अनन्तरं हैदराबाद-नगरे, हैदराबाद-नगरस्य समीपस्थेषु स्थलेषु च स्वस्य आधिपत्यं स्थापितम् आसीत् । निजाम-शासकैः हैदराबाद-नगरे २०० वर्षाणि यावत् शासनं कृतम् आसीत् । ई. स. १७६९ तः १९४८ पर्यन्तम् इदं नगरं निजाम-शासकानां राजधानी आसीत् । निजाम-शासकैः आङ्ग्लैः सह सन्धिः कृतः । तेन कारणेन निजाम-शासकैः १९४८ पर्यन्तं शासनं कृतम् आसीत् । स्वतन्त्रताप्राप्त्यनन्तरम् “ऑपरेशन पोलो” इत्यस्यां योजनायां निजाम-शासकेन भारतीय-सङ्घेन सह सन्धिः कृतः । तस्मिन् समये हैदराबाद-नगरम् आन्ध्रप्रदेश-राज्यस्य राजधानी अभवत् । हैदराबाद-नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे संस्कृतिद्वयस्य मिश्रणम् अस्ति । यतः इदं नगरम् उत्तर-दक्षिणभारतयोः सीमायां स्थितम् अस्ति । इदं नगरम् आर्थिकदृष्ट्या, शैक्षणिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् नगरे बहवः यन्त्रागाराः, विश्वविद्यालयाः च सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः वृत्त्यर्थं हैदराबाद-नगरं गच्छन्ति । अस्य नगरस्य सांस्कृतिकी स्थितिः सुदृढा अस्ति । अतः एव अस्य नगरस्य विकासः जायमानः अस्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “चारमीनार”, “गोलकुण्डा-दुर्गः”, “सलार जङ्ग सङ्ग्रहालयः”, “हुसैन-सागर-तडागः” च इत्यादीनि अस्य नगरस्य प्रसिद्धानि पर्यटनस्थलानि सन्ति । हैदराबाद-नगरस्य वातावरणं शीतर्तौ अपि उष्णं भवति । अतः यदा तस्य वातावरणम् अनुकूलं भवेत्, तदा भ्रमणार्थं गन्तव्यम् । आन्ध्रप्रदेश-राज्यस्य भूमार्गपरिवहनं सुदृढम् अस्ति । हैदराबाद-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । नगरमिद, औद्योगिकं, शैक्षणिकं च केन्द्रम् अस्ति । अतः भारतस्य विभिन्नराज्येभ्यः, विदेशस्य विभिन्ननगरेभ्यः च जनाः हैदराबाद-नगरं गच्छन्ति । अस्मिन् नगरे तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः हैदराबाद-नगरं, हैदराबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्नुवन्ति । हैदराबाद-नगरे रेलस्थानकम् अस्ति । एतद् रेलस्थानकं भारतस्य विभिन्ननगरैः सम्बद्धम् अस्ति । दक्षिणरेलवे-विभागस्य मुख्यरेलस्थानकेषु इदम् अन्यतमम् अस्ति । हैदराबाद-रेलस्थानकात् बेङ्गळूरु-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । इदं विमानस्थानकं विदेशस्य, भारतस्य च विभिन्ननगरैः सम्बद्धम् अस्ति । ततः देहली-नगराय, कोलकाता-नगराय, बेङ्घळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण हैदराबाद-नगरं भूमार्गेण, धूमशकटमार्गेन, वायुमार्गेण च सरलतया प्राप्तुं शक्यते ।

पोचमपैल्ली

[सम्पादयतु]

पोचमपैल्ली-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितम् अस्ति । इदं नगरं जनेषु अत्यन्तं लोकप्रियम् अस्ति । इदं नगरं “भारतस्य कौशेयनगरत्वेन (Silk City of India)” ज्ञायते । यतः अस्मिन् नगरे कौशेयशाटिकानां निर्माणं क्रियते । अस्य नगरस्य कौशेयशाटिकाः सर्वोत्तमाः भवन्ति । वैदेशिकपर्यटकाः अपि शाटिकायाः निर्माणकलां ज्ञातुं प्रयासान् कुर्वन्ति । अस्य नगरस्य संस्कृतिः, परम्परा, इतिहासः, सौन्दर्यं च अपि श्रेष्ठम् अस्ति । अतः जनाः पोचनमैल्ली-नगरं प्रति आकृष्टाः भवन्ति । इदं नगरं परितः पर्वताः, तडागाः, मन्दिराणि च सन्ति । अस्य नगरस्य जनाः सर्वदा व्यस्ताः भवन्ति । तथापि ते पर्यटकानां सोत्साहेन स्वागतं कुर्वन्ति । ई. स. १९५१ तमे वर्षे “विनोबा भावे” इत्याख्येन अस्य नगरस्य भ्रमणं कृतम् । तस्मिन् समये नगरजनैः तस्य भव्यस्वागतं कृतम् आसीत् । तस्मिन् काले “वेद्रे रामचन्द्र रेड्डी” इत्याख्यः भूपतिः आसीत् । तेन अस्मै नगराय २५० एकडमिता भूमिः प्रदत्ता । तावदेव भूदान-आन्दोलनम् आरब्धम् । अतः तेन कारेणन इदं नगरं “भूदान पोचमपैल्ली” इति नाम्ना अपि ज्ञायते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, वर्षर्तौ च अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । जनाः तस्मिन् काले भ्रमणार्थं पोचमपैल्ली-नगरं गच्छन्ति । पोचमपैल्ली-नगरं १६३ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गयोः स्थितम् अस्ति । इमौ मार्गौ पोचमपैल्ली-नगरं हैदराबाद-नगरेण सह सञ्योजयतः । पोचमपैल्ली-नगरात् हैदराबाद-नगरं ४२ किलोमीटरमिते दूरे स्थितम् अस्ति । पोचमपैल्ली-नगरे तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य नगरस्य समीपस्थानि स्थलानि गन्तु शक्यन्ते । पोचमपैल्ली-नगरे रेलस्थानकं नास्ति । अतः बीबी-नगरस्य रेलस्थानकम् पोचमपैल्ली-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । पोचमपैल्ली-नगरात् बीबी-नगरं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । बीबीनगर-रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । बीबी-नगरात् पर्यटकाः बसयानैः, भाटकयानैः वा पोचमपैल्ली-नगरं प्राप्तुं शक्नुवन्ति । पोचमपैल्ली-नगरे विमानस्थानकम् अपि नास्ति । अतः हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं पोचमपैल्ली-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पोचनपैल्ली-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । बसयानैः, भाटकयानैः वा तस्मात् विमानस्थानकात् पोचमपैल्ली-नगरं गन्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च पोचमपैल्ली श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया पोचमपैल्ली-नगरं प्राप्तुं शक्नुवन्ति ।

आदिलाबाद

[सम्पादयतु]

आदिलाबाद-नगरं तेलङ्गाना-राज्यस्य आदिलाबाद-मण्डले स्थितम् अस्ति । नगरमिदम् आदिलाबाद-मण्डलस्य मुख्यालयः अस्ति । “मुहम्मद आदिल शाह” इत्याख्यस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । सः बीजापुरस्य शासकः आसीत् । अस्य नगरस्य इतिहासः महत्त्वपूर्णः अस्ति । पुरा अस्मिन् नगरे विभिन्नसंस्कृतीनां, धर्माणां च समावेशः आसीत् । नगरेऽस्मन् सप्तवाहन-वंशेन, वकाताका-वंशेन,राष्ट्रकूट-वंशेन, काकतीय-वंशेन, चालुक्य-वंशेन, बरार-वंशेन इत्यादिभिः दक्षिणभारतीयराजवंशैः शासनं कृतम् । अस्मिन् नगरे मौर्यराजवंशस्य, मुगल-राजवंशस्य इत्यादीनाम् उत्तरभारतीयराजवंशानाम् अपि शासनम् आसीत् । यतः इदं नगरं मध्य-दक्षिणभारतयोः सीमायां स्थितम् अस्ति । अतः अस्मिन् प्रदेशे उत्तर-दक्षिणभारतयोः शासकाः आक्रमणं कुर्वन्ति स्म । तेन कारणेन अस्य नगरस्य आधुनिकेतिहासे मराठी-तेलुगु-संस्कृत्योः मिश्रणम् अस्ति । नगरेऽस्मिन् गुजरातीसंस्कृतिः, बङ्गालीसंस्कृतिः, राजस्थानीसंस्कृतिः च अपि दृश्यते । इदं नगरं तेलङ्गाना-राज्यस्य महत्त्वपूर्णं वीक्षणीयस्थलं वर्तते । “कुन्तला-जलप्रपातः”, “सेण्ट् जोसेफ् कैथेड्रल्”, “कदम-जलबन्धः”, “सदर मट्ठ एनीकट”, “महात्मागान्धी-उद्यानं”, “बसरासरस्वती-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । औरङ्गजेब-राज्ञः शासनकाले इदं क्षेत्रं प्रमुखं व्यापारकेन्द्रम् आसीत् । आदिलाबाद-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्मिन् नगरे अत्यधिकम् औष्ण्यं भवति । किन्तु शैत्यं तु न्यूनम् एव भवति । जनाः शीतर्तौ इदं नगरं गच्छन्ति । यतः शीतर्तोः वातावरणं सुखदं, स्वास्थ्यकरं च भवति । आदिलाबाद-नगरं ७ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः आदिलाबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्नुवन्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । आदिलाबाद-रेलस्थानकात् नान्देड-नगराय, नेल्लोर-नगराय, विजयवाडा-नगराय, हैदराबाद-नगराय, पटना-नगराय, नागपुर-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । आदिलाबाद-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् आदिलाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । आदिलाबा-नगरात् इदं विमानस्थानकम् २८० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण आदिलाबाद-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः जनाः सरलतया आदिलाबाद-नगरस्य समीपस्थानि वीक्षणीयस्थलानि गन्तुं शक्नुवन्ति ।

वारङ्गल

[सम्पादयतु]

वारङ्गल-नगरं तेलङ्गाना-राज्यस्य वारङ्गल-मण्डलस्य मुख्यालयः अस्ति । १२ तः १४ शताब्दीपर्यन्तम् इदं नगरं ककातिया-शासकानां राजधानी आसीत् । वारङ्गल-नगरं तेलङ्गाना-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं नगरम् एकेन शैलेन निर्मितम् अस्ति । इदं स्थलं पुरा “ओरगूगौलू”, “ओम्टीकोण्डा” इति नाम्ना ज्ञायते स्म । नगरेऽस्मिन् वारङ्गल-दुर्गः भारते प्रसिद्धः अस्ति । इटली-नगरस्य “मारको पोलो” इत्याख्येन यात्रिकेण स्वस्य यात्रापुस्तिकायाम् अपि वारङ्गल-नगरस्य विषये लिखितम् अस्ति । अस्य नगरस्य विकासक्रमे ककातिया-वंशस्य प्रोला-राज्ञः योगदानम् आसीत् । सांस्कृतिकक्षेत्रे, प्रशासनिकक्षेत्रे च अस्य नगरस्य ख्यातिः विशिष्टा वर्तते । अस्य नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । नगरेऽस्मिन् तण्डुलाः, तमालः, रक्तमरिचं च उत्पाद्यन्ते । ई. स. १६८७ तमे वर्षे औरङ्गजेब-राज्ञा गोलकुण्डा-क्षेत्रे स्वस्य आधिपत्यं स्थापितम् आसीत् । वारङ्गल-क्षेत्रम् अपि गोलकुण्डा-क्षेत्रस्य कश्चन भागः एव आसीत् । वारङ्गल-नगरे बहूनि मन्दिराणि, वन्यजीवाभयारण्यानि च सन्ति । “पाखल-तडागः”, “वारङ्गल-दुर्गः”, “रॉक् गार्डन्”, “भद्रकाली-मन्दिरं”, “पद्माक्षी-मन्दिरं”, “वारङ्गल प्लेनेटेरियम्” इत्यादीनि वारङ्गल-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “बथूकम्मा” इत्ययं वारङ्गल-नगरस्य प्रमुखोत्सवेषु अन्यतमः अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । वारङ्गल-नगरं १६३ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः वारङ्गल-नगरं हैदराबाद-नगरेण, विजयवाडा-नगरेण, विशाखापट्टनम्-नगरेण च सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । वारङ्गल-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । वारङ्गल-रेलस्थानकात् चेन्नै-नगराय, बेङ्गळूरु-नगराय, मुम्बई-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं वारङ्गल-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं वारङ्गल-नगरात् १४८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, चेन्नै-महानगराय, बेङ्गळूरु-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, रेलयानैः, भाटकयानैः वा वारङ्गल-नगरं प्राप्यते । अनेन प्रकारेण वारङ्गल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरलतया वारङ्गल-नगरं प्राप्नुवन्ति ।

नागार्जुनसागर

[सम्पादयतु]

नागार्जुनसागर-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितं किञ्चन नगरम् अस्ति । स्थलमिदं दक्षिणभारतस्य लोकप्रियं पर्यटनस्थलत्वेन स्थितम् अस्ति । पुरा इदं नगरं “विजयपुरी” इति नाम्ना ज्ञायते स्म । बौद्धधर्मस्य प्रचारकस्य नागार्जुनस्य नाम्ना अस्य नगरस्य नामकरणं कृतम् आसीत् । तस्मिन् समये दक्षिणभारते बौद्धधर्मस्य प्रभुत्वम् आसीत् । अस्मिन् नगरे बौद्धधर्मस्य अवशेषाः प्राप्ताः । ते अवशेषाः भगवतः बुद्धस्य जीवनसम्बद्धाः सन्ति । अनेन कारणेन इदं स्थलम् पर्यटनस्थलत्वेन प्रसिद्धं जातम् । “नागार्जुनसागर-जलबन्धः”, इथिपोथल-जलप्रपातः, नागार्जुनकोण्डा इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । नागार्जुनसागर-नगरं ९ क्रमाङ्कस्य, ५६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमार्गौ नागार्जुनसागर-नगरं भारतस्य प्रमुखनगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इदं नगरं भूमार्गेण चेन्नै-नगरेण, हैदराबाद-नगरेण, विजयवाडा-नगरेण, विशाखापट्टनम-नगरेण च सह सम्बद्धम् अस्ति । नागार्जुनसागर-नगरे रेलस्थानकं नास्ति । गुण्टूर-नगरस्य रेलस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गुण्टूर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं नागार्जुनसागर-नगरात् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् चेन्नै-नगराय, हैदराबाद-नगराय, मुम्बई-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुण्टूर-नगरात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं प्राप्यते । अस्मिन्नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-विमानस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अतः विदेशस्य विभिन्ननगरेभ्यः अपि वायुयानानि प्राप्यन्ते । नागार्जुनसागर-नगरात् इदं विमानस्थानकम् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं गन्तुं शक्यते । अनेन प्रकारेण नागार्जुनसागर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरलतया नागार्जुन-नगरं प्राप्नुवन्ति ।

=

निजामाबाद

[सम्पादयतु]

निजामाबाद-नगरं तेलङ्गाना-राज्यस्य निजामाबाद-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं तेलङ्गाना-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं “इन्दूर”, “इन्द्रपुरी” वा इति नाम्ना अपि ज्ञायते । अष्टम्यां शताब्द्यां नगरेऽस्मिन् राष्ट्रकूटवंशस्य शासनम् आसीत् । पुरा अस्य नगरस्य नाम “इन्द्रपुरी” एव आसीत् । किन्तु “निजाम उल मुल्क” इत्याख्यस्य राज्ञः शासनकाले अस्य नगरस्य नाम “निजामाबाद” कृतम् । तेन बहुवर्षाणि यावत् शासनं कृतम् आसीत् । तेन कलायाः, स्थापत्यकलायाः संरक्षणं कृतम् । तेन बहूनि हिन्दुमन्दिराणि, मुस्लिम-उपासनागृहाणि च निर्मापितानि आसन् । अस्मिन् नगरे विविधाः जनाः निवसन्ति । जान्दा, नीलकण्ठेश्वरा इत्येतौ अस्य नगरस्य प्रमुखौ उत्सवौ स्तः । जान्दा-उत्सवः अगस्त-मासे सितम्बर-मासे वा आयोज्यते । अयमुत्सवः पञ्चदशदिवसात्मकः भवति । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । नीलकण्ठेश्वरा-उत्सवः द्विदिवसात्मकः भवति । अयं जनवरी-मासे फरवरी-मासे वा आचर्यते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । हनुमन्-मन्दिरं, नीलाकण्ठेश्वर-मन्दिरं, खिल्लारामालायम-मन्दिरं, श्रीरघुनाथ-मन्दिरं, श्रीलक्ष्मीनरसिंहास्वामी-मन्दिरं, सरस्वती-मन्दिरम् इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । निजामाबाद-नगरे एकः सङ्ग्रहालयः अपि अस्ति । अस्मिन् सङ्ग्रहालये ऐतिहासिकानि वस्तूनि सङ्गृहितानि सन्ति । अस्मिन् नगरे डोमकोण्डा-दुर्गः अपि अस्ति । साम्प्रतम् अस्य दुर्गस्य स्थितिः जर्जरा अभवत् । किन्तु साम्प्रतमपि अयं दुर्गः जनान् आकर्षति । नगरस्य समीपे निजामाबाद-दुर्गः अपि स्थितः अस्ति । दुर्गः अयं पर्यटकाणाम् आकर्षणस्य केन्द्रम् अस्ति । अयं दुर्गः जनेषु लोकप्रियः वर्तते । निजामाबा-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्य नगरस्य तापमानम् अत्यधिकम् उष्णं भवति । शीतर्तौ अस्य नगरस्य वातावरणं सुखदं, स्वास्थ्यप्रदं च भवति । अतः जनाः प्रतिवर्षं नवम्बर-मासतः फरवरी-मासपर्यन्तं निजामाबाद-नगरं गच्छन्ति । निजामाबाद-नगरं ७६५ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः निजामाबाद-नगरं तेलङ्गाना-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः निजामाबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । निजामाबाद-नगरात् भोपाल-नगराय, पुणे-नगराय, नागपुर-नगराय, इरोड-नगराय, औरङ्गाबाद-नगराय, मुम्बई-नगराय, मदुरै-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । निजामाबाद-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं निजामाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । निजामाबाद-नगरात् इदं विमानस्थानकं २०० किलोमीटरमिते दूरे स्थितम् अस्ति । हैदराबाद-विमानस्थानकात् देहली-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । हैदराबाद-विमानस्थानकात् बसयानैः, भाटकयानैः वा निजामाबाद-नगरं गन्तुं शक्यते । अनेन प्रकारेण निजामाबाद-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरतलतया निजामाबाद-नगरं गन्तुं शक्नुवन्ति ।

मेडक-नगरं तेलङ्गाना-राज्यस्य मेडक-मण्डले स्थितम् अस्ति । नगरमिदम् ऐतिहासिकम् अस्ति । मन्यते यत् “अस्य नगरस्य मूलनाम “सिद्धपुरम्” इति आसीत्” । अनन्तरं “गुलशानबाद” इति अस्य नाम परिवर्तितम् । काकतीय-वंशजानां शासनकाले नगरमिदं विकासशीलम् आसीत् । काकतीय-वंशस्य प्रतापरूद्र-राज्ञा अस्य नगरस्य संरक्षणाय इदं नगरं परितः दुर्गः निर्मापितः आसीत् । अस्य दुर्गस्य निर्माणम् एकस्मिन् पर्वते कृतम् । अस्य नाम “मेथुकुरूदुरुगम” इति कृतम् । स्थानीयजनैः इदं नगरं “मेथुकुस्सीमा” इति नाम्ना कथ्यते । नगरमिदं समीपस्थेषु जनेषु लोकप्रियम् अस्ति । बाथुकम्मा-उत्सवः अस्य नगरस्य प्रसिद्धः उत्सवः अस्ति । तेलङ्गाना-राज्यस्य स्त्रियः एव इमम् उत्सवम् आचरन्ति । उत्सवेऽस्मिन् गौरीदेवी बाथकुम्मा-स्वरूपेण पूज्यते । “बाथकुम्मा” इत्यर्थः “जीवितदेवी” इति । उत्सवः अयं शीतर्तौ आचर्यते । अयम् उत्सवः नवदिवसात्मकः भवति । अर्थात् नवरात्रिपर्व एव बाथकुम्मा-उत्सवः कथ्यते । मेडक-नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । अस्मिन् नगरे सांईबाबा-मन्दिरम् अस्ति । समीपस्थेभ्यः राज्येभ्यः अपि बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । अस्य नगरस्य समीपे “गोट्टमगुट्टा” नामकः लघुग्रामः अस्ति । अस्मिन् ग्रामे तडागः, मन्दिराणि च सन्ति । मेडक-नगरस्य समीपे पोचरम-वनं, वन्यजीवाभयारण्यं च जनेषु लोकप्रियम् अस्ति । अस्मिन् अभयारण्ये विभिन्नप्रकारकाः विहगाः, वन्यजीवाः च दृश्यन्ते । सिङ्गुर-जलबन्धः, निजामसागर-जलबन्धः च अपि पर्यटनाय प्रसिद्धः वर्तते । “सरस्वती क्षेत्रमु मन्दिरं”, “वेलूपुगोन्दा श्री तुमबारून्था देवालयम”, “इडुपालया दुर्गा भवानी गुडी” च अस्य नगरस्य तीर्थस्थलानि सन्ति । अस्मिन् नगरे हिन्दुजनाः अधिकाः सन्ति । अतः उत्सवाः सोत्साहेन आचर्यन्ते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् अत्यधिकम् उष्णं भवति । जनाः शीतर्तौ मेडक-नगरं भ्रमणार्थं गच्छन्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं मेडक-नगरस्य भ्रमणार्थम् उत्तमः कालः भवति । मेडक-नगरं १६१ क्रमाङ्कस्य, ७६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमागौ मेडक-नगरं तेलङ्गाना-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण पर्यटकाणां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः मेडक-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कामरेड्डी-नगरस्य रेलस्थानकं मेडक-नगरस्य निकटतमं रेलस्थानकम् अस्ति । कामरेड्डी-रेलस्थानकं मेडक-नगरात् ६० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । सिकन्दराबाद-नगराय, करीमनगराय, विजाग-नगराय, हैदराबाद-नगराय इत्यदिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मात् रेलस्थानकात् बसयानैः मेडक-नगरं प्राप्यते । मेडक-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं निजामाबाद-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मेडक-नगरात् इदं विमानस्थानकं १०० किलोमीटरमिते दूरे स्थितम् अस्ति । हैदराबाद-विमानस्थानकात् देहली-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । हैदराबाद-विमानस्थानकात् बसयानैः, भाटकयानैः वा मेडक-नगरं गन्तुं शक्यते । अनेन प्रकारेण मेडक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरतलतया मेडक-नगरं गन्तुं शक्नुवन्ति ।

बाह्यसम्पर्काः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. "Population of Telangana" (pdf). Telangana government portal. p. 34. आह्रियत 11 June 2014. 
  2. Telangana State Portal
  3. "Notification" (PDF). The Gazette of India. Government of India. 4 March 2014. आह्रियत 4 March 2014. 
  4. "Telangana will be 29th state, Hyderabad to be common capital for 10 years". The Times of India. 30 July 2013. Archived from the original on 31 July 2013. 
  5. "POPULATION". Govt of Andhra Pradesh. Archived from the original on 16 May 2013. आह्रियत 30 May 2014. 
  6. "India Today Encyclopedia, An encyclopedia of life in the republic, Vol 1". Arnold P Kaminsky. Library of Congress Cataloging-in-Publication data. 
  7. History of Kannada language: readership lectures, By R. Narasimhacharya
  8. "A grammar of the Teloogoo language, commonly termed the Gentoo, peculiar to the Hindoos inhabiting the north eastern provinces of the Indian peninsula(page iii)". Alexander Duncan Campbell. Sashachellum, 1816. आह्रियत 10 October 2012. 
  9. Sri Marana Markandeya Puranamu, ed. G. V. Subrahmanyam, 1984, Andhra Pradesh Sahitya Academy, Hyderabad.
  10. "Antiquities unearthed at Kotilingala". The Hindu. आह्रियत 17 January 2013. 
  11. The Rough Guide to India. Penguin. 2011. Rise of the south section. 
  12. Ratnakar Sadasyula (4 March 2014). "A brief history of Telangana and Andhra Pradesh". DNA. आह्रियत 2 June 2014. 
"https://sa.wikipedia.org/w/index.php?title=तेलङ्गाणाराज्यम्&oldid=483472" इत्यस्माद् प्रतिप्राप्तम्