भगवान् दास

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भगवान् दासः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
भगवान् दासः

भगवान् दासः
जननम् 12 जनवरी 1869(1869-01-12)
मुद्देनहळ्ळि
चिक्कबळ्ळापुरमण्डलम्,
कर्णाटकम्, भारतम्
मरणम् 18 सितम्बर 1958(1958 -  09 - 18) (वयः 89) 
राष्ट्रियता भारतीयः
वृत्तिः दार्शनिकः
धर्मः हिन्दुधर्मः
मातपितरौ साह माधवदास

डाक्टर् भगवानदासः (जीवितकालः क्रि.श. १८६९तमवर्षस्य जनवरी १२तः क्रि.श. १९५८तमवर्षस्य सेप्टम्बर् १८) भारतस्य प्रमुखः शिक्षाशास्त्रज्ञः स्वातन्त्र्ययोद्धा दार्शनिकः संस्थानां संस्थापकः । एषः डा. एनी बेसन्ट् इत्यनया सह व्यावसायिकसहयोगं दत्तवान् । एतत् कालन्तरेण सेण्ट्रल् हिन्दु महाविद्यायलयस्य संस्थानस्य प्रमुखं कारणम् अभवत् । अयं हिन्दू महाविद्यालयः काशी हिन्दु विश्वविद्यालयस्य स्थापनायाः हेतुः अभवत् । पश्चात् काशीविद्यापीठस्य संस्थापनं कृत्वा तत्र प्रधानाचार्यः अभवत् । डा.भगवान् दासः हिन्दीभाषाया संस्कृतभाषाया च ३०अधिकान् ग्रन्थान् रचितवान् ।

जीवनपरिचयः[सम्पादयतु]

डा.भगवान्दासस्य जन्म क्रि.श.१८६९तमे वर्षे जनवरिमासे द्वादशे अहनि वाराणस्यां समृद्धे साहपरिवारे अभवत् । क्रि.श. १८८७तमे वर्षे पाश्चात्त्यदर्शनशास्त्रे स्नातकोत्तरपदवीं सम्पादितवान् । क्रि.श. १८९०तः १८९८पर्यन्तम् उत्तरप्रदेशे विभिन्नमण्डलेषु न्यायाधीशरूपेण सर्वकारीयम् उद्योगं कृतवान् । क्रि.श. १८९९तमवर्षतः क्रि.श. १९१४तमवर्षपर्यन्तं सेण्ट्रल् हिन्दु कालेज् इति शिक्षासंस्थायाः संस्थापकसदस्यः वेतनरहितनिदेशकः चाभवत् । क्रि.श. १९१४तमे वर्षे अयमेव महाविद्यालयः काशीहिन्दुविश्वविद्यालयः इति नम्ना परिवर्तितः । डा. भगवान्दासः अस्य विश्वविद्यालयस्य संस्थापकसदस्येषु अन्यतमः । क्रि.श. १९४०तमे वर्षे काशीविद्यापीठस्य स्थापनपर्यन्तम् अस्य विश्वविद्यालयस्य कुलपतिः असीत् । महात्मागान्धेः असहकारान्दोलने भागग्रहणस्य कारणेन क्रि.श. १९२९तमे वर्षे एतं स्थानात् मुक्तम् अकुर्वन् । पश्चात् एकवर्षं यावत् गृहात् बहिः काशीविद्यापीठे एकन्ते वसन् कारावारवासस्य अवधिं पूरितवान् । क्रि.श. १९३४तमे वर्षे उत्तरप्रदेशस्य सप्तनगरेषु भारतस्य केन्द्रियव्यवस्थापिकासभायाः सदस्यत्वस्य त्यागपत्रं दत्तवान् । पश्चात् लोकन्तं त्यक्त्वा एकान्तम् इच्छन् भारतीयविचारधाराचिन्तने मग्नः अभवत् । भारतस्य राष्ट्रपतिः क्रि.श.१९५५तमे वर्षे भारतरत्नप्रशस्त्या सम्मानितः अभवत् ।[१]

मनोविज्ञानव्याख्यनम्[सम्पादयतु]

लोकः डा.भागवान्दासं मनोविज्ञाने रागद्वेशादीनां वर्गीकरणार्थं स्मरणं करोति । सुखवस्तुविषये आकर्षणं दुःखदवस्तूनां विषये विकर्णं यदा चेतनं प्राणिनां सम्बन्धविषे प्रयोजयति तादा एषः एव रागः अथवा द्वेषस्य रूपमाप्नोति । आलम्बनविषये महत्त्वम्, समानथा अथवा हीनतायाः भावानुसारं रागः अथवा प्रेम क्रमशः श्रद्धा स्नेहः तथा दया इति परिणमते । एवं द्वेषः आलम्बनभेदात् भयस्य क्रोधस्य घृणायाः च रूपेण परिवर्तते । अस्मत् ज्येष्ठानां विषये श्रद्धा अथवा भयं भवति । समानेषु स्नेहः क्रोधः वा भवति । कनीयसि अनुकम्पः दया वा अथवा घृणा भवति । एवमेव अरिषड्वर्गस्य अतिरञ्जनेन अथवा अनुपयुक्तविषये संलग्नं भवति चेत् तेन मोनोविकारः भवति । अन्तिमपरिणामे अनेकप्रकरकाः उन्मादाः सम्भावन्ति ।

धर्मविज्ञानम्[सम्पादयतु]

डा.भगवान्दासः तटास्थरूपेण सनातन्धर्मस्य वैज्ञानिकविश्लेषणं करोति । तस्य चिन्तनानुगुणं सर्वमतधर्माणां लक्ष्यम् एकम् एव । सर्वेषु एवं विश्वस्तं यत् परमात्मा सर्वेषां हृदये आत्मनः रूपेण उपस्थितः अस्ति । सर्वप्राणिषु सः उपविष्टः अस्ति । सर्वेषां पुरतः पृष्ठतः सः एव अस्ति । सर्वमतधर्मेषु ज्ञानं भक्तिः कर्म इति त्रीणि अङ्गानि सन्ति । ज्ञानकण्डं वास्तविकाता च सर्वमतधर्मेषु समानम् एव । भक्तिकाण्डस्य रीति अपि एका एव । सर्वमतेषु देवः अस्त्येव सः एकः एव । एतत् सर्वे अङ्गीकुर्वन्ति अपि । पुण्यस्य फलं सुखं पापस्य फलं दुःखम् इति विषये सर्वेषाम् एकमतम् । व्रतम् उपवासः तीर्थयत्रा दानम् एतत्सर्वं सर्वमतधर्मेषु अस्ति एव । सर्वमतधमेषु चत्वारि मूलानि मन्येन्ते । त्रुटिः स्मृतिः सदाचारः हृदयाभ्यनुज्ञा इति । भगवान् निराकारः निर्गुणः सर्वान्तर्यामी इति वदन्तः एव जनाः तस्य मन्दिराणि मस्जिदानि चर्च इति रचयन्ति । डा. भागवान्दासः सर्वमतधर्माणाम् अनुयायी आसीत् । अमाकं मतं सर्वश्रेष्टम् । अत्र सर्वे बलात्कारेण वा आनेतव्या इति अहङ्कराः सर्वमतेषु सन्ति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भगवान्_दास&oldid=386770" इत्यस्माद् पुनः प्राप्तिः