भयाद्रणादुपरतं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.३५ भयाद्रणादुपरतम्… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
भयाद्रणादुपरतं...


अपकीर्तिः भयङ्करी
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/३५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अकीर्तिं चापि भूतानि...
अग्रिमश्लोकः अवाच्यवादांश्च...

भयाद्रणादुपरतं मंस्यन्ते () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अपकीर्तेः उत्तरं किं भवति? इति बोधयति । पूर्वस्मिन् श्लोके भगवान् श्रेष्ठपुरुषाणाम् अपकीर्तिः लोके अतीव भयङ्करी भवति इत्युक्त्वा अत्र लोके अपकीर्तित्वाद् किं किं भवति इति वर्णयति । सः कथयति यद्, येषु महारथिषु त्वं बहुमान्यः आसीः, तेषां दृष्ट्या त्वं लाघवं (तुच्छतां) प्राप्स्यसि । किञ्च त्वं भयत्वाद् युद्धाद् उपरतोऽसि इति ते मंस्यन्ते इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥

पदच्छेदः[सम्पादयतु]

भयात्, रणात्, उपरतम्, मंस्यन्ते, त्वाम्, महारथाः । येषाम्, च, त्वम्, बहुमतः, भूत्वा, यास्यसि, लाघवम् ॥

अन्वयः[सम्पादयतु]

येषां त्वं बहुमतः भूत्वा लाघवं यास्यसि (तादृशाः) महारथाः च त्वां भयात् रणात् उपरतं मंस्यन्ते ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
येषाम् यद्-द.सर्व.पुं.ष.बहु. येषां राज्ञाम्
त्वं युष्मद्-द.सर्व.प्र.एक. त्वं
बहुमतः अ.पुं.प्र.एक. सम्मानितः
भूत्वा क्त्वान्तम् अव्ययम् भूत्वा
लाघवम् अ.नपुं.द्वि.एक. अगौरवास्पदत्वम्
यास्यसि √या प्रापणे-पर.कर्तरि, लृट्.मपु.एक. प्राप्स्यसि
महारथाः अ.पुं.प्र.बहु. ते महारथाः
अव्ययम्
त्वाम् युष्मद्-द.सर्व.द्वि.एक. त्वाम्
भयात् अ.नपुं.पं.एक. भीतेः करणात्
रणात् अ.नपुं.पं.एक. युद्धात्
उपरतम् अ.पुं.द्वि.एक. विरतम्
मंस्यन्ते √मन ज्ञाने-आत्म.कर्तरि, लृट्.प्रपु.बहु. चिन्तयिष्यन्ति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. भयाद्रणादुपरतम् = भयात् + रणात् – भयाद्रणात् जश्त्वसन्धिः
  2. भयाद्रणात् + उपरतम् – जश्त्वसन्धिः
  3. बहुमतो भूत्वा = बहुमतः + भूत्वा विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

समासः[सम्पादयतु]

  1. बहुमतः = बहूनां मतः - षष्ठीतत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. उपरतम् = उप + रत + क्त (कर्तरि)

तद्धितान्तः[सम्पादयतु]

  1. लाघवम् = लघु + अण् (भावे) । लघोः भावः इत्यर्थः ।

अर्थः[सम्पादयतु]

अद्य यावत् भवान् सर्वेषां गौरवास्पदम् आसीत् । युद्धाकरणेन भवान् तेषां मध्ये लाघवं यास्यति । ते महारथाः भवान् भयात् रणात् उपरतः इति चिन्तयन्ति ।

भावार्थः [१][सम्पादयतु]

'भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः' – त्वं मन्यसे यद्, अहं स्वकल्याणाय युद्धाद् उपरतः भवामि इति । परन्तु तथा नास्ति, किञ्च यदि त्वं युद्धं पापकर्म अमंस्ययाः, तर्हि पूर्वमेव एकान्तवासी अभविष्यः । परन्तु त्वं युद्धप्रवृतः असि । अतः यदि त्वं युद्धकाले निवृत्तः भविष्यसि, तर्हि महारथिनः मंस्यन्ते यद्, त्वं युद्धाद् भीतः सन् युद्धं त्यजसि इति । यदि त्वं धर्मविषये अचिन्तयिष्यः, तर्हि युद्धाद् उपरतः नाभविष्यः । यतो हि युद्धं तु क्षत्रियाणां धर्मः अस्ति । अतः अर्जुनः मरणभयादेव युद्धं त्यजति इति सेत्स्यति (षेधु संराद्धौ) ।

'येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्' – भीष्मद्रोणकृपशल्यादयः महारथिनः त्वां वीरं मन्यन्ते । अर्थाद् तेषां मनसि परिकल्पना अस्ति यद्, युद्धे वीरः अर्थात् अर्जुनः इति । सः अर्जुनः दैत्यान्, देवान्, गन्धर्वान् च पराजेतुं सक्षमः । परन्तु यदि त्वम् एतस्मिन् युद्धकाले निवृत्तः भविष्यसि, तर्हि तेषां महारथिनां दृष्टौ त्वं तुच्छः भवितासि ।

शाङ्करभाष्यम् [२][सम्पादयतु]

किञ्च -

भयात्  कर्णादिभ्यः  रणात्  युद्धात्  उपरतं  निवृत्तं  मंस्यन्ते  चिन्तयिष्यन्ति न कृपयेति  त्वां महारथाः  दुर्योधनप्रभृतयः।  येषां च त्वं  दुर्योधनादीनां  बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः  भूत्वा  पुनः  यास्यसि लाघवं  लघुभावम्।।

भाष्यार्थः[सम्पादयतु]

तथा च –

यस्य दुर्योधनस्य मते त्वं बहुमतः अर्थात् अधिकगुणयुक्तः मन्यमानः आसीः, इतः परं त्वं तस्य दृष्ट्या लघुतां प्राप्स्यसि । ते दुर्योधनादयः महाराथिनः मंस्यन्ते यत्, त्वं कर्णादीनां भयादेव युद्धात् निवृत्तः इति । त्वं दयया निवृत्तः भवसि इति ते नाङ्गीकरिष्यन्ति ।

रामानुजभाष्यम् [३][सम्पादयतु]

बन्धुस्नेहात् कारुण्याच्च युद्धात् निवृत्तस्य शूरस्य मम अकीर्तिः कथम् आगामिष्यति इति अत्राह -

येषां  कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं  त्वं  शूरो वैरी इति  बहुमतो भूत्वा  इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया  लाघवं  सुग्रहतां  यास्यसि।  ते  महारथाः त्वां भयाद्  युद्धाद्  उपरतं मंस्यन्ते।  शूराणां हि वैरिणां शत्रुभयाद् ऋते बन्धुस्नेहादिना युद्धाद् उपरतिः न उपपद्यते।

भाष्यार्थः[सम्पादयतु]

कर्णदुर्योधनादीनां महारथानां मते त्वम् एतावता 'एषः अस्माकम् अतीव वीरवैरी' इति सम्मानितः आसिः । युद्धे उपस्थिते यदि त्वं निवृत्तः भविष्यसि, तर्हि सहजतया शत्रूणां बन्दिः भविष्यसि । ते महारथिनः चिन्तयिष्यन्ति यद्, त्वं भयवशाद् एव युद्धात् विरतः अभवत् । यतो हि शूराणां शत्रुभयं विहाय बन्धुस्नेहादिकारणानि युद्धाद् विरक्तौ असम्भावनि एव ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
अकीर्तिं चापि भूतानि...
भयाद्रणादुपरतं... अग्रिमः
अवाच्यवादांश्च...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भयाद्रणादुपरतं...&oldid=403602" इत्यस्माद् पुनः प्राप्तिः