अन्नाद्भवन्ति भूतानि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.१४ अन्नाद्भवति इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
अन्नाद्भवन्ति भूतानि...


सृष्टिचक्राय कर्तव्यपालनस्य आवश्यकता
Avatars of Vishnu.jpg
श्लोकसङ्ख्या ३/१४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यज्ञशिष्टाशिनः सन्तो...
अग्रिमश्लोकः कर्म ब्रह्मोद्भवं विद्धि...

अन्नाद्भवन्ति भूतानि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्राय कर्तव्यपालनस्य आवश्यकतां वदति । पूर्वस्मिन् श्लोके कर्तव्यपालनेन सर्वेषां पापानां नाशः भवति इति उक्त्वा अत्र 'मामं घोरकर्मणि किमर्थं योजयति ?' इत्यस्य अर्जुनस्य प्रश्नस्य उत्तरं यच्छन् भगवान् सृष्टिचक्रस्य सुरक्षायै अपि यज्ञः अर्थात् कर्तव्यपालनं कियत् आवश्यकम् इति प्रतिपादयति । सः कथयति यद्, सर्वेऽपि प्राणिनः अन्नादेव उत्पद्यन्ते । अन्नास्य उत्पत्तिः वृष्ट्या भवति । वृष्टिः यज्ञात् भवति । यज्ञश्च विहितकर्मभ्यः उत्पद्यते इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥ १४ ॥

पदच्छेदः[सम्पादयतु]

अन्नात् भवन्ति भूतानि पर्जन्यात् अन्नसम्भवः यज्ञात् भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥ १४ ॥

अन्वयः[सम्पादयतु]

अन्नात् भूतानि भवन्ति । पर्जन्यात् अन्नसम्भवः (भवति) । पर्जन्यः यज्ञात् भवति । यज्ञः कर्मसमुद्भवः भवति ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
भूतानि प्राणिनः
अन्नात् आहारात्
भवन्ति जायन्ते
पर्जन्यात् वृष्टेः
अन्नसम्भवः आहारोत्पत्तिः भवति
पर्जन्यः वृष्टिः
यज्ञात् यागात्
भवति समुद्भवति
यज्ञः यागः
कर्मसमुवः कर्मजन्यः (भवति) ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. अन्नाद्भवन्ति = अन्नात् + भवन्ति – जश्त्वसन्धिः
  2. पर्जन्यो यज्ञः ¬= पर्जन्यः + यज्ञः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च

समासः[सम्पादयतु]

  1. अन्नसम्भवः = अन्नस्य सम्भवः – षष्ठीतत्पुरुषः
  2. कर्मसमुद्भवः = कर्मणः समुद्भवः - पञ्चमीतत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. समुद्भवः = सम् + उद् + भू – अप् (भावे)

अर्थः[सम्पादयतु]

प्राणिनः आहारात् उत्पद्यन्ते । आहारः वृष्टेः भवति । वृष्टिश्च यज्ञात् भवति । यज्ञस्तु कर्मणः समुवति ।

भावार्थः[सम्पादयतु]

'अन्नाद्भवन्ति भूतानि' – प्राणिनां भोजनम् अन्नम् इति । 'अद भक्षणे' इतस्य धातोः 'क्त'-प्रत्यये कृते 'अदोऽनन्ने' (अष्टाध्यायी ३/२/६८) इत्यनेन सूत्रेण 'जग्धः' इति शब्दः निष्पद्यते । यस्य प्राणिनः यत् खाद्यम् अस्ति, तदेवात्र 'अन्नम्' इति उक्तम् । यथा मृत्कीडस्य खाद्यं मृद् अस्ति, तर्हि सा मृदेव तस्य कीडस्य 'अन्नम्' इति । जरायुजाः, उद्भिज्जाः, अण्डजाः, स्वेदजाः च अन्नादेव उत्पद्यन्ते । ततः तेषां जीवननिर्वाहः अन्नादेव भवति [१] । 'पर्जन्यादन्नसम्भवः' – सर्वेषां खाद्यपदार्थानाम् उत्पत्तिः जलाद् भवति । ग्रासादि, अन्नादि च जलेन एव उत्पद्यन्ते । मृतः उत्तपत्तेः पृष्ठेऽपि जलम् एव कारणभूतं भवति । अन्न-वस्त्र-गृहादीनां सर्वेषां शरीरनिर्हवाहवस्तूनां सामग्र्यः जलाधारिताः भवन्ति । जलस्य आधाराः वर्षाः भवन्ति ।

'यज्ञाद्भवति पर्जन्यः' - 'यज्ञः' इत्येषः शब्दः मुख्यतया आहुतिक्रियावाचकः मन्यते । परन्तु गीतायां सर्वत्र कर्तव्यपालनार्थे तस्य शब्दस्य उपयोगः वर्तते । यज्ञे त्यागस्य प्राधान्यम् अस्ति । आहुतौ अन्नादां त्यागः, दाने वस्त्वादीनां त्यागः, तपसि सखोपभोगस्य त्यागः, कर्तव्यकर्मणि स्वार्थत्यागः च । अतः 'यज्ञः' इत्यस्य शब्दस्य अर्थः केवलम् आहुतिक्रियायां न, अपि तु दानकर्तव्यकर्मादिषु शास्त्रविहितक्रियासु अपि उपलक्ष्यकः अस्ति । बृहदारण्यकोपनिषदि काचित् कथा वर्तते । प्रजापतिः विश्ववाट् देवान्, मनुष्यान्, असुरान् च रचयति । ततः तेभ्यः 'द' इत्याक्षरस्य उपदेशं करोति । तस्योपदेशस्य भोगप्रधानाः देवाः 'दमनं', सङ्ग्रहप्रवृत्ताः मनुष्याः 'दानं', हिंसारताः असुराः 'दया' इति अर्थग्रहणं कृतवन्तः । तेषां सर्वेषाम् उपदेशग्रहणस्य तात्पर्यम् अन्येषां हिताय आसीत् । वर्षाकाले मेघगर्जनम् अद्यापि विश्वौहः उपदेशस्य (दमनं, दानं, दया) स्मरणं कारयति [२] । अत्र प्रश्नः भवति यद्, स्वकर्तव्यपालनस्य वर्षाभिस्सह को वा सम्बन्धः ? इति । वचनापेक्षया आचरणस्य प्रभावः अन्येषु अधिकः भवति [३] । मनुष्याः यदि स्वकर्तव्यपालनं करिष्यन्ति, तर्हि तेषां प्रभावः देवेषु अपि भविष्यति । एवं ते देवाः अपि स्वकर्तव्यपालनं करिष्यन्ति अर्थात् वर्षाः भविष्यन्ति [४] । एतस्मिन् सन्दर्भे काचित् लघ्वी कथा प्रसिद्धा अस्ति । कस्यचित् कृषकस्य चत्वारः पुत्राः आसन् । वर्षाकाले सञ्जातेऽपि वर्षाः न भवन्ति स्म । ते पुत्राः विचारमग्नाः आसन् यद्, वर्षाणाम् अभावे क्षेत्र हलचालनेन को वा लाभः ? इति । परन्तु ततः तैः निश्चयः कृतः यद्, वर्षाः भवन्तु उत न, अस्माभिः तु अस्माकं कर्तव्यस्य पालनं करणीयम् एव । अतः तैः कृषिकार्यम् आरब्धम् । कृषकाः हलं चालयन्तः सन्ति इति दृष्ट्वा मयूरः आश्चर्यचकितः अभवत् । सः अचिन्तयत्, मम ध्वनिम् अश्रुत्वा कृषकाः हलकार्यं कथम् आरब्धवन्तः ? इति । ततः कृषकानां कर्तव्यपालनस्य विषयं ज्ञात्वा सः अचिन्तयत्, अहमपि स्वकर्तव्यपालने किमर्थँ प्रमादी भवामि ? अतः तेनापि सुन्दरध्वनिः निष्पादितः । मयूरध्वनिं श्रुत्वा मेघाः आश्चर्यचकिताः । मयूरस्य कर्तव्यपालननिष्ठां दृष्ट्वा तेऽपि स्वकर्तव्यपालनं कुर्वन्तः गभीरं गर्जनम् अकुर्वन् । मेघानां गर्जनं श्रुत्वा इन्द्रचकितः । सर्वेषां कर्तव्यपालनसज्जतां दृष्ट्वा सः अपि अचिन्तयत्, अहं मे कर्तव्ये किमर्थं शिथिलः भवामि ? इति । तः सोऽपि मेघेभ्यः वर्षाः आज्ञाम् अयच्छत् ।

'यज्ञः कर्मसमुद्भवः' – निष्कामभावपूर्वकं यानि कर्माणि क्रियन्ते, तानि लौकिकशास्त्रविहितानि कर्माणि 'यज्ञः' एव उच्यन्ते । ब्रह्मचारिणे अग्निहोत्रः 'यज्ञः' अस्ति । स्त्रीभ्यः पाककार्यं 'यज्ञः' अस्ति [५] । सर्वप्रकारकः यज्ञः क्रियाजन्यः एव भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

इतश्चाधिकृतेन कर्म कर्तव्यम्। जगच्चक्रप्रवृत्तिहेतुर्हि कर्म। कथमिति उच्यते-अन्नाद्भवन्तीति। अन्नाद्भुक्ताल्लोहितरेतः परिणतात्प्रत्यक्षं भवन्ति जायन्तेभूतानि, पर्जन्याद्धृष्टेरन्नस्य संभवोऽन्नसंभवः, यज्ञाद्भवति पर्जन्यः 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततःकप्रजाः' इति स्मृतेः। यज्ञोऽपूर्वं स च यज्ञः कर्मसमुद्भव ऋत्विग्यजमानयोश्च व्यापारः कर्म ततः समुद्भवो यस्य यज्ञस्यापूर्वस्य स यज्ञः कर्मसमुद्भवः।।14।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
यज्ञशिष्टाशिनः सन्तो...
अन्नाद्भवन्ति भूतानि... अग्रिमः
कर्म ब्रह्मोद्भवं विद्धि...
Orange animated right arrow.gif
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. अन्नाद्ध्येव खलिविमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति ।। तैतरीयोपनिषद् ३/२
  2. बृहदारण्यकोपनिषद्, ५/२/१-३
  3. यद्यदाचरति श्रेष्ठस्ततत्तदेवेतरो जनः, गीता, अ. ३ , श्लो. २१
  4. गीता, अ. ३ , श्लो. ११
  5. वैवाहिको विधिः स्त्रीणां, संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ।। मनुस्मृतिः २/६७

अधिकवाचनाय[सम्पादयतु]