यस्त्वात्मरतिरेव स्यात्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.१७ यस्त्वात्मरतिरेव स्यात् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
यस्त्वात्मरतिरेव स्यात्...


आत्मज्ञानिने कर्तव्याभावं
Avatars of Vishnu.jpg
श्लोकसङ्ख्या ३/१७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः एवं प्रवर्तितं चक्रं...
अग्रिमश्लोकः नैव तस्य कृतेनार्थो...

यस्त्वात्मरतिरेव स्याद् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मज्ञानिने कर्तव्याभावं कथयति । पूर्वस्मिन् श्लोके यः कर्तव्यपालनं करोति, तस्य जीवनं व्यर्थम् अस्ति इति भगवता उक्तम् । अत्र सः वदति यद्, यः स्वकर्तव्यपालनं कृत्वा संसारात् सम्बन्धविच्छेदं कृतवान्, तस्य महापुरुषस्य कृते कर्तव्याभावः अस्ति । भगवान् बोधयति यद्, यः मनुष्यः स्वयं स्वस्मिन् एव रमते, स्वस्मिन् एव तृप्तः अस्ति, स्वस्मिन् एव यः सन्तुष्टश्च अस्ति, तस्मै किमपि कर्तव्यं न भवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ॥ १७ ॥

पदच्छेदः[सम्पादयतु]

यः तु आत्मरतिः एव स्यात् आत्मतृप्तः च मानवः आत्मनि एव च सन्तुष्टः तस्य कार्यं न विद्यते ॥ १७ ॥

अन्वयः[सम्पादयतु]

यः मानवः आत्मरतिः एव आत्मतृप्तः आत्मन्येव सन्तुष्टः च स्यात् तस्य कार्यं न विद्यते ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
यः मानवः तु यः मनुष्यः
आत्मरतिः एव आत्मनि प्रीतिमान्
आत्मतृप्तः च आत्मनि तृप्तिमान्
आत्मन्येव स्वस्मिन् एव
सन्तुष्टः सम्प्रीतः
स्यात् भवेत्
तस्य तादृशस्य मनुष्यस्य
कार्यम् कर्तव्यम्
न विद्यते नास्ति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. यस्त्वात्मरतिमेव = यः + तु – विसर्गसन्धिः (सकारः)
    1. तु + यण्सन्धिः
    2. आत्मरतिः + एव – विसर्गसन्धिः (रेफः)
  2. स्यादात्मतृप्तः = स्यात् + आत्मतृप्तः – जश्त्वसन्धिः
  3. आत्मतृप्तश्च = आत्मतृप्तः + च – विसर्गसन्धिः (सकारः) श्चुत्वं च
  4. आत्मन्येव = आत्मनि + एव – यण्सन्धिः
  5. सन्तुष्टस्तस्य = सन्तुष्टः + तस्य – विसर्गसन्धिः (सकारः)

समासः[सम्पादयतु]

  1. आत्मरतिः = आत्मनि एव रतिः यस्य सः – बहुव्रीहिः
  2. आत्मतृप्तः = आत्मनि एव तृप्तः - सप्तमीतत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. तृप्तः = तृप् + क्त (कर्तरि)
  2. सन्तुष्टः = सम् + तृष् + क्त (कर्तरि)
  3. कार्यम् = कृ + ण्यत् (कर्मणि)

तद्धितान्तः[सम्पादयतु]

  1. मानवः = मनु + अण् (अपत्यर्थे), मनोः अपत्यं पुमान् ।

अर्थः[सम्पादयतु]

यः मनुष्यः आत्मप्रियः, आत्मतृप्तः, आत्मसम्प्रीतश्च भवति तस्य कर्तव्यं नास्ति ।

भावार्थः[सम्पादयतु]

'यस्त्वात्मरतिरेव... सन्तुष्टस्य' – पूर्वस्मिन् श्लोके ये कर्तव्यपालनं न कुर्वन्ति इत्येतेषां वर्णनं कृतं, तेभ्यः कर्तव्यकर्मणि सिद्धानां महापुरुषानां विलक्षणतां बोधयितुम् अत्र 'तु' इत्यस्य पदस्य उपयोगः कृतः । यावत् पर्यन्तं मनुष्यः संसारेण सह स्वस्य सम्बन्धं स्वीकरोति, तावत् पर्यन्तं सः रतिना (स्त्री-पुत्र-परिवारदिभिः), तृप्तिना (भोजनादिभिः), सन्तुष्टिना (धनादिभिः) च सह जीवति । परन्तु एवं कृते सत्यपि तस्य रतितृप्तिसन्तुष्टयः कदापि शिथिलाः न भवन्ति, ताः सर्वदा उग्राः एव भवन्ति । यतो हि संसारं प्रतिक्षणं परिवर्तनशीलम् अस्ति । स्वयं तु अविनाशी, स्थिरश्च अस्ति । अतः मनुष्यस्य संसारात् रत्यादयः असम्भवाः । संसारात् रति-तृप्ति-सन्तिष्टयः लभन्ते इति मनुष्यस्य प्रतीतिः अस्ति । वास्तव्येन यदि तासां प्राप्तिः अभविष्यत्, तर्हि अरतिः, अतृप्तिः, असन्तुष्टिः च नोद्भविष्यन् । कामनागुणं यदा वस्तु प्राप्यते, तदा मनुष्यस्य मनसि विद्यमाना कामना व्यपगच्छति, पूर्वकामनायाः पूर्णतायाः पश्चात्, अपरायाः कामनायाः उद्भवात् प्राक् तस्य मनुष्यस्य या निष्कामावस्था भवति, सा एव सुखानुभवं कारयति । परन्तु मनुष्यः चिन्तयति यद्, सांसारिकवस्तुना तेन सुखं प्राप्तम् इति । यदि वस्तुनः प्राप्त्योत्तरमेव सुखं लभेत्, तर्हि तत् सुखं चिरस्थायि भवेत् । परन्तु सांसारिकवस्तुना कदापि तथा न भवति । यतो हि संसारेण सह ममताया समबन्धे अविरते सति नवीनाः कामनाः उत्पद्यन्ते । एवं पुनः काम्यवस्तुनः प्राप्तेः इच्छा, तस्य प्राप्तिः, प्राप्त्योत्तरं नवीना कामना इति चक्रम् आरभते । अतः कामनायुक्तः मनुष्यः सर्वदा दुःखी भवति । साधकः सुखकारणं निष्कामता इति जानाति, परन्तु सांसारिकमनुष्यः वस्तुप्राप्तौ एव सुखं मन्यते अन्यथा सः दुःखम् अनुभवति । यदि आसक्तः मनुष्यः साधकवत् यथार्थदृष्ट्वा सुखकारणं पश्येत्, तर्हि सोऽपि शीघ्रं हि निष्कामतायाः अनुभवं कर्तुं शक्नोति ।

सकाममनुष्यः कर्मयोगस्य अधिकारी भवति [१] । सकाममनुष्यस्य रत्यादयः संसारे भवन्ति । अतः कर्मयोगेन सिद्धिप्राप्तस्य महापुरुषस्य स्थितेः वर्णनं कुर्वन् भगवान् वदति, कर्मयोगेन सिद्धिप्राप्तस्य महापुरुषस्य रत्यादयः संसारे न अपि तु स्वरूपे भवति इति [२] । 'तस्य कार्यं न विद्यते' – मनुष्याय यत्किमपि कर्तव्यपालनविधानम् उक्तम् अस्ति, तस्य उद्देशः परमकल्याणप्राप्तिः अस्ति । येन केनापि साधनेन (कर्म-ज्ञान-भक्तियोगैः) उद्देश्यस्य सिद्धिः भवति । ततः मनुष्याय किमपि ज्ञातव्यं, प्राप्तव्यं न भवति । एतदेव मनुष्यजीवनस्य साफल्यम् उच्यते । यावत्पर्यन्तं मनुष्यः स्वस्य वास्तविकं स्वरूपम् अज्ञात्वा संसारसम्बन्धत्वात् स्वस्मिन् अभावं पश्यति, अर्थात् 'अहं', 'मम' इति मत्त्वा 'स्वस्य कृते' कर्म कुर्वन् भवति, तावत्पर्यन्तं तस्य कर्तव्यानि समाप्तानि न भवन्ति । परन्तु यदा 'स्वस्य कृते' किमपि अकृत्वा अर्थात् शरीरेन्द्रियमनोबुद्धिप्राणेभ्यः, मातृपितृस्त्रीपुत्रपरिवारेभ्यः, समाज-देश-विश्वेभ्यश्च कर्म करोति, तदातस्य संसारात् सम्बन्धविच्छेदः भवति । संसारात् सर्वथा सम्बन्धे विच्छेदे सति तस्य स्वस्य किमपि कर्तव्यं नावशिष्यते । यतो हि स्वरूपे कोऽपि क्रिया न भवति । या कापि क्रिया आसीत्, सा संसारात् सम्बन्धविच्छेदोत्तरं विलीना भवति । अतः येषां संसारेण सह सम्बन्धः अस्ति, तेभ्यः एव कर्तव्यः भवति । कर्म तदा भवति, यदा किमपि प्राप्तुं कामना भवति । अभावादेव कामना उत्पद्यते । सिद्धमाहापुरुषेषु कोऽपि अभावः न भवति, अतः तेभ्यः किमपि कर्म अपि नावशिष्यते । कर्मयोगेन सिद्धपुरुषस्य रत्यादयः स्वरूपे एव विलीनाः भवन्ति । ततः कृतकृत्यात्, ज्ञातज्ञातव्यात्, प्राप्तप्राप्तव्यात् च परः सः विधिनिषेधपरः भवति । यद्यपि तस्योपरि शास्त्रशासनं न भवति, परन्तु तस्य क्रियासु स्वाभाविकतया शास्त्रानुशासनं भवति । अतः तस्य सर्वाः क्रियाः अन्येभ्यः आदर्शरूपाः भवन्ति । 'तस्य कार्यं न विद्यते' इत्यस्य पदस्य अत्र अभिप्रायः अस्ति यद्, तेन महापुरुषेण न कापि क्रिया भवति इति । किमपि कर्तुं शेषं नास्ति, तथापि महापुरुषेण लोकसङ्ग्रहाय क्रियाः स्वयमेव भवन्ति । यथा श्वसनक्रिया, भोजनपचनक्रिया इत्यादयः स्वतः एव भवन्ति, तथैव महापुरुषेषु कृत्वाभिमानाभावात् तैः शास्त्रानुकुलाः आदर्शक्रियाः स्वतः एव भवन्ति ।

शाङ्करभाष्यम्[सम्पादयतु]

एवं स्थिते किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तलीयमाहोस्वित्पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्यानात्मविदो ज्ञानयोगेनैव निष्ठामात्मविद्भिः साख्यैरनुष्ठेयामप्राप्तेनैवेत्येवमर्थमर्जुनस्यप्रश्नमाशङ्क्य स्वयमेव वा शास्रार्थस्य विवेकप्रतिपत्त्यर्थमेव तं वैतमात्मानं विदित्वा निवृत्तमिथ्याज्ञानाः सन्तो ब्राह्मणा मिथ्याज्ञानवद्भिरवश्यं कर्तव्येभ्यःदपुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्ये शरीरस्थितिमात्रप्रयुक्तं चरन्ति न तेषामात्मज्ञाननिष्ठाव्यतिरेकेणान्यत्कार्यमस्तीत्येवं श्रुत्यर्थमिह गीताशास्रेप्रतिपादयिषितमाविष्कुर्वन्नाह भगवान्-यस्त्विति। यस्तु सांख्य आत्मज्ञाननिष्ठ आत्मरतिरात्मन्येव रतिर्न विषयेषु यस्य स आत्मरतिरेव स्याद्भवेदात्मतृप्तश्चात्मनैवतृप्तो नान्नरसादिना स मानवो मनुष्यः संन्यास्यात्मन्येव च संतुष्टः। संतोषो हि बाह्यार्थलाभेन सर्वस्य भवति तमनपेक्ष्यात्मन्येव च संतुष्टः सर्वतो वीततृष्णइत्येतद्। य ईदृश आत्मवित्तस्य कार्यं करणीयं न विद्यते नास्तात्यर्थः।।17।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
एवं प्रवर्तितं चक्रं...
यस्त्वात्मरतिरेव स्यात्... अग्रिमः
नैव तस्य कृतेनार्थो...
Orange animated right arrow.gif
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. कर्मयोगस्तु कामिनाम्, श्रीमद्भागवतमहापुराणम्, स्क. ११ , अ. २०, श्लो. ७
  2. गीता, अ. २ , श्लो. ५५

अधिकवाचनाय[सम्पादयतु]