न कर्मणामनारम्भात्...
न कर्मणामनारम्भात्... कर्मत्यागनिषेधः | |
---|---|
श्लोकसङ्ख्या | ३/४ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | लोकेऽस्मिन् द्विविधा निष्ठा... |
अग्रिमश्लोकः | न हि कश्चित्क्षणमपि... |
न कर्मणामनारम्भाद् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मत्यागनिषेधं वदति । पूर्वस्मिन् श्लोके द्वयोः निष्ठयो उपस्थापनं कृत्वा अत्र भगवान् न कस्यामपि निष्ठायाः कारणेन कर्मणां त्यागः अनुचितः इति वदति । सः कथयति यद्, मनुष्यः केवलं कर्मणः अनारम्भाद् निष्कामताम् अर्थाद् योगनिष्ठां प्राप्तुं न शक्नोति । तथा च कर्मणां त्यागमात्रेणापि सिद्धिम् अर्थाद् साङ्ख्यनिष्ठां प्राप्तुं न शक्नोति इति ।
श्लोकः
[सम्पादयतु]- न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
- न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
पदच्छेदः
[सम्पादयतु]न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते न च संन्यसनात् एव सिद्धिं समधिगच्छति ॥ ४ ॥
अन्वयः
[सम्पादयतु]पुरुषः कर्मणाम् अनारम्भात् नैष्कर्म्यं न अश्नुते । (कर्मणाम्) संन्यसनात् एव सिद्धिं च न समधिगच्छति ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
पुरुषः | मनुष्यः |
कर्मणाम् | क्रियाणाम् |
अनारम्भात् | अनाचरणात् |
नैष्कर्म्यम् | कर्मराहित्यम् |
न अश्नुते | न लभते |
संन्यसनात् | सर्वकर्मपरित्यागात् |
सिद्धिं च | आत्मज्ञानं च |
न समधिगच्छति | न सम्प्राप्नोति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- अनारम्भान्नैष्कर्म्यम् = अनारम्भात् + नैष्कर्म्यम् – अनुनासिकसन्धिः
- पुरुषोऽश्नुते = पुरुषः + अश्नुते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
- सन्नासनात् = सम् + न्यसनात् – अनुस्वारः, अनुनासिकसन्धिश्च
समासः
[सम्पादयतु]- अनारम्भात् = न आरम्भः अनारम्भः, तस्मात् - नञ्तत्पुरुषः
कृदन्तः
[सम्पादयतु]- सन्न्यसनात् = सम् + नि + अस् + लुट् (भावे), तस्मात् ।
तद्धितान्तः
[सम्पादयतु]- नैष्कर्म्यम् = निष्कर्म + ष्यञ् । निष्कर्मणः भावः इत्यर्थः ।
अर्थः
[सम्पादयतु]मनुष्यः कर्मणः अनाचरणेन निष्कर्मतां न लभते । तथा कर्मत्यागमात्रेण आत्मज्ञानमपि न विन्दति ।
भावार्थः
[सम्पादयतु]'न कर्मणामनारम्भान्नैशष्कर्म्यं पुरुषोऽश्नुते' – एतस्मिन् कर्मयोगे कर्मणः अत्यन्तं प्राधान्यम् अस्ति । यतो हि निष्कामभावेन कर्मणि कृते एव कर्मयोगः सिद्ध्यति । तां सिद्धिं मनुष्यः कर्मत्यागेन प्राप्तुं न शक्नोति । यः योगरूढो भवितुम् इच्छति, सः स्वस्मिन् समतां साधयितुं प्रयतते । तस्याः समतायाः कृते निष्कामभावेन कर्म अत्यन्तम् आवश्यकम् अस्ति [१] । यदि साधकः कर्म करिष्यति, तर्हि सः ज्ञास्यति यद्, सः सिद्ध्यसिद्ध्ययोः समः आसीद् उत विचलितः । कर्मणाम् अभावे सः कथं ज्ञास्यति ? मनुष्यस्य अन्तःकरणे कर्मणः कृते यः वेगः विद्यमानः भवति, तं शान्तं कृत्वा कामनायाः त्यागे कृते कर्तव्यकर्म आवश्यकं भवति । कामनायां सत्यां कर्मणः वेगः न दूरीभवति, प्रत्युत वर्धते । 'नैष्कर्म्यम् अश्नुते' – कर्मयोगस्य आचरणं यः करोति, तादृशः मनुष्यः कर्म कुर्वन्नेव निष्कर्मतां प्राप्नोति । यस्यां स्थित्यां मनुष्यस्य कर्माणि अकर्माणि भवन्ति अर्थाद् बन्धनकर्तॄणि न भवन्ति, सा स्थितिः 'निष्कर्मता' इति । कामनारहितेन कृतानि कर्माणि फलशक्तिं न वहति । यथा बीजं भुर्जयित्वा उत पक्वे कृते तस्मात् अङ्कुरस्फोटनशक्तिः सर्वथा नष्टा भवति, तथैव निष्कामनुष्यस्य कर्मसु मनुष्यस्य नाशाय (पुनः जन्ममरणयोः चक्रे पातनाय) शक्तिः न भवति । कामनायाः त्यागः तदैव शक्यः यदा सर्वाणि कर्मणि अन्येभ्यः भवेयुः न तु स्वस्मै । यतो हि कर्ममात्रस्य सम्बन्धः संसारेण सह अस्ति, स्वस्य च सम्बन्धः परमात्मना सह अस्ति । स्वेन सह कर्मसम्बन्धः नास्त्येव । अतः यावत्पर्यन्तं स्वस्मै कर्म कुर्मः, तावता कामनात्यागः न भवति । यावता कामनात्यागः न भवति, तावता निष्कामतायाः प्राप्तिः न असम्भवा ।
'न च सन्न्यासनादेव सिद्धिं समधिगच्छति' – एतस्य श्लोकस्य पूर्वार्धे भगवान् कर्मयोगस्य दृष्ट्या अवदत् यद्, कर्मणः आरम्भम् अकृत्वा कर्मयोगी निष्कामतां प्राप्तुं न प्रभवति । अत्र उत्तरार्धे साङ्ख्ययोगस्य दृष्ट्या वदति यद्, केवलं कर्मणां स्वरूपाद् त्यागे कृते सति साङ्ख्ययोगस्य सिद्धिः न भवति अर्थाद् निष्कामतायाः प्राप्तिः न भवति इति । सिद्धप्राप्तै साधकेन अहन्तायाः अर्थाद् कर्तृभावस्य त्यागः अत्यावश्यकः । अतः साङ्ख्ययोगिभ्यः कर्मणां स्वरूपाद् त्यागः न प्रमुखः, अपि तु अहन्तायाः त्यागः प्रमुखः । साङ्ख्ययोगे कर्माचरणे न दोषः कुत्रचिद् कर्मत्यागः अपि योग्यः । परन्तु कर्मयोगे तु सिद्धप्राप्त्यै कर्म अनिवार्यमेव [२] ।
मर्मः
[सम्पादयतु]श्रीमद्भगवद्गीता व्यवाहरेण परमार्थः कथं सिद्धयति इति बोधयति । तस्य आशयः कर्तव्यकर्मणः पालने अस्ति, न तु त्यागे । अतः भगवान् कर्मयोगे, ज्ञानयोगे च कर्माचरणस्य चर्चां करोति । यदा साधकः स्वस्य कल्याणम् इच्छति, तदा सः सांसारिककर्मेभ्यः व्याकुलः भवति इति वास्तविकता अस्ति । सः सर्वाणि कर्माणि त्यक्त्वा विमुक्तिम् इच्छति । एवमेव कर्मभ्यः व्याकुलः अर्जुनः भगवन्तं पृच्छति यद्, यदि कर्मज्ञानयोगयोः तात्पर्यं समता भवति, तदा कर्मणः कावश्यकता ? इति । परन्तु भगवान् उभयोः साधनयोः (कर्मज्ञानयोगयोः) अर्जुनाय कर्म कर्तुम् आज्ञापयति [३] [४] । अतः सिद्ध्यति यद्, भवगतः अभिप्रायः कर्मस्वरूपस्य त्यागः न अपि तु कर्तव्यकर्मणः पालनम् अस्ति । कर्मणा सह यानि नाशात्मकानि तत्त्वानि सन्ति, अर्थाद् कामना-ममता-आसक्त्यादयः, तेभ्यः स्वरक्षणं कर्तुं साधकाय उपदिशति ।
कर्मणः त्यागम् अकृत्वा साधकेन तस्माद् सम्बन्धः विच्छेत्तव्यः । कर्मयोगी निःस्वार्थभावेन कर्माणि कुर्वन् शरीरेन्द्रियमनोबुद्ध्यादीनां पदार्थानां सांसारिकत्वं ज्ञात्वा तान् संसारस्य सेवायै उपयोजयति । सः कर्मभिः, पदार्थैः च सह स्वस्य सम्बन्धं न मन्यते [५] । ज्ञानयोगे सदसतोः विवेकस्य प्राधान्यं भवति । अत एव ज्ञानयोगी चिन्तयति यद्, गुणाः एव गुणेषु विद्यमानाः सन्ति । अर्थात् शरीरेन्द्रियमोबुद्ध्यादिभिः एव कर्माणि जायमानानि सन्ति । मम कर्मभिः सह किञ्चिदपि सम्बन्धः नास्ति इति [६] [७] । सर्वेषां साधकानाम् अनुभवः अस्ति यद्, कल्याणस्य तीव्राभिलषायां जाग्रतायां सत्यां कर्म-पदार्थ-परिवारेभ्यः अरुचिः उत्पद्यते इति । परन्तु शरीरेण सह घनिष्टे सम्बन्धे स्थापिते सति सा विश्रामस्य इच्छा एव । सा विश्रामेच्छा एव साधकस्य उन्नतौ बाधिका भवति । साधकः चिन्तयति यद्, कर्म-पदार्थ-व्यक्तीनां(परिवाराणां) स्वरूपात् त्यागे कृते सति परमार्थमार्गः सुकरः भविष्यति इति । परन्तु वस्तुतः कर्मणः स्वरूपस्य त्यागापेक्षया तस्य आसक्तेः त्यागः एव आवश्यकः । साङ्ख्ययोगे उत्कटवैराग्येन विना आसक्त्याः त्यागः कठिनः मन्यते । परन्तु कर्मयोगे वैरागस्य न्यूनतायां सत्याम् अपि केवलम् अन्येभ्यः कर्तव्यकर्मपालनत्वाद् आसक्तेः त्यागः सुकरः भवति । एकान्तवासं कृत्वा साधानायाः गीतायाम् अपि समर्थनम् अस्ति । परन्तु एतान्ते सात्त्विकपुरुषाः तु भक्तौ एव समयं यापयन्ति । परन्तु रजस्प्रधानः, तमस्प्रधानश्च पुरुषः क्रमेण सङ्कल्पविकल्पादिषु, आलस्यनिद्राप्रमादादिषु समयं यापयन्ति । अतः साधकस्य रुचिः तु एकान्तवासे एव भवेत् । परन्तु सांसारिककर्मणां त्यागं कृत्वा पारमार्थिककार्येषु एव सक्रिय भवेत् । कर्तव्यरूपेण यत् कर्म सम्मुखम् उपतिष्ठेत्, तस्याचरणं तत्परतया सह कुर्यात् । तस्मिन् कर्मणि रागः उत द्वेषः न भवेत् । रागः न तु जनसमुदाये भवेत्, न तु अकर्मण्यतायाम् । सर्वत्र रागस्य अभावः साधकस्य कल्याणं साधयति । वस्तुतः शरीरस्य एकान्तत्वमेव वास्तविकम् एकान्तं न । यतो हि शरीरं संसारस्य एव अङ्गम् अस्ति । अतः तस्माद् सम्बन्धविच्छेदे कृते अहन्तायाः, ममतायाः च त्यागः वास्तविकः एकान्तः इति ।
शाङ्करभाष्यम्
[सम्पादयतु]न कर्मणामिति । न कर्मणामनारम्भादप्रारम्भात् कर्मणां यज्ञादीनामिह जन्मनि जन्मान्तरे वानुष्ठितानामुपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन च ज्नोत्पत्तिद्वारेण ज्नननिष्ठहेतूनणां "ज्ननमुत्पध्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि"। [मो।ध।२०४।८] इत्यादिस्मरणात् अनारम्भादननुष्ठानान्नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ननयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैवादस्थानमिति यावत्। पुरुषो नाशनुते न प्राप्नोतीत्यर्थः ॥
कर्मणामनारंभान्नैष्कर्म्यं नाश्नुत इति वचनात्तद्विपर्ययात्तेषामारंभान्नैष्कर्म्यमश्नुत इति गम्य्ते । क्स्मात्पुनः कारणात्कर्मणामनारंभान्नैष्कर्म्यं नाश्नुत इति? उच्य्ते । कर्मारंभस्यैव नैष्कर्म्योपायत्वात्। न हि उपायमन्तरेण उपायप्राप्तिरस्ति ।कर्म योगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ननयोगस्य् श्रृताविह च प्रतिपादनात् । श्रृतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन "तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्नेन" [बृ।४।४।२२] इत्यादिना कर्मयोग्स्य ज्ननयोगोपायत्वं प्रतिपादितम् । इहापि च "सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः" [गी।५।६], 'योगिनः कर्म कुर्वन्ति संङ्गं त्यक्तवात्मशुद्धये' [५।११।], '‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्' [गी।१८।५] - इत्यादि प्रतिपादयिष्यति ॥
ननु च "अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्" इत्यादौ कर्तव्यकर्मसन्यासादपि नैष्कर्मप्राप्ति दर्शयति लोके च कर्मणामनारंभान्नैष्कर्म्यमिति प्रसिद्धतरम् । अतश्च नैष्कर्म्यार्थिनः किं कर्मारंभेणेति प्राप्तम् । अत आह न च संन्यासनादेवेति । नापि संन्यासनादेव केवलात्कर्मपरित्यागमात्रादेव ज्ननारहीतात् सिद्धिं नैष्कर्म्यलक्षणां ज्ननयोगेन निष्ठां समधिगच्चति न प्राप्नोति॥४॥
कस्मात पुनः कारणात् कर्मसंन्यासमात्रादेव केवलात् ज्ञानरहितात् सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगतच्छतीति हेत्वाकाङ्क्षायामाह-
भाष्यार्थः
[सम्पादयतु]बन्धनहेतुभूते कर्मणि एव भगवान् मां योजयति इति मन्यमानं व्यथितचित्तं कर्मत्यागतत्परम् अर्जुनम् उद्दिश्य भगवान् अवदत्, 'न कर्मणामनारम्भात्' इति । अथवा ज्ञाननिष्ठायाः, कर्मनिष्ठायाः च परस्परं विरोधत्वात् एकेन पुरुषेण एकस्मिन् काले तयोः अनुष्ठानम् अशक्यम् । अतः परस्परम् अपेक्षारहिते ते भिन्नतया मोक्षहेतू स्तः इति शङ्का उद्भवति । ज्ञाननिष्ठायाः प्राप्त्यां साधनत्वात् कर्मनिष्ठा मोक्षरूपिणि पुरुषार्थे हेतुः अस्ति, स्वतन्त्रा नास्ति, तथा च कर्मनिष्ठारूपिणः उपायात् सिद्ध्यमानायै ज्ञाननिष्ठायै अन्यस्य अपेक्षा नास्ति, अतः सा स्वतन्त्रा अस्ति, मुक्तहेतुः च अस्ति इति स्पष्टयितुं भगवान् अवदत् – कर्मणाम् आरम्भम् अकृत्वा अर्थात् यज्ञादिकर्मणां आचरणम् एतस्य जन्मनः कृते उत जन्मान्तराय च क्रियते, येषां कर्मणाम् आचरणेन सञ्चितानां पापानाम् उच्छेदोत्तरम् अन्तःकरणं शुद्धं भवति, 'पापाकर्मणां नाशे सति मनुष्यानाम् अन्तःकरणे ज्ञानोत्पत्तिः जायते' एतादृशानां स्मृतिवाक्यानाम् अनुसारं यज्ञादिकर्माणि अन्तःकरणशुद्धेः साधनम् अस्ति, तेषां यज्ञादिकर्मणाम् आरम्भम् अकृत्वा मनुष्यः निष्कर्मण्यभावं (कर्मशून्यस्थितिं) न प्राप्नोति । तात्पर्यम् अस्ति यद्, निष्क्रियात्मस्वरूपे या स्थितिरूपिणी ज्ञानयोगात् प्राप्यमाणा निष्ठा अस्ति, तां निष्ठां न प्राप्नोति इति ।
पू. – कर्मणाम् आरम्भे अकृते सति निष्कामभावः नोत्पद्यते । अनेन सिद्ध्यति यद्, एतस्मात् विपरीताचरणेन अर्थात् कर्मणाम् आकम्भे कृते सति मनुष्यः निष्कर्मभावं लभते इति । अतः अत्र किं कारणम् अस्ति यद्, कर्मणाम् आरम्भम् अकृत्वा मनुष्यः निष्कामतां प्राप्तुं न पारयति ?
उ. – यतो हि कर्मणाम् आरम्भः एव निष्कर्मतायाः प्राप्तेः उपायः अस्ति । उपायं विना उपेयस्य प्राप्तिः असम्भवा इति प्रसिद्धम् । निष्कामरूपिणः ज्ञानयोगस्य उपायः कर्मयोगः अस्ति इति श्रुतिषु, गीताशास्त्रे च प्रतिपादितम् अस्ति । श्रुतिषु ज्ञेयरूपिणः आत्मलोकस्य प्रप्त्यै उपायस्य प्रतिपादितम् अस्ति यद्, ' ब्राह्मणाः वेदाध्यनेन, यज्ञादिना च तम् आत्मानं ज्ञातुं प्रयतन्ते' इति [८] । एतादृशैः वचनैः कर्मयोगः ज्ञानयोगस्य उपायः इति प्रतिपादितम् अस्ति ।
'हे महाबाहो ! कर्मयोगेन विना सन्न्यासप्राप्तिः कठिना अस्ति ।[९]', 'अन्तःकरणशुद्ध्यै योगिनः आसक्तिं त्यक्त्वा कर्म कुर्वन्ति ।[१०]', 'यज्ञ-दान-तपांसि बुद्धिमतः पवित्रीकुर्वन्ति ।[११]' इत्यादिभिः वचनैः अत्र गीताशास्त्रेऽपि प्रतिपादितम् अस्ति ।
'सर्वेभ्यः भूतेभ्यः अभयदानं दत्त्वा सन्न्यासं स्वीकुर्यात्' इत्यादिषु वचनेषु कर्तव्यकर्मणां त्यागेनापि निष्कर्मतायाः प्राप्तिः प्रतिपादिता, लोकेऽपि कर्मणाम् आरम्भाभावात् निष्कर्मतायाः प्राप्तिः प्रसिद्धा । तर्हि निष्कर्मतेच्छुकैः कर्मारम्भात् किं प्रयोजनम् इत्येतस्यां शङ्कायां सत्यां वदति यद्, केवलं सन्न्यासादेव अर्थात् ज्ञानं विना केवलं कर्मपरित्यागमात्रेण मनुष्यः निष्कर्मतारूपं सिद्धिं न अर्जयति । अर्थात् ज्ञानयोगेन साधितायां स्थित्यां न प्रतिष्ठते इति ।
भाष्यार्थः
[सम्पादयतु]सर्वेषु संसारिपुरुषेषु मोक्षेच्छायाः उत्पद्योत्तरं सहसा ज्ञानयोगस्य साधना कठिना अस्ति इति कथयति – शास्त्रविहतकर्मणाम् आरम्भम् अकृत्वा एव कोऽपि मनुष्यः निष्कर्मताम् अर्थात् ज्ञाननिष्ठां न लभत । तात्पर्यम् अस्ति यद्, समस्तेन्द्रियाणां व्यापाररूपकर्मणाम् उपरत्या उत्पद्यमानां ज्ञाननिष्ठां कर्मणाम् अनारम्भमात्रेण प्राप्तुं न शक्नोति, तथा च आरब्धानां शास्त्रविहितकर्मणां त्यागेनापि ज्ञाननिष्ठां लब्धुं प्रभवति इति । यतो हि यानि कर्माणि फलाभिसन्धिं त्यक्त्वा केवलं परमपुरुषस्य आराधनायै क्रियन्ते, तेषां कर्मणां फलमेव आत्मनिष्ठा अस्ति । अतः तेषां त्यागेन आत्मनिष्ठा नोपलभ्यते । यैः पुरुषैः फलाभिसन्धिरहितैः कर्मभिः भगवतः गोविन्दस्य आरधना न कृता, तथा च अनादिकालात् प्रवृत्तस्य अनन्तपापराशेः नाशः न कृतः, तादृशेभ्यः मनुष्येभ्यः इन्द्रियाणां विकाररहितस्थित्योत्तरं प्राप्यमाणायाः आत्मनिष्ठायाः सम्पादनं कठिनं भवति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये न कर्मणामनारम्भात्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते, गीता, अ. ६, श्लो. ३
- ↑ गीता, अ. ६, श्लो. ३
- ↑ योगस्थ कुरु कर्माणि, गीता, अ. २, श्लो. ४८
- ↑ तस्माद्युध्यस्व भारत !, गीता, अ. २, श्लो. १८
- ↑ गीता, अ. ५, श्लो. ११
- ↑ गीता, अ. ३, श्लो. २८
- ↑ गीता, अ. ५, श्लो. ८,९
- ↑ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन, बृहदारण्यकोपनिषत्, ४/४/२२
- ↑ सन्न्यासस्तु महोबाहो दुःखमाप्तुमयोगतः
- ↑ योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये
- ↑ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च