नैव तस्य कृतेनार्थो...
नैव तस्य कृतेनार्थो... कर्माकर्मण्योः ज्ञानिनां प्रयोजनाभावः | |
---|---|
श्लोकसङ्ख्या | ३/१८ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | यस्त्वात्मरतिरेव स्यात्... |
अग्रिमश्लोकः | तस्मादसक्तः सततम्... |
नैव तस्य कृतेनार्थो ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्माकर्मण्योः ज्ञानिनां प्रयोजनाभावं वदति । पूर्वस्मिन् श्लोके आत्मज्ञानिभ्यः कर्तव्याभावम् उक्त्वा अत्र कर्मणि, अकर्मणि अपि तेषाम् अप्रयोजनत्वं वदति । सः कथयति यद्, कर्मयोगेन सिद्धानां तेषां महापुरुषाणां संसारेऽस्मिन् कर्मणि, अकर्मणि वा किमपि प्रयोजनं नावशिष्यते । तथा च सर्वेषु प्राणिषु तस्य किञ्चिदपि स्वार्थसम्बन्धः न भवति इति ।
श्लोकः
[सम्पादयतु]- नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
- न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
पदच्छेदः
[सम्पादयतु]न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन न च अस्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः ॥ १८ ॥
अन्वयः
[सम्पादयतु]इह तस्य कृतेन (कर्मणा) अकृतेन कश्चन अर्थः नास्ति । अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः नास्ति ।
शब्दार्थः
[सम्पादयतु]अन्वयः | सरलसंस्कृतम् |
इह | अस्मिन् लोके |
तस्य | आत्मरतस्य पुरुषस्य |
कृतेन | विहितेन (कर्मणा) |
अर्थः | प्रयोजनम् |
न एव | नास्ति |
अकृतेन | अविहितेन (कर्मणा) |
कश्चन | कोऽपि अर्थः |
न | नास्ति |
अस्य | अस्य पुरुषस्य |
सर्वभूतेषु | सर्वप्राणिषु |
कश्चित् | कश्चन |
अर्थव्यपाश्रयः च | प्रयोजनसम्बन्धः अपि |
न | नास्ति । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- नैव = न + एव - वृद्धिसन्धिः
- कृतेनार्थः = कृतेन + अर्थः – सवर्णदीर्घसन्धिः
- नाकृतेन = न + अकृतेन - सवर्णदीर्घसन्धिः
- अकृतेनेह = अकृतेन + इह – गुणसन्धिः
- चास्य = च + अस्य - सवर्णदीर्घसन्धिः
- कश्चिदर्थव्यपाश्रयः = कश्चित् + अर्थव्यापाश्रयः – जश्त्वसन्धिः
समासः
[सम्पादयतु]- अकृतेन = न कृतम्, तेन नञ्तत्पुरुषः
- अर्थव्यापाश्रयः = अर्थाय व्यपाश्रयः – चतुर्थीतत्पुरुषः
- सर्वभूतेषु = सर्वाणि च तानि भूतानि च, तेषु - कर्मधारयः
कृदन्तः
[सम्पादयतु]- कृतेन = कृत् + क्त (कर्मणि)
अर्थः
[सम्पादयतु]आत्मतृप्तस्य पुरुषस्य कृतेन कर्मणा अकृतेनापि कर्मणा प्रयोजनं नास्ति । प्राणिषु केनापि सह तस्य प्रयोजनस्य हेतोः सम्बन्धोऽपि नास्ति ।
भावार्थः
[सम्पादयतु]'नैव तस्य कृतेनार्थः' – प्रत्येकस्य मनुष्यस्य कर्मप्रवृत्तिः भवत्येव । यावत्पर्यन्तं कर्मप्रवृत्तिः सांसारिकवस्तोः प्राप्त्यै भवति, तावता तेन 'स्वस्य कृते' कर्म अवशिष्यते । स्वस्य कृते किमपि कर्तुम् इच्छा एव मनुष्यस्य बन्धनकारणं भवति । एतस्याः इच्छायाः निवृत्त्यै कर्तव्यकर्मणः आवश्यकता भवति । कर्म द्विधा क्रियते । कामनापूर्त्यै, कामनानिवृत्त्यै च । सामान्यः मनुष्यः कामनापूर्त्यै कर्म करोति, परन्तु कर्मयोगी कामनानिवृत्त्यै कर्म करोति । अत एव कर्मयोगेन सिद्धमहापुरुषस्य न कापि कामना अवशिष्यते । एवं तस्य कर्तव्येन सह अपि किञ्चिन्मात्रम् अपि सम्बन्धः नावशिष्यते । ततः तेन संसारस्य हिताय निःस्वार्थभावेन स्वतः एव कर्म भवति ।
'नाकृतेनेह कश्चन' – यः मनुष्यः शरीरेन्द्रियमनोबुद्ध्यादिभः सह स्वस्य सम्बन्धं स्वीकरोति, आलस्यप्रमादादिषु यस्य रुचिः भवति, सः कर्म कर्तुं नेच्छति । यतो हि तस्य प्रयोजनं प्रमादालस्यारामादिभिः उत्पन्नेन तामससुखेन सह भवति [१] । परन्तु कर्मयोगसिद्धः महापुरुषः यः सात्त्विकसुखात् अपि परः अस्ति, तस्य तामससुखे प्रवत्तिः असम्भवा एव । यतो हि तस्य शरीरादिभिः सह किञ्चिन्मात्रम् अपि सम्बन्धः न भवति । अतः आलस्यप्रमादारामादयिषु रुचिः तु सर्वथा न भवत्येव ।
'न चास्य सर्वभूतेषु किञ्चिदर्थव्यपाश्रयः' – शरीरेण, संसारेण च सह किञ्चिन्मात्रम् अपि स्वार्थसम्बन्धस्य अभावेन महापुरुषाणां सर्वाः क्रियाः स्वतः एव अन्येषां हिताय भवन्ति । यथा शरीरस्य अङ्गाः स्वतः एव शरीरस्य हिताय सक्रियाः भवन्ति, तथैव महापुरुषाणां मन्यमानं शरीरं स्वतः एव संसारहिताय सक्रियं भवति । यथा शरीरस्य एकेन अङ्गेन हस्तेन शरीरस्य अपरम् अङ्गं मुखं प्रक्षालयामः, तदा मनसि स्वार्थः, प्रत्युपकारः, अभिमानभावश्च नोद्भवति, तथैव महापुरुषाणां मन्यमानेन शरीरेण संसारहिते सति महापुरुषेषु स्वार्थः, प्रत्युपकारः, अभिमानभावश्च नोद्भवति ।
मर्मः
[सम्पादयतु]प्रायः साधकाः कर्मणे अधिकाः प्रवृत्ताः न भवन्ति ते तु कर्मोपरामाः भूत्वा समाध्यवस्थां प्राप्तुम् इच्छन्ति । यतो हि समाध्यवस्थायां न कापि चिन्ता अवशिष्यते । एषः विषयः श्रेष्ठः, लाभप्रदश्च अस्ति, परन्तु सिद्धान्तः नास्ति । यद्यपि प्रवृत्तेः (कामनायाः) अपेक्षया निवृत्तिः (अकर्मण्यता) श्रेष्ठा अस्ति, तथापि एतत् न तात्त्विकम् । प्रवृत्तिनिवृत्ती प्रकृत्याधीने स्तः । निर्विकल्पसमाधिपर्यन्तं सर्वं प्रकृत्याधीनम् एव । यतो हि निर्विकल्पावस्थायाः अपि व्युत्थानं शक्यते । क्रियां विना व्यत्थानम् असम्भवम् । अतः यथा चलनादिक्रियाः, शयनादिक्रियाः च, तथैव समाध्यावस्थाया अपि क्रिया एव । प्रकर्षेण करणम् (भावे ल्युट्) इति प्रकृतिः एवं प्रकृतिः निरन्तरं क्रियाशील एव । अत एव तया सह सम्बन्धे स्थापिते कोऽपि प्राणी कस्याञ्चिद् अवस्थायां क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति [२] [३] । अतः यावत्पर्यन्तं प्रकृत्या सह सम्बन्धः भवति, तावता समाधिः अपि कर्म एव । समाधौ द्वे अवस्थे भवतः । समाधिः, व्युत्थानं च । परन्तु प्रकृत्या सह सम्बन्धे विच्छेदे सति द्वे अवस्थे न भवतः, अपि तु 'सहजसमाधिः', 'सहजावस्था' वा भवति । तस्यां सहजावस्थायां कदापि व्युत्थां न जायते । यतो हि अवस्थाभेदः प्रकृतौ अस्ति, स्वरूपे न । अतः सहजावस्था सर्वोत्तमा उक्ता [४] ।
चेतनस्वरूपे प्रवृत्तिनिवृत्ती न स्तः । चेतनस्वरूपं तु तयोः प्रवृत्तिनिवृत्त्योः निर्विकल्पप्रकाशकम् अस्ति । शरीरेण सह तादात्म्ये सत्येव 'कर्म', 'अकर्म' इत्येतौ द्वन्दौ उत्पदेते । वास्तव्येन कर्म-अकर्मणी सजाती एव । शरीरेण सह सम्बन्धः अस्ति चेद्, अकर्मणि अपि कर्म एव मन्यते । यथा गमनस्य क्रिया भवति, तथैव अवस्थानम् अपि क्रिया एव भवति । तत्र भेदः तावदेव यत्, गमनक्रियायां क्रियायाः स्थूलदृष्ट्या दर्शनं भवति, अवस्थानक्रियायां तथा स्पष्टता न भवति । तथापि सूक्ष्मदृष्ट्या पश्यामश्चेद् अवस्थानम् अपि क्रिया एव । एवं क्रियाणां स्थूलरूपे दर्शनं (प्रवृत्तिः) प्रकृतौ अस्ति, तथैव स्थूलदृष्ट्या क्रियानाम् अदर्शनम् (निवृत्तिः) अपि प्रकृत्तौ एव । यस्य साधकस्य प्रकृत्या, तस्याः कार्येण च सह भौतिक-आध्यात्मिक-पारलौकिक-प्रयोजनं नावशिष्यते, तस्य महापुरुषस्य कृते कर्मणि, अकर्मणि च किमपि स्वार्थः न भवति । जडतया सह सम्बन्धे सत्येव कर्माकर्मयोः प्रश्नः उद्भवति । यतो हि जडतया सम्बन्धनं विना कापि क्रिया नावशिष्यते । महापुरुषाणां जडतया सह सर्वथा सम्बन्धविच्छेदः जायते, तथा च ते प्रकृत्यातीताः (प्रवृत्तिनिवृत्ती) सहजनिवृत्तौ स्वरूपानुभवं कुर्वन्ति । अतः साधकेन जडतायाः सम्बन्धविच्छेदः करणीयः । तत्त्वं तु सर्वदा नित्यम् अस्त्येव ।
पूर्वस्मिन् श्लोके भगवान् अवदत् यद्, सिद्धेभ्यः महापुरुषेभ्यः किमपि कर्त्यं नास्ति (तस्य कार्यं न विद्यते) इति । तस्य कारणम् एतस्मिन् श्लोके भगवान् अवदत् । कारणं वदन् भगवान् विषयत्रयम् उपास्थापयत् । १. कर्मणा सह तस्य किमपि प्रयोजनं नावशिष्यते । २. अकर्मणा सह अपि तस्य किमपि प्रयोजनं नावशिष्यते । ३. न केनचित् प्राणिना, वस्तुना च सह तस्य स्वार्थसम्बन्धः भवति । वस्तुतः स्वरूपे कर्म, अकर्म इत्येतयोः किमपि प्रयोजनं नास्ति । यतो हि शुद्धस्वरूपेण न कापि क्रिया भवति । क्रिया तु प्रकृतेः, प्रकृत्यजन्यपदार्थानां च सम्बन्धनेन एव भवति । अतः स्वस्य कृते किमपि न कर्तव्यम् इति विधानम् अस्ति । यावत्पर्यन्तं मनुष्ये रागः, प्राप्तीच्छा, जीवनेप्सा, मृत्युभयः इत्यादयः भविष्यन्ति, तावत्पर्यन्तं तस्योपरि कर्तव्यस्य उत्तरदायित्वं भविष्यति । परन्तु यस्मिन् रागादयः न सन्ति, तेषां कर्तव्यमेव नावशिष्यते । प्रत्युत तेन स्वतः एव कर्तव्यपालनं भवति । यत्र अकर्तव्यस्य सम्भावना भवति, तत्र कर्तव्यपालस्य प्रेरणा भवति ।
शाङ्करभाष्यम्
[सम्पादयतु]किंच नैवेति। नैव तस्य परमात्मरतेः कृतेन कर्मणार्थः प्रयोजनमस्ति। अस्तु तर्ह्यकृतेनाकरणेन प्रत्यवायाख्योऽनर्थो नाकृतेनेह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपआत्महानिलक्षणो वा नैवास्ति। न चास्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिदर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यो व्यापाश्रयो व्यपाश्रयणम्। कंचिद्भूतविशेषमाश्रित्यन साध्यः कश्चिदर्थोऽस्ति। येन तदर्थाक्रियानुष्ठेया स्यात्।न त्वमेतस्मिन् सर्वतः संण्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे।।18।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये नैव तस्य कृतेनार्थो... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च