दीपाराधनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य मार्गशीर्षशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । दीपावली इत्युक्ते दीपानाम् आवली । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

"https://sa.wikipedia.org/w/index.php?title=दीपाराधनम्&oldid=388763" इत्यस्माद् प्रतिप्राप्तम्