नेमिनाथः
नेमिनाथः | |
---|---|
द्वाविंशतितमः जैनतीर्थङ्कराः | |
नेमिनाथस्य प्रतिमा | |
विवरणम् | |
अन्यनाम | अरिष्टनेमी |
ऐतिहासिककाल: | ३ सहस्त्राब्दी ई.पू. |
परिवारः | |
पिता | समुद्रविजयः |
माता | शिवादेवी |
वंशः | हरिवंशः |
स्थानम् | |
जन्म | सौरीपुर |
निर्वाणम् | गिरनारपर्वतः |
लक्षणम् | |
वर्णः | कृष्णः |
चिह्नम् | शङ्खः |
औन्नत्यम् | १० धनुर्मात्रात्मकम् (३० मीटर्) |
आयुः | १००० वर्षाणि |
शासकदेवः | |
यक्षः | गोमेधः |
यक्षिणी | अम्बिका |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
नेमिनाथः ( ( शृणु) /ˈnɛmɪnɑːθəhə/) (हिन्दी: नेमिनाथ,आङ्ग्ल: Neminath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमः तीर्थङ्करः अस्ति । भगवतः नेमिनाथस्य वर्णः श्यामः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं शङ्खः अस्ति ।
कौमारावस्थायां नेमिनाथस्य शरीरस्य औन्नत्यं दशः (१०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “गोमेध” इत्याख्यः यक्षः, “अम्बिका” इत्याख्या यक्षिणी च आसीत् । भगवान् नेमिनाथः हरिवंशवंशीयः, गौतमगोत्रीयश्चासीत् ।
जन्म, परिवारश्च
[सम्पादयतु]देवायुष्यं पूर्णं कृत्वा भरतखण्डस्य शौरीपुर-नगरे भगवान् नेमिनाथः अवातरत् । श्रावण-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ चित्रा-नक्षत्रे मध्यरात्रौ शौरीपुर-नगरस्य समुद्रविजय-नामकस्य राज्ञः गृहे भगवतः नेमिनाथस्य जन्म अभवत् ।
नेमिनाथस्य पिता समुद्रविजयः, माता च शिवादेवी आसीत् । समुद्रविजयः शौरीपुर-नगरस्य श्रेष्ठः राजा आसीत् । कार्त्तिक-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ चित्रा-नक्षत्रे रात्रौ शिवादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव शिवादेवी राज्ञे समुद्रविजयाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः नेमिनाथस्य जीवः शिवादेव्याः गर्भं प्राविशत् [२]।
आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा शिवादेवी चतुर्दशः स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशम् अकुर्वन् यत् – “शिवादेव्याः गर्भे कश्चन श्रेष्ठः बालको विद्यते । सः बालकः तीर्थङ्करत्वं प्राप्स्यति ।
गर्भकालस्य समाप्त्यनन्तरं भगवतः नेमिनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मनः सन्देशं प्राप्य राजा समुद्रविजयः प्रसन्नः जातः । राजा समुद्रविजयः तत्कालमेव सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार । ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानमपि अक्रियत । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः नेमिनाथस्य जन्मोत्सवः आचरितः ।
पूर्वजन्म
[सम्पादयतु]चतुर्विंशतितीर्थङ्करेषु एकविंशतिः तीर्थङ्कराः प्रागैतिहासिककाले अभवन् । त्रयोविंशतितमः, चतुर्विंशतितमः च तीर्थङ्करः ऐतिहासिककाले अभवताम् । द्वाविंशतितमः तीथङ्करः नेमिनाथात् पूर्वं प्रागैतिहासिकं मन्यते स्म । किन्तु साम्प्रते काले बहूनां विदुषां मतानुसारेण नेमिनाथः ऐतिहासिकः तीर्थङ्करः आसीत् । नेमिनाथस्य पूर्वजन्मनः विवरणमपि प्राप्यते ।
प्रथमः, द्वितीयः च भवः
[सम्पादयतु]जम्बूद्वीपस्य भरतक्षेत्रे अचलपुरनामकं किञ्चन नगरम् आसीत् । तस्य नगरस्य राजा विक्रमधनः आसीत् । तस्य पत्नी धारिणी आसीत् । धारिणी एकं पुत्रम् अजीजनत् । तस्य नाम धनकुमारः इति । धनकुमारस्य विवाहः कुसुमपुरस्य राज्ञः सिंहस्य पुत्र्या धनवत्या सह अभवत् ।
एकदा धनकुमारः, धनवती च इत्येतौ जलक्रिडायै गतवन्तौ आस्ताम् । तत्र ताभ्यां कश्चन रोगी मुनिः दृष्टः । तत्र ताभ्यां तस्य मुनेः सेवा कृता । यदा सः मुनिः अचलपुर-नगरम् प्राप्तवान्, तदा ताभ्यां मुनेः भक्तिः कृता आसीत् । मुनेः उपदेशात् तौ दम्पती श्रावकत्वं स्वीकृतवन्तौ ।
विक्रमधनः दीक्षाम् अङ्गीकर्तुम् ऐच्छत् । अतः तेन धनकुमारस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं धनकुमारेण अपि स्वस्य पुत्रस्य जयन्तस्य राज्याभिषेकं कृत्वा तस्मै राज्यं प्रदत्तम् । धनकुमारः, धवनती च एतौ द्वौ दीक्षाम् अङ्गीकृतवन्तौ । अन्ते सौधर्मनामकं प्रथमं देवलोकं प्राप्तवन्तौ । तत्र महर्धिकदेवौ अभवताम् ।
तृतीयः, चतुर्थश्च भवः
[सम्पादयतु]भरतक्षेत्रस्य वैताढ्यपर्वतश्रेण्यां सूरतेज-नामकं नगरं स्थितमासीत् । विद्याधरसूरः नामकः तस्य नगरस्य राजा आसीत् । विद्युन्मती-नामिका तस्य पत्नी आसीत् । धनकुमारस्य जीवः तृतीये भवे विद्युन्मत्याः गर्भं प्रविष्टः । गर्भकालस्य समाप्त्यनन्तरं पुत्रस्य जन्म अभवत् । तस्य नाम चित्रगतिः इति कृतम् ।
वैताढ्यपर्वतस्य दक्षिणश्रेण्यां शिवमन्दिर-नगरम् आसीत् । तस्य नगरस्य राजा अनन्तसिंहः आसीत् । शशीप्रभा-नामिका तस्य पत्नी आसीत् । धनवत्याः जीवः तृतीये भवे अनन्तसिंहस्य रत्नवती-नामिकायाः पुत्रीस्वरूपेण अवतीर्णः । समयान्तरे तस्याः विवाहः चित्रगतिना सह अभवत् । चित्रगतिः स्वस्य पुरन्दर-नामकस्य पुत्रस्य राज्याभिषेकं कृतवान् । तेन पुरन्दराय राज्यस्य दायित्वम् अपि प्रदत्तम् आसीत् ।
अन्ते चित्रगतिना स्वस्य पत्नीभिः, अनुजभातृभ्यां (मनोगतिः, चपलगतिः) च सह दमधरमुनेः दीक्षा प्राप्ता । बहुवर्षाणि यावत् चित्रगतिः तपस्यां चकार । सः माहेन्द्र-नामके चतुर्थे देवलोके महर्धिकदेवः अभवत् । तस्य पत्नी, भ्रातरौ चापि तस्मिन्नेव लोके देवाः अभवन् ।
पञ्चमः, षष्ठः च भवः
[सम्पादयतु]पूर्वमहाविदेहस्य पद्मविजये सिंहपुर-नगरम् आसीत् । हरिनन्दी-नामकः सिंहपुरस्य राजा आसीत् । प्रियदर्शना-नामिका तस्याः पत्नी आसीत् । चित्रगतेः जीवः देवायुष्यं समाप्य प्रियदर्शनायाः पुत्रस्वरूपेण अजायत । तस्य नाम अपराजितः इति कृतम् ।
जनानन्दपुरस्य राजा जितशत्रुः आसीत् । तस्याः पत्नी धारिणी आसीत् । रत्नवत्याः जीवः धारिण्याः पुत्रीस्वरूपेण अवतीर्णः । प्रीतिमतिः इति तस्याः नामकरणं कृतम् । स्वस्य पुत्र्यां यौवने प्राप्ते सति जितशत्रुणा तस्याः विवाहः स्वयंवरपद्धत्या कारितः । अपराजितः राजा अपि स्वयंवरविवाहाय गतवान् आसीत् । प्रीतिमत्या स्वयंवरे अपराजितस्य वरणं कृतम् । मनोगतेः, चपलगतेः च जीवः अपि माहेन्द्रदेवलोकस्य आयुष्यं समाप्य अस्मिन् जन्मनि सूर, सोम च स्वरूपेण अभवत् ।
अपराजितेन श्रेष्ठतया राज्यस्य सञ्चालनं कृतम् आसीत् । प्रजाजनाः सुखिनः आसन् । तस्य पुत्रः पद्मनाभः आसीत् । समयान्तरे अपराजितेन पद्मनाभस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तं च । तेन पत्न्या, अनुजाभ्यां च सह दीक्षा अङ्गीकृता । दीक्षानन्तरं तैः महत्साधना कृता । अन्ते सर्वे मोक्षं सम्प्राप्य आरण-नामके एकादशे देवलोके देवाः अभवन् ।
सप्तमः, अष्टमः च भवः
[सम्पादयतु]भरतक्षेत्रस्य हस्तिनापुर-नगर्यां श्रीषेणनामकः राजा आसीत् । तस्य पत्न्याः नाम श्रीमती इति । अपराजितस्य जीवः देवलोकस्य सम्पूर्णायुष्यं समाप्य श्रीमत्याः गर्भं प्राविशत् । नवमासानन्तरं सा एकं पुत्रम् अजीजनत् । तस्य नाम शङ्खः इति कृतम् । प्रीतिमत्याः जीवः अङ्गदेशास्य चम्पानगर्याः राज्ञः जितारिणः गृहे पुत्रीस्वरूपेण अवतीर्णः । तस्याः नाम यशोमती इति कृतम् आसीत् । पूर्वजन्मनः अपराजितस्य अनुजौ अस्मिन् जन्मनि यशोधरः, गुणधरः इत्येतौ श्रीषेणस्य पुत्रौ अभवताम् ।
एकदा समीपस्थस्य सीमाडा-नगरस्य जनाः साहाय्यं याचितुं हस्तिनापुर-नगरं समागताः । पल्लिनगरस्य समरकेतु-नामकः कश्चन राजा आसीत् । समरकेतुः सीमाडा-नगरस्य, नगरजनानां च धनं, सम्पत्तिं च अपहृतवान् । नगरजनानां याचनां श्रुत्वा श्रीषेणेन युद्धाय सेना प्रेषिता । श्रीषेणः स्वयमपि गन्तुं सज्जः अभवत् । किन्तु यदा शङ्खः युद्धस्य समाचारं प्राप्तवान्, तदा श्रीषेणस्य स्थाने शङ्खः स्वयमेव युद्धं कर्तुं गतः । तदनन्तरं भयङ्करं युद्धम् अभवत् । अन्ते समरकेतोः सैन्यं नष्टं जातम् । समरकेतुना शङ्खाय समर्पणं कृतम् । समरकेतुना लुण्ठिता सम्पत्तिः जनेभ्यः प्रतिदत्ता ।
समरकेतुं बद्ध्वा शङ्खः हस्तिनापुर-नगरं प्रत्यागच्छन् आसीत् , तदा मार्गे राजा मणिशेखरः अमिलत् । मणिशेखरः शङ्खं दृष्ट्वा पलायितुम् ऐच्छत् । मणिशेखरः बलात् एव यशोमत्या सह विवाहं कर्तुम् इच्छति स्म । अतः यशोमती अवसरं प्राप्य स्वस्य व्यथां शङ्खाय उक्तवती । शङ्खेन मणिशेखरः अवबोधितः । किन्तु तथापि मणिशेखरः न अवगतः । अन्ते शङ्खेन मणिशेखरेण सह युद्धं कृतम् । मणिशेखरः युद्धे पराजितो जातः । मृत्युभयात् मणिशेखरः पलायितवान् । शङ्खस्य शौर्यं दृष्ट्वा यशोमती शङ्खात् आकृष्टा अभवत् । यशोमत्याः पिता चम्पानरेशः जितारिः अपि युद्धस्थलं प्राप्तवान् आसीत् । यशोमती शङ्खेन सह विवाहं कर्तुम् ऐच्छत् । अतः पुत्र्याः मनसः इच्छां ज्ञात्वा जितारिणा वने एव यशोमत्याः शङ्खेन सह विवाहः कारितः ।
राजा श्रीषेणः पुत्रस्य विजयस्य, प्रत्यागमनस्य च सन्देशं प्राप्तवान् । श्रीषेणेन शङ्खस्य उत्साहपूर्वकं स्वागतं कृतम् । शङ्खस्य शौर्यगाथां श्रुत्वा श्रीषेणः प्रसन्नः जातः । श्रीषेणेन राज्ये उत्सवस्य घोषणा कृता । तस्मिन् उत्सवे एव श्रीषेणेन शङ्खस्य राज्याभिषेकः कृतः । अनन्तरं शङ्खाय राज्यस्य दायित्वं प्रदत्तम् । श्रीषेणः स्वयं वैराग्यं प्रापत् । सः साधनां कर्तुं राज्यं त्यक्तवान् । बहुवर्षानन्तरं तेन कैवल्यज्ञानं प्राप्तम् ।
राजा शङ्खः नीतिपूर्वकं राज्यस्य सञ्चालनं कुर्वन् आसीत् । एकदा राजा शङ्खः पत्न्या सह अटितुमुपवनं गतवान् । तस्य मित्राणि, अनुचराः अपि सहैव गतवन्तः आसन् । उद्याने एव भोजनस्य व्यवस्था आसीत् । सर्वे तत्र वार्तालापं कुर्वन्तः आसन् । तदैव एकः मुनिः तत्र आगतः । मुनिं दृष्ट्वा शङ्खः नमस्कृतवान् । यशोमती अपि मुनिं दृष्ट्वा चकिता अभवत् । मुनिः जलार्थं हस्तसङ्केतं कृतवान् । शङ्खः मुनेः सङ्केतम् अवगतवान् आसीत् किन्तु तत्क्षणमेव जलं कुतः आनेयिष्यामि ? इति व्यचारयत् । तदा यशोमती भोजनालयं गत्वा जलम् आनीतवती । शुद्धजलं प्राप्य मुनिः जलम् अपिबत् । अस्मिन् प्रसङ्गे राज्ञा शङ्खेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् । राज्ञी यशोमती अपि एकभवतारी (एकस्मात् भवात् अनन्तरं मोक्षप्राप्तिः) अभवत् । अग्रिमे जन्मनि सा महासत्याः राजीमत्याः स्वरूपेण जन्म प्राप्तवती ।
एकदा मुनिः श्रीषेणः हस्तिनापुर-नगरीं प्राप्तवान् आसीत् । राजा शङ्खः द्वाभ्यां भ्रातृभ्यां, यशोमत्या, सकलपरिवारेण च सह श्रीषेणमुनेः दर्शनं कर्तुं गतवान् । सर्वे श्रीषेणमुनेः प्रवचनं श्रुतवन्तः । प्रवचनानन्तरं शङ्खेन श्रीषेणमुनिं प्रति प्रश्नः पृष्टः यत् – “यशोमत्याः मयि एतावान् स्नेहः प्रेम वा कथम् अस्ति ? अस्य किं कारणम् अस्ति ? मह्यं कथयतु” इति ।
तदा श्रीषेणेन शङ्खः उक्तः यत् – “यदा भवान् पूर्वजन्मनि प्रथमे भवे धनकुमारः आसीत्, तदा सः धनवतीस्वरूपेण भवतः पत्नी आसीत् । अनन्तरं द्वितीये भवे सौधर्मनामके देवलोके सा भवतः सखी आसीत् । पुनः तृतीये भवे मृत्युलोके भवतोः जन्म अभवत् । तस्मिन् जन्मनि भवान् चित्रगतिः आसीत् । सा रत्नवतीस्वरूपेण तव पत्नी आसीत् । पुनः चतुर्थे भवे भवन्तौ माहेन्द्रनामकं देवलोकं गतवन्तौ आस्ताम् । तत्रापि सा भवतः सखी आसीत् । अनन्तरं पञ्चमे भवे पुनः भवन्तौ मृत्युलोकम् आगतौ । तदा तस्मिन् जन्मनि भवान् अपराजितः आसीत् । सा प्रीतिमतीस्वरूपेण भवतः धर्मपत्नी आसीत् । अनन्तरं पुनः षष्ठे भवे भवन्तौ आरणनामकं देवलोकं प्राप्तवन्तौ । तस्मिन् देवलोके अपि सा भवतः सखी एव आसीत् । इत्थं यशोमत्या सह भवतः सप्तजन्मनां सम्बन्धः वर्तते । इदं भवतोः सप्तमभवः वर्तते । अग्रिमे अष्टमे भवे भवन्तौ अनुत्तरविमाने देवौ भविष्यतः । देवलोकस्य आयुष्यं समाप्य भवान् नवमे भवे भरतक्षेत्रस्य “अरिष्टनेमी” “नेमिनाथः” वा इति नामकः द्वाविंशतितमः तीर्थङ्करः भविष्यति । तदा यशोमत्याः नाम राजीमती इति भविष्यति । भवतोः विवाहः निश्चितः भविष्यति, किन्तु अविवाहितावस्थायाम् एव राजीमती दीक्षाम् अङ्गीकरिष्यति मोक्षं प्राप्स्यति च” ।
स्वस्य पूर्वभवानां वर्णनं श्रुत्वा शङ्खस्य मनसि वैराग्यः समुद्भूतः । राज्ञा शङ्खेन अनुजाभ्यां, यशोमत्या, बहुभिः मित्रैश्च सह दीक्षा स्वीकृता । अन्ते सः साधनां कृत्वा मोक्षं प्रापत् । अनन्तरम् अनुत्तर-अपराजित-नामके देवलोके देवः अभवत् ।
भगवतः नेमिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः नेमिनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । नामकरणदिवसे शिवादेवी श्यामकान्तियुतं शिशुं नीत्वा आयोजितं स्थलं प्राप्तवती । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा शिवादेवी गर्भवती आसीत्, तदा अस्माकं राज्यम् अनिष्टयुक्तम् आसीत् । अपरं च शिवादेवी गर्भकाले स्वप्ने एकम् अरिष्टरत्नमयं चक्रम् (नेमि) अपि दृष्टवती आसीत् । अतः अस्य बालकस्य नाम अरिष्टनेमी इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एव अरिष्टनेमिनाथः नेमिनाथः इति वा नाम प्रसिद्धम् अस्ति ।
हरिवंशस्य उत्पत्तिः
[सम्पादयतु]अरिष्टनेमिनाथस्य पिता समुद्रविजयः हरिवंशीयः प्रतापी राजा आसीत् । विचित्रसंयोगेन हरिवंशस्योत्पत्तिः जाता ।
शीतलनाथः दशमः तीर्थङ्करः आसीत् । तस्य शासनकाले वत्सदेशस्य राजधानी कौशाम्बी-नगरी आसीत् । तस्यां नगर्यां सुमुह-नामकः कश्चन राजा आसीत् । कौशाम्बी-नगर्यां वीरक-नामकः कश्चन जनः आसीत् । सुमुहः राजा वीरकस्य पत्न्याः वनमालायाः आकृष्टः जातः । सुमुहः वनमालां बलात् राजप्रासादे आनीतवान् । समयान्तरे वनमाला सुमुहस्य परमप्रिया राज्ञी अभवत् । वीरकः पत्न्याः विरहेण अर्धविक्षिप्तावस्थायां जीवितः आसीत् । किञ्चित् समयान्तरे सः बालतपस्वी अभवत् ।
एकदा राजा सुमुहः वनमालया सह विहारार्थं वनं गतः । तत्र सः वीरकं दृष्टवान् । वीरकस्य स्थितिं दृष्ट्वा राजा सुमुहः मनसि पश्चात्तापं कुर्वन् आसीत् यत् – “मया अनुचितं कार्यं कृतम् आसीत् । मे दोषात् एव वीरकस्य एतादृशी स्थितिः जाता” । वनमाला अपि पश्चात्तापं कुर्वती आसीत् । अनेन कारणेन द्वयोः मनुष्यस्य आयुर्बन्धः अभवत् । तस्मिन् एव क्षणे तयोः उपरि विद्यत् आपतितः । तेन तयोः प्राणाः निर्गताः । तौ यौगलिकभूमौ हरिवासे युगलस्वरूपेण अजायताम् ।
वीरकेन आजीवनम् अज्ञानतपः कृतम् । अन्ते सः प्रथमे सौधर्मदेवलोके किल्विषी-नामकः देवः अभवत् । सः कालज्ञानी आसीत् । वीरकः राज्ञा सुमुहेन सह वनमालां भोगभूमौ अपश्यत् । तौ दृष्ट्वा वीरकः अत्यन्तः क्रुद्धः जातः ।
सः व्यचारयत् – अधुना एव सुमुहस्य हननं करोमि । किन्तु अस्य हननेन प्रयोजनस्य सिद्धिर्न भविष्यति । यत्र कर्मबन्धः भवेत् तत्रैव मया अयं सुमुहः प्रेषणीयः । अतः सः कस्यचित् राज्यस्य राजा भवितव्यः । यदि सः मांसमदिरयोः भोगं करिष्यति चेत् तस्य नरकगमनं भविष्यति । नरके तस्मै दुःखस्य प्राप्तिर्भविष्यति ।
चम्पा-नगर्याः राज्ञः तस्मिन् समये अवसानम् अभवत् । अतः तस्याः नगर्याः राजा कोऽपि नासीत् । यतः सः नरेशः सन्तानहीनः आसीत् । अतः देवेन चम्पानगर्याम् आकाशवाणी कृता यत् – "भवतां राजाविषयिकी या समस्या वर्तते, तस्याः समस्यायाः उपायः अहं ददामि । अहम् एकं युग्मं प्रेषयामि । तत् युग्मं भवतः राज्यस्य सञ्चालनं करिष्यति । भवद्भिः तस्मै युग्माय मद्यमांसाः, भोगसामग्र्यः च दात्तव्याः । अनन्तरं भवतां राज्यस्य समृद्धिः वर्धिष्यते” ।
देवेन द्वयोः औन्नत्यं न्यूनीकृतम् । तयोः आयुष्यम् अपि न्यूनं कृतम् । नगरजनैः तयोः राज्याभिषेकः कृतः । अनन्तरं तौ भोगासक्तौ अभवताम् । तेन तौ नरकं गतवन्तौ ।
इयमेका आश्चर्यमयी घटना आसीत् । यतः यौगलिकानां नरकगमनं न भवति स्म । अतः तयोः हरिवासयुग्मयोः एव हरिवंशस्य उत्पत्तिर्जाता । सः शीतलनाथश्रेयांसनाथयोः मध्यकालीनः समयः आसीत् । हरिवंशे बहवः प्रतापिनः, शक्तिशालिनः, धर्मात्मानः च राजानः अभवन् । तेषु राजसु पृथ्वीपतिः, महागिरिः, हिमगिरिः, वसुगिरिः, दक्षः, महेन्द्रदत्तः, शङ्खः, वसुश्चेत्यादयः राजानः आसन् ।
वसुः नामकः राजा आकाशे उच्चसिंहासने उपविशति इति शास्त्रेषु वर्णनं प्राप्यते । सः वसुः हरिवंशीयः एव आसीत् । ततः परं दीर्घबाहुः, वज्रबाहुः, सुभानुः च अभवत् । सुभानोः पुत्रः यदुः हरिवंशस्य पराक्रमी प्रभावशाली च राजा अभवत् । यदोः वंशे सौरीवीरनामानौ शक्तिशालिनौ राजानौ अभवताम् । राज्ञा सौरिणा सौरिपुरं, राज्ञा वीरेण सौवीर-नगरं च स्थापितम् [३]।
नेमिनाथस्य पैतृककुलम्
[सम्पादयतु]हरिवंशे यः सौरी-नामकः राजा आसीत्, तस्य अन्धकवृष्णिः, भोगवृष्णिः इत्येतौ द्वौ पुत्रौ अभवताम् । अन्धकवृष्णेः दशपुत्राः आसन् । ते – समुद्रविजयः, अक्षोभः, स्तिमितः, सागरः, हिमवान्, अचलः, धरणः, पूरणः, अभिचन्दः, वसुदेवः च । ते पुत्राः दशार्हः इति नाम्ना ख्याताः आसन् । तेष् पुत्रेषु समुद्रविजयः ज्येष्ठः, वसुदेवः कनिष्ठश्च आसन् ।
समुद्रविजयः अत्यन्तः न्यायशीलः, प्रजावत्सलः, उदारश्च आसीत् । वसुदेवः स्वस्य पराक्रमेण सर्वत्र कीर्तिः स्थापिता । समुद्रविजयस्य चत्वारः पुत्राः आसन् । ते – अरिष्टनेमी, रथनेमी, सत्यनेमी, दृढनेमी च । शिवादेवी तेषां माता आसीत् ।
वसुदेवस्य द्वौ पुत्रौ आस्ताम् । तौ - कृष्णः, बलरामश्च । तयोः मातारौ देवकी रोहिणी च । कृष्णः अरिष्टनेमिनाथस्य पितृव्यस्य पुत्रः आसीत् [४]।
पराक्रमः
[सम्पादयतु]जरासन्धेन सह युद्धम्
[सम्पादयतु]यदा अरिष्टनेमी प्रायः चत्वारः वर्षदेशीयः आसीत् । तदा कृष्णेन कंसस्य हननं कृतम् आसीत् । कंसस्य पत्नी जीवयशा कृष्णात् खिन्ना अभवत् । अतः तया सम्पूर्णः वृत्तान्तः स्वस्य पित्रे प्रतिवासुदेवाय जरासन्धाय श्रावितः । जरासन्धेन यदुवंशस्य समूलं नाशं कर्तुं निश्चयः कृतः आसीत् । यतः जीवयशया प्रतिज्ञा कृता आसीत् यत् – “यदा अहं कृष्णबलरामाभ्यां सहित समग्रयदुवंशस्य विनाशं द्रक्ष्यामि तदैव शान्तिम् अनुभविष्यामि । अन्यथा अग्निं प्रवेक्ष्यामि” इति ।
कालकुमारः जरासन्धस्य पुत्रः, सेनापतिः च आसीत् । जरासन्धः युद्धाय कालकुमारं सेनया सह प्रेषितवान् । कुलदेव्याः कृपया सर्वे यादवाः समुद्रतटं प्राप्तवन्तः । तत्र देवसाहाय्येन जनाः समुद्रतटे सर्वसौकर्ययुतायाः द्वारिका-नगर्याः निर्माणम् अकुर्वन् । तस्यां नगर्यां सर्वे यादवाः सुखेन जीवन्ति स्म । कुलदेव्याः मायया कालकुमारः हतः ।
द्वारिका-नगर्यां कृष्णबलरामौ अपि निवसन्तौ आस्ताम् । तत्रैव ताभ्यां राज्यं विस्तारितम् । यादवानां समृद्धिविषयिकी, ऐश्वर्यविषयिकी च चर्चा विस्तृता जाता । यदा जरासन्धः इमं सन्देशं प्राप्तवान्, तदा सः क्रुद्धः जातः । जरासन्धेन पुत्रस्य कालकुमारस्य मृत्योः वैरोद्धाराय, पुत्र्याः जीवयशायाः प्रतिज्ञायै च स्वयं युद्धं कर्तुं निर्णयः कृतः ।
सर्वा सेना युद्धस्थलं प्राप्तवती । बहवः राजानः युद्धस्थलं प्राप्य समुद्रविजयम् अवबोधितवन्तः यत् – “अस्माकमुपरि वसुदेवस्य बहवः उपकाराः सन्ति । अतः अस्माभिः अपि वसुदेवस्य साहाय्यं कर्त्तव्यम् । जरासन्धस्य, यादवानां च मध्ये भयङ्कर्ं युद्धम् आरब्धम् । तस्मिन् युद्धे बहवः योद्धारः हताः । यादवैः जरासन्धस्य बहवः पुत्राः हताः । अतः जरासन्धः अपि यादवान् हन्तुं शराणां वर्षां कुर्वन् आसीत् । तेन यादवसेना बलहीना जाता ।
अरिष्टनेमी अपि युद्धे समुपस्थितः आसीत् । इन्द्रेण अरिष्टनेमिने युद्धं कर्तुम् एकः सुसज्जः रथः मातलि-नामकेन सारथिना सह प्रेषितः । अवसरं प्राप्य नेमिकुमारः युद्धस्य दायित्वम् अवहत् । नेमिकुमारः पुरन्दरशङ्खं ननाद । शङ्खनादेन शत्रवः कम्पमानाः जाताः । यादवेषु उत्साहवर्धनम् अभवत् । अन्ते श्रीकृष्णेन सुदर्शनचक्रेण हतः जरासन्धः । सः ऐतिहासिकः विजयः आसीत् । तावदेव कृष्णः नवमः वासुदेवः, बलरामः च नवमः बलदेवः अभवत् [५]।
असीमितबलम्
[सम्पादयतु]एकदा नेमिकुमारः विचरन् कृष्णस्य शस्त्रागारं प्राप्तवान् । शस्त्रागारे नेमिकुमारेण पाञ्चजन्यः शङ्खः दृष्टः । नेमिकुमारः तच्छङ्खं ननाद । पाञ्चजन्यशङ्खस्य नादं श्रुत्वा बहवः जनाः मूर्च्छिताः अभवन् । कृष्णबलभद्रौ शस्त्रागारं प्रति धावितवन्तौ । तौ विचारितवन्तौ यत् – “अपरः कः वासुदेवः जातः, यः पाञ्चजन्यशङ्खम् अवादयत्" । यतः वासुदेवं विहाय कोऽपि पाञ्चजन्यशङ्खं वादयितुम् असमर्थः । यदा तौ शस्त्रागारं प्राप्तवन्तौ, तदा शस्त्रसंरक्षकेन ज्ञातं यत् – “नेमिकुमारः तच्छङ्खं ननाद" ।
कृष्णेन विचारितं यत् – “अस्य शङ्खस्य वादनम् अपि अद्भुतः पराक्रमः अस्ति । यतः केवलं वासुदेवः एव इमं शङ्खं वादयितुं शक्नोति । अग्रजः बलरामः अपि असमर्थः अस्ति” इति । कृष्णः चिन्ताग्रस्तः आसीत् यत् – “आवयोः को बलवान्? अहं वा अरिष्टनेमी” ? इति ।
अनया चिन्तया कृष्णेन कतिद्दिवसानन्तरं स्वस्य नेमिनः च बाहुबलस्पर्धा आयोजिता । मल्लशालायां सर्वे मिलितवन्तः । तत्र स्पर्धा आरब्धा । बाहुबलस्पर्धायां नेमिकुमारेण कृष्णः पराजितः । कृष्णेन द्वाभ्यां हस्ताभ्यां प्रयासः कृतः । तथापि कृष्णः किमपि कर्तुम् असमर्थः आसीत् । स्वल्पे समये एव नेमिकुमारः विजयं प्राप्तवान् । सर्वे जनाः अपि चकिताः अभवन् ।
सर्वत्र नेमिकुमारस्य बलस्य प्रशंसा जाता । अन्ते कृष्णः नेमिकुमारम् आलिङ्ग्य उक्तवान् यत् – “एतादृशः बलवान् मे अनुजः । इदानीम् कस्मात् अपि भयम् एव नास्ति । कोऽपि राजा अस्माकं राज्यं जेतुं न शक्ष्यति । अहं मे भ्रातरि गर्वम् अनुभवामि । अनेन ज्ञायते यत् – “नेमिकुमारस्य बलस्य काऽपि सीमा नासीत् । तस्य बलम् असीमितम् आसीत्[६] ।
विवाहनिरसनं, दीक्षा च
[सम्पादयतु]एकदा कृष्णस्य मनसि नेमिकुमारस्य विवाहस्य विचारः आगतः । “नेमिकुमारः निर्विकारः अस्ति । सः भोगमार्गे आकृष्टः भवेत् इति आवश्यकता अस्ति” इति विचिन्त्य कृष्णेन रुक्मिण्यै, सत्यभामायै च अस्य कार्यस्य दायित्वं प्रदत्तम् ।
रुक्मिणी, सत्यभामा च अस्मिन् कार्ये संलग्ना जाता । एकदा ताभ्यां नेमिकुमारः उक्तः यत् – “आवां त्वया सह जलक्रीडां कर्तुम् इच्छावः । नेमिकुमारः भ्रातृजाययोः आग्रहं निराकर्तुम् अक्षमः आसीत् । अतः सः तयोः सह सरोवरे बहुसमयं यावत् जलक्रीडां कुर्वन् आसीत् । तस्मिन्नैव समये रुक्मिणी, सत्यभामा च विवाहाय आग्रहं कृतवती यत् – “भवता विवाहः करणीयः । यादववंशीयः अस्ति तथापि अविवाहितः भवान् । एतन्नोचितम् । सर्वे यदुवंशीयाः लज्जाम् अनुभवन्ति । किं भवान् इमं प्रस्तावं स्वीकरोति खलु" ?
नेमिकुमारेण अवधिज्ञानेन भविष्यत्कालं ज्ञातं यत् – “विवाहस्य सज्जता एव मे दीक्षायाः निमित्तं भविष्यति” इति । अतः नेमिकुमारेण स्मितेन सह भ्रातृजाययोः आग्रहः स्वीकृतः । नेमिकुमारस्य स्वीकृतिं प्राप्य सर्वे विवाहस्य सज्जतां कुर्वन्तः आसन् । सर्वे प्रसन्नाः अभवन् ।
सर्वे राजकन्यानां विषये विचारं कुर्वन्तः आसन् । तदैव सत्यभामा उक्तवती यत् - “मम अनुजा नेमिकुमाराय योग्या वर्तते” । श्रीकृष्णः अपि सत्यभामायाः विचारं स्वीकृतवान् । तत्कालमेव कृष्णेन उग्रसेनेन साकं तत्पुत्र्याः विषये चर्चा कृता । तदा उग्रसेनेन उक्तं यत् – “इदं मम महत्सौभाग्यम् अस्ति । मम एका पुत्री पूर्वतः एव यदुवंशे निवसति । इदानीम् अपरा कन्या नेमिकुमारस्य पत्नी भविष्यति । अतः अहम् इमं प्रस्तावं स्वीकरोमि । किन्तु मम एका इच्छा अस्ति यत् – “भवद्भिः मम राज्यम् आगत्य एव विवाहं कृत्वा कन्या नेतव्या भविष्यति” ।
श्रीकृष्णेन उग्रसेनस्य प्रस्तावः स्वीकृतः । कृष्णः त्वरितमेव विवाहस्य व्यवस्थां कुर्वन् तत्परः अभवत् । कृष्णः चातुर्मासस्य श्रावण-मासस्य शुक्लपक्षस्य षष्ठीं तिथिं विवाहाय निश्चितवान् । तस्यां तिथौ सर्वैः बान्धवैः सह नेमिकुमारः सुसज्जितरथे उपविश्य विवाहाय गतवान् आसीत् ।
यदा ते उग्रसेनस्य राज्यं प्राप्तवन्तः, तदा नेमिकुमारेण मार्गे एकस्मिन् स्थले भयग्रस्ताः बहवः पशवः दृष्टाः । नेमिकुमारेण सारथिः पृष्टः यत् – “किमर्थम् एतावन्तः पशवः सन्ति” ? तदा सारथिना उक्तं यत् – “एते सर्वे पशवः भवतः विवाहप्रसङ्गाय आनीताः सन्ति । भोजनप्रसङ्गे एतेषां पशूनां मांसस्य परिवेषणं भविष्यति ।
तच्छ्रुत्वा नेमिकुमारस्य हृदयः परिवर्तनम् अभवत् । तेन नेमिकुमारेण तस्मिन्नैव समये विवाहं निरस्य सारथिने प्रतिगमनस्य आदेशः प्रदत्तः । कृष्णबलरामाभ्यां नेमिकुमारः आशंसितः यत् – “इत्थं मा कुरु” । किन्तु नेमिकुमारेण दृढतापूर्वकं तयोः विचाराः अस्वीकृताः । यतः तस्य मनसि वैराग्यस्य भावना उद्भूत । अतः सः विरक्तः जातः । सः पुनः द्वारका-नगरीं प्राप्तवान् आसीत् । सर्वे बान्धवाः अपि पुनः द्वारकानगरीं प्राप्तवन्तः । सः संसारसागरात् मुक्तिं प्राप्तुम् इच्छति स्म । अतः नेमिकुमारेण अविवाहितः भूत्वा एव दीक्षां स्वीकर्तुं निर्णयः कृतः आसीत् [७]।
ततः परं नेमिकुमारः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता नेमिनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा श्रावण-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ चित्रा-नक्षत्रे भगवान् नेमिनाथः सहस्रजनैः सह सौरिपुर-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् ।
उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता नेमिनाथेन दीक्षा अङ्गीकृता । दीक्षायाः दिवसे भगवान् अठ्ठमतपः कृतवान् । अपरे दिने भगवता नेमिनाथेन वरदत्त-नामकस्य ब्राह्मणस्य गृहे परमान्नं क्षीराहारः वा गृहीतः ।
केवलज्ञानम्
[सम्पादयतु]दीक्षानन्तरं चतुर्पञ्चाशद्रात्रीः यावत् भगवान् नेमिनाथः रहसि आसीत् । भगवता नेमिनाथेन चतुर्पञ्चाशद्रात्रीः यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सौरिपुरस्य सहस्राम्रोद्यानं प्राप्तवान् ।
सौरिपुरे आश्विन-मासस्य कृष्णपक्षस्य अमावास्यायां तिथौ चित्रा-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [८]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च कैवल्यमहोत्सवम् आचरितवन्तः ।
ततः परं भगवता नेमिनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः विरक्ताः अभवन् । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । भगवतः नेमिनाथस्य प्रवचनस्य प्रभावः तादृशः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः ।
धार्मिकः परिवारः
[सम्पादयतु]यदा भगवान् नेमिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा नेमिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[९]।
- ११ गणधराः
- १,५०० केवलज्ञानिनः
- १,००० मनःपर्यवज्ञानिनः
- १,५०० अवधिज्ञानिनः
- १,५०० अवैक्रियलब्धिधारिणः
- ४०० चतुर्दशपूर्विणः
- ८०० चर्चावादिनः
- १८,००० साधवः
- ४०,००० साध्व्यः
- १,६९,००० श्रावकाः
- ३,३६,००० श्राविकाः
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “वरदत्तस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
राजीमत्याः विरक्तिः
[सम्पादयतु]राजीमती राज्ञः उग्रसेनस्य पुत्री, सत्यभामायाः अनुजा च आसीत् । राजीमती रूपवती, बुद्धिमती, लावण्यमयी, सुशीला, सर्वगुणयुता च आसीत् । अरिष्टनेमिना सह विवाहेन सा अतीव प्रसन्ना आसीत् । यदा अरिष्टनेमिना अन्तिमसमये विवाहः निराकृतः, तदा राजीमत्याः हृदये दुःखम् अभवत् । अशुभवार्त्तां श्रुत्वा राजीमती मूर्च्छिता जाता । यदा तया चैतन्यं प्राप्तं तदा अरिष्टनेमिनः अनुकरणं कर्तुं निर्णयः कृतः ।
अरिष्टनेमिनः अनुजः रथनेमी राजीमत्याः रूपलावण्यात् आकृष्टः अभवत् [१०]। सः राजीमत्या सह विवाहं कर्तुम् ऐच्छत् । अतः सः राजीमतीं मेलितुं वारं वारम् उग्रसेनस्य राजप्रासादं गच्छति स्म । एकस्मिन् दिवसे अवसरं प्राप्य रथनेमिना राजीमत्या सह विवाहस्य प्रस्तावः प्रस्थापितः । तदा राजीमत्या ज्ञातं यत् – “रथनेमी विवाहं कर्तुं मया मेलितुम् आगच्छति स्म" ।
राजीमत्या रथनेमिनः प्रस्तावः अस्वीकृतः । तथापि रथनेमी बहून् प्रयासान् कृतवान् । तेन त्रस्ता राजीमती एकां युक्तिं विचारितवती । राजीमती क्षीरं भुक्त्वा रथनेमिने एकं पात्रम् आनेतुम् उक्तवती । यदा रथनेमी पात्रम् आनीतवान्, तदा राजीमत्या तस्मिन् पात्रे वमनं कृतम् । अनन्तरं तद्वमनं तया रथनेमिने भोक्तुम् उक्तम् । रथनेमी क्रुद्धः जातः । रथनेमिना उक्तं यत् – “किमर्थं भवती विडम्बयति ? किं भवती न जानाति यत् – “वमितपदार्थः अभक्ष्यः” इति । किम् अहं श्वा दृश्ये” ?
तदा राजीमती उक्तवती यत् – “यदि भवान् जानाति यत् – “वमितपदार्थः अभक्ष्यः” वर्तते, तर्हि किमर्थं भवतः मनसि मया सह विवाहस्य इच्छा वर्तते । अहं भवतः ज्येष्ठस्य अरिष्टनेमिनः वमिता त्यक्ता वा अस्मि” । अतः पुनः अस्य विषयस्य चर्चा मास्तु” । रथनेमी किमपि वक्तुम् असर्मथः आसीत् अतः लज्जाम् अन्वभवत् । सः पुनः स्वराज्यं प्राप्तवान् । किञ्चित्समयान्तरे रथनेमी विरक्तः जातः । अनन्तरं तेन दीक्षा अङ्गीकृता । समयान्तरे राजीमत्या अपि शताधिकाभिः स्त्रीभिः सह दीक्षा अङ्गीकृता । दीक्षानन्तरं सा साधनां कर्तुं तत्परा अभवन् । श्रीकृष्णेन अपि राजीमत्यै आशीर्वादाः प्रदत्ताः ।
राजीमती अरिष्टनेमिनः दर्शनार्थम् अनेकाभिः साध्वीभिः सह रेवतगिरिपर्वताय प्रस्थितवती । यात्रायां प्राकृतिकिभिः आपद्भिः अवरोधः जातः । वातप्रकोपेण, वृष्टिप्रकोपेण च सर्वाः साध्व्यः विभक्ताः जाताः । वृष्ट्या राजीमत्याः वस्त्राणि आर्द्राणि जातानि आसन् । समीपे एकां गुहाम् अलभत । तत्र अन्धकारः आसीत्, अतः तया सर्वाणि वस्त्राणि शुष्कीकर्तुं निष्कासितानि ।
गुहायाम् अरिष्टनेमी उपविष्टः आसीत् । अशन्याः (Flash of lighting) स्फुरणेन अनावृत्तां राजीमतीं दृष्ट्वा अरिष्टनेमिनः मनसि आसक्ति उद्भूता । सः राजीमत्यै सम्भोगाय उक्तवान् । किन्तु राजीमत्या पुनः वस्त्राणि धृत्वा अरिष्टनेमी अवबोधितः । अरिष्टनेमी पुनः विरक्तिम् अलभत । अनन्तरम् अरिष्टनेमिना प्रायश्चित्तं कृत्वा सिद्धत्वं प्राप्तम् । राजीमत्या अपि साधना आरब्धा । अन्ते सा मुक्तिं प्रापत् [११]।
द्वारिकादहनस्य भविष्यवाणी
[सम्पादयतु]भगवता नेमिनाथेन सर्वज्ञकाले बहूनां जनपदां यात्रा कृता । किन्तु तेन तेषु जनपदेषु द्वारिका-नगर्याः सर्वाधिकं भ्रमणं कृतम् आसीत् । एकदा नेमिनाथः द्वारिका-नगरीम् आगतः । तदा कृष्णस्य पारिवारिकजनाः, नागरिकाः च रेवतगिरिपर्वतं भगवतः नेमिनाथस्य प्रवचनं श्रोतुं गतवन्तः ।
प्रवचनं श्रुत्वा कृष्णेन पृष्टं यत् – “सर्वेषां वस्तूनां विनाशः निश्चितः एव । अतः द्वारिका-नगर्याः नाशः कदा भविष्यति” ? नेमिनाथेन उक्तं यत् – “द्वादशवर्षाणाम् अनन्तरं दीपायनर्षेः क्रोधेन द्वारिका-नगर्याः दहनं भविष्यति” । द्वारिकादहनस्य वार्तां श्रुत्वा जनाः चिन्ताग्रस्ताः जाताः । कृष्णेन पुनः पृष्टं यत् – “द्वारिकादहनस्य प्रयोजनं किं भविष्यति” ? भगवता उक्तं यत् – “मद्यपानेन उन्मत्ताः यादवकुमाराः दीपायनर्षिं त्रस्यन्ति । तेन खिन्नः ऋषिः द्वारिकादहनस्य निदानं करिष्यति । तस्य मृत्योः अनन्तरं देवः भविष्यति । पश्चात् सः द्वारिका-नगर्याः दहनं करिष्यति ।
अनन्तरं कृष्णेन पुनः एकः प्रश्नः पृष्टः यत् – “मम मृत्युः कदा भविष्यति” इति ? नेमिनाथः उक्तवान् यत् – “जराकुमारस्य बाणेन भवतः मृत्युः भविष्यति” । कृष्णनेमिनाथयोः सम्भाषणं श्रुत्वा जनाः स्तब्धाः अभवन् । बहवः जनाः विरक्ताः अभवन् । तैः सर्वैः दीक्षा अङ्गीकृता । दीपायनर्षिः, जराकुमारः च द्वारिकां त्यक्त्वा वनं गतवन्तौ [१२]।
मदिराप्रतिबन्धनम्
[सम्पादयतु]द्वारिका-नगर्यां सर्वत्र इयं चर्चा एव जायमाना आसीत् । अतः सर्वैः निर्णितं यत् – “द्वारिकादहनस्य कारणं यदि मदिरा एव अस्ति, तर्हि मदिरायाम् एव प्रतिबन्धनं कर्तव्यम्” इति । निर्णयं कृत्वा जनाः मदिरायाः प्रतिबन्धाय प्रयासान् कुर्वन्तः आसन् । द्वारिका-नगर्यां यावत् मद्यसङ्ग्रहः आसीत्, तत्सर्वः सङ्ग्रहः सुदूरेषु वनेषु क्षेपितः । द्वारिका-नगर्यां मदिरायाः निर्माणम् अपि अवरुद्धम् । इतः परं द्वारिका-नगर्यां मदिरायाः आनयनम् अपि प्रतिषिद्धम् आसीत् [१३]।
दीपायनर्षेः निदानम्
[सम्पादयतु]कृष्णेन द्वारिका-नगर्याम् उद्घोषितं यत् – “यदि कोऽपि जनः दीक्षां स्वीकर्तुम् इच्छति, तर्हि शीघ्रं कुरु” । यस्य कस्यापि गृहविषयिकी काऽपि समस्या स्यात्, चेत् मां कथयतु । अहं सर्वेषां समस्याः निवारयिष्यामि । कस्यचित् पितरौ वृद्धौ स्याताम् चेत् अहं तेषां सेवां करिष्यामि । यदि कस्यचित् लघुबालकाः स्युः, तर्हि तेषां पालनम् अपि अहं करिष्यामि । अतः ये दीक्षां स्वीकर्तुम् इच्छन्ति तैः सर्वैः चिन्तया विना दीक्षा स्वीकर्त्तव्या । इदानीमहं गृहस्थोऽस्मि । सर्वेषां जनानां व्यावहारिकं दायित्त्वं वक्ष्यामि” ।
कृष्णस्य उद्घोषणां श्रुत्वा बहवः जनाः साधुपदं स्वीकृतवन्तः । किन्तु विधेः विधानं कोऽपि परिवर्तयितुं न शक्नोति । मदिरायाः सङ्ग्रहाः नाशिताः । वर्षर्तौ वर्षा जाता । तया वर्षया समीपस्थाः तडागाः सरोवराः आपूरिताः जाताः । शाम्बादयः यादवकुमाराः भ्रमणार्थं वनं गतवन्तः । ते तृषिताः आसन् । अतः तैः तडागस्य जलपानं कृतम् । तस्य तडागस्य जले मदिरायाः मिश्रणम् आसीत् । अतः मदिरया यावदकुमाराः उन्मत्ताः अभवन् । वने दीपायनर्षिः तपस्यां कुर्वन् आसीत् । उन्मत्तैः यादवकुमारैः दीपायनर्षिः त्रस्तो जातः । दीपायनर्षिः किञ्चित्समयं यावत् शान्तः आसीत् । किन्तु यातनाभिः त्रस्तः दीपायनर्षिः क्रुद्धः जातः । क्रोधे सति तेन उक्तं यत् – “निश्चितसमयावसरे अहं द्वारिका-नगरीं दाहयिष्यामि ।
मुनेः वचनं श्रुत्वा यादवकुमाराः स्तब्धाः अभवन् । सर्वे पश्चात्तापं कुर्वन्तः आसन् । कृष्णेन यादवकुमाराणाम् उद्दण्डता ज्ञाता । कृष्णबलरामाभ्यां दीपायनर्षेः प्रार्थना कृता । कृष्णबलरामयोः अत्यन्तविनयेन अपि दीपायनर्षेः क्रोधः शान्तः न जातः । एतावत् विनयेन मुनिः केवलं कृष्णबलरामाभ्याम् एव वैरोद्धारात् मुक्तिम् अददात् [१४]।
तीर्थङ्करत्वस्य भविष्यवाणी
[सम्पादयतु]नेमिनाथः पुनः द्वारिका-नगरीमागतः । खिन्नं कृष्णं दृष्ट्वा नेमिनाथः पृष्टवान् यत् – “कृष्ण ! का समस्या अस्ति” ? तदा कृष्णः उक्तवान् यत् – “बहवः जनाः साधुत्वं स्वीकुर्वन्तः सन्ति । मया अपि किं करणीयम् ? भगवता उक्तं यत् – “भवान् चिन्तां मा कुरु । अग्रिमायाम् उत्सर्पिण्यां भवान् ‘अमम’-नामकः द्वादशः तीर्थङ्करः भविष्यति” । सर्वे जनाः प्रसन्नाः अभवन् ।
नेमिनाथः विचरणं कृत्वा अन्यत्र गतवान् । जनाः धर्मोपासनायां लीनाः अभवन् । दीपायनर्षिः स्वस्य आयुष्यं पूर्णीकृत्य अग्निकुमार-नाम्ना देवस्वरूपेण देवलोके उद्भूतः । तेन अवधिज्ञानेन पूर्वजन्मनः वैरोद्धारः ज्ञातः । पुनः तस्य मनसि वैरोद्धारस्य भावना जागृता । तस्मिन् समये एव अग्निकुमारः (दीपायनर्षिः) द्वारिकां दग्धुं भूलोकम् आगतः । किन्तु प्रतिगृहम् उपासनां दृष्ट्वा सः द्वारिकां दग्धुम् असमर्थः । बहुवर्षाणि यावत् सः अवसरस्य प्रतीक्षां कुर्वन् आसीत् ।
एकादशवर्षाणि व्यतीतानि । अतः जनाः विचारितवन्तः यत् – “सङ्कटसमयः गतः” । इदानीं तपस्यायाः आवश्यकता नास्ति । सर्वैः जनैः तत्कालमेव तपस्या त्यक्ता । दीपायनर्षिः अवसरं प्राप्य अग्निवर्षां चकार । अग्निवर्षया द्वारिकानगरी भस्मीभूता । कृष्णबलरामाभ्यां सर्वान् रक्षितुं प्रयासाः कृताः । किन्तु तौ किमपि कर्तुम् असमर्थौ आस्ताम् । कृष्णस्य पिता वसुदेवः, माता रोहिणी, देवकी इत्येताः अपि दिवङ्गताः [१५]। अनेन प्रकारेण नेमिनाथतीर्थङ्करस्य भविष्यवाणी पूर्णा जाता ।
निर्वाणम्
[सम्पादयतु]तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता नेमिनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः षड्त्रिंशताधिकपञ्चशतेन साधुभिः सह सम्मेदशिखरं प्राप्तवान् । तत्र नेमिनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।
एकमासस्य अनशनान्ते आषाढ-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ चित्रा-नक्षत्रे रेवतगिरिनामके पर्वते भगवतः नेमिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [१६]।
नेमिनाथेन कौमारावस्थायां त्रिशतस्य वर्षाणां, दीक्षायां सप्तशतस्य वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकसहस्रं वर्षाणि भुक्तानि आसन् [१७]।
भगवतः अरिष्टनेमिनः शासनकाले ब्रह्मदत्त-नामकः अन्तिमः चक्रवर्ती राजा अभवत् । सः कम्पिलपुर-नगरस्य राज्ञः ब्रह्मपितुः पुत्रः आसीत् । तस्य मातुः नाम ’चूलनी’ इति आसीत् । ब्रह्मदत्तस्य बाल्यकाले बहवः समस्याः समुद्भूताः आसन् । तथापि अन्ते सः षड्खण्डानां चक्रवर्ती राजा अभवत् [१८]।
नमिनाथस्य निर्वाणानन्तरं पञ्चलक्षवर्षानन्तरं नेमिनाथस्य मोक्षः अभवत् ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये नेमिनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – नेमिनाथ
- श्री नेमिनाथ भगवान[नष्टसम्पर्कः]
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३७
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १२५
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४५-१४६
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४७
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४७-१४८
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४८-१४९
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५०-१५१
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३२
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६४
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५३
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५४
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५९-१६०
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६०
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६०-१६१
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६१-१६२
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३६
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६५
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६३