पद्मप्रभुः
पद्मप्रभुः | |
---|---|
षष्ठः जैनतीर्थंकरः | |
पद्मप्रभोः प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | १ × १०२२१ वर्षाणि पूर्वम् |
परिवारः | |
पिता | धरण |
माता | सुसीमा |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | कौशाम्बी |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | रक्तः |
चिन्हम् | कमलम् |
औन्नत्यम् | २५० धनुर्मात्रात्मकम् (७५० मीटर्) |
आयुः | ३०,००,००० पूर्वम् (२११.६८ × १०१८ वर्षाणि) |
शासकदेवः | |
यक्षः | कुसुम |
यक्षिणी | अच्युता |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
पद्मप्रभुः ( ( शृणु) /ˈpədməprəbhʊhʊ/) (हिन्दी: पद्मप्रभु,आङ्ग्ल: Padmaprabhu) भगवान् जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु षष्ठः तीर्थङ्करः अस्ति । भगवतः पद्मप्रभोः वर्णः रक्तः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं पद्म अस्ति । कौमारावस्थायां पद्मप्रभोः शरीरस्य औन्नत्यं सार्धद्विशतं (२५०) धनुर्मात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “कुसुम” इत्याख्यः यक्षः, अच्युता इत्याख्या शासनदेवी च आसीत् [१]। भगवतः पद्मप्रभोः प्रथमः गणधरः प्रद्योतनस्वामी, प्रथमः आर्यः रतिः च आसीत् ।
जन्म, परिवारश्च
[सम्पादयतु]एकत्रिंशत् सागरायुष्यानन्तरं भगवान् पद्मप्रभुः जम्बूद्वीपस्य भरतक्षेत्रस्य कौशाम्बीनगर्याम् अवातरत् । आश्विन-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ चित्रा-नक्षत्रे मध्यरात्रौ भगवतः पद्मप्रभोः जन्म अभवत् । सः इक्ष्वाकुवंशीयः आसीत् [२]।
भगवतः पद्मप्रभोः पिता धरणः, माता सुसीमा च आसीत् । माघ-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ चित्रानक्षत्रे रात्रौ राज्ञी सुसीमा तीर्थङ्करत्वसूचकान् चतुर्दशस्वप्नान् दृष्टवती [३]। आगामीदिवसे राज्ञा, राज्ञ्या च स्वप्नशास्त्रिणां साहाय्येन चतुर्दशस्वप्नानां फलादेशः सञ्ज्ञातः । स्वप्नानां निष्कर्षं ज्ञात्वा राज्ये आनन्दस्य वातावरणम् अभवत् ।
यदा भगवतः जन्म अभवत्, तदा सुसीमायै प्रसवपीडा अपि न जाता । इन्द्रादयः देवाः अपि भगवतः जन्मोत्सवम् आचरितुं मृत्युलोकं समागताः । अनन्तरं राज्ञा पुत्रजन्मनः उत्सवः आचरितः । एकादशदिनात्मकः अयमोत्सवः आसीत्[४] ।
पूर्वजन्म
[सम्पादयतु]भगवान् पद्मप्रभुः पूर्वजन्मनि सुसीमा-नगर्याः अपराजितः इत्याख्यः राजा आसीत् । घातकीखण्डद्वीपस्य पूर्वमहाविदेहस्य वत्सविजये सुसीमा-नगरी स्थिता आसीत् । राजापदं प्राप्य अपि अपराजितः राजा सन्तहृदयी आसीत् । वासनाभावात् सः मुक्तः आसीत् ।
राज्यस्य वृद्धजनाः अपि कथयन्ति स्म यत् “अस्माकं राज्ञि भोगदृष्ट्या कदापि युवावस्था न आगता । सः सदैव मुनिरिव निवसति । तस्य यौवनस्य उन्मादः कदापि न दृश्यते” ।
राज्यसञ्चालनस्य प्रक्रिया तु केवलं कर्त्तव्यपालनाय एव आसीत् । राजप्रासादेन सह तस्य कोऽपि सम्बन्धः एव नासीत् । सः सर्वं त्यक्तुम् इच्छति स्म । तेन अवसरं प्राप्य अनिकेतधर्मः स्वीकृतः । अपरं च बाह्यजगतः निवृत्तिः प्राप्ता । अनन्तरं सः आन्तरिकसाधनायाम् एकाग्रोऽभूत ।
तीर्थङ्करगोत्रबन्धस्य विंशतिकारणानां तेन विशिष्टा उपासना कृता । अन्ते अनशनं कृत्वा समाधिपूर्वकं प्राणत्यागः कृतः [५]।
भगवतः नामकरणे प्रसङ्गे बहवः लोकान्तिकदेवाः समुपस्थिताः आसन् । यतः यदा यदा तीर्थङ्कराणाम् उत्सवः क्रियते स्म, तदा तदा चतुष्षष्ठीइन्द्राणां, लोकान्तिकदेवानां च उपस्थितिः आवश्यकी वर्तते स्म ।
नामकरणप्रसङ्गे सर्वैः स्वमतानि प्रदत्तानि । अन्ते राज्ञा धरणेन उक्तं यत् “यदा अयं बालकः गर्भस्थः आसीत्, तदा अस्याः माता पद्मशय्यायां शेतुम् इच्छति स्म । बालकः प्रभा अपि पद्म इव दृश्यते । अतः अस्य नाम पद्मप्रभकुमार इति करणीयम् । अन्ते सर्वेषां मतानुसारं पद्मप्रभुः इति नाम निश्चितम् । सर्वे जनाः देवताः च राज्ञः निर्णयेन सन्तुष्टाः आसन् [६] ।
बाल्यावस्थायाः परं यदा भगवान् पद्मप्रभुः युवावस्थायां प्राविशत्, तदा राज्ञा धरणेन सुयोग्याभिः कन्याभिः सह विवाहः कारितः । समयान्तरे राजा धरणः योग्यसमये पद्मप्रभोः राज्याभिषेकं कृतवान् । समग्रराज्यस्य दायित्वं धरणेन पद्मप्रभवे अदीयत । अनन्तरं राजा धरणः साधनायाम् एकाग्रोऽभूत् ।
राज्यम्
[सम्पादयतु]भगवान् पद्मप्रभुः निर्लिप्तभावेन राज्यं सञ्चालयति स्म । सः श्रेष्ठतया प्रजापालनं करोति स्म । यद्यपि तस्य कुमारावस्था आसीत्, तथापि जीवने उन्मादः एव नासीत् । किन्तु तस्य मनसि वात्सल्यं, प्रेम च आसीत् । प्रजानां हितस्य चिन्तने एव पद्मप्रभोः समयः गच्छति स्म ।
भगवतः पद्मप्रभोः राज्ये सर्वे जनाः सुखिनः आसन् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत् । जनाः भगवतः पद्मप्रभोः संरक्षणे निश्चिन्ताः आसन् । भगवते पद्मप्रभवे जनानां मनसि आत्मीयता आसीत् ।
राजत्यागः, दीक्षा च
[सम्पादयतु]दीर्घकालं यावत् भगवता पद्मप्रभोः राज्यस्य दायित्वं पालितम् । तेन भोगावलिकर्मणां भोगः कृतः । अनन्तरं सः दीक्षायै उद्यतोऽभवत् । लोकान्तिकदेवाः अपि पञ्चमस्वर्गलोकात् आगत्य निवेदनं कृतवन्तः यत् – “ प्रभो । विश्वस्य आध्यात्मिकोन्नयनाय प्रयत्नं करोतु” ।
भगवता पद्मप्रभुना उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । ततः परं भगवान् पद्मप्रभुः वार्षिकीदानस्य व्यवस्थां चकार । एकवर्षं यावत् भगवता पद्मपभुना वार्षिकीदानं कृतम् । जनाः आवश्यकतानुसारं दानं स्वीकुर्वन्ति स्म । कोऽपि जनः दानं स्वीकर्तुं शक्नोति स्म । अतः दूरप्रदेशेभ्यः अपि जनाः दानं स्वीकर्तुं आगच्छन्ति स्म ।
वार्षिकीदानस्य सन्देशं प्राप्य आर्यक्षेत्रस्य जनाः चिन्तिताः अभवन् । सहस्राधिकजनाः अपि विरक्ताः अभवन् । आश्विन-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ बहवः जनाः नगरं समागताः । तस्मिन् दिवसे भगवता पद्मप्रभुना दीक्षा अङ्गीकृता [७] ।
दीक्षायाः महोत्सवे नगरजनाः, लोकान्तिकदेवताः, चतुष्षष्ठीन्द्राः च समुपस्थिताः आसन् । भगवान् सुखपालिकायाम् उपविश्य उद्यानं सम्प्राप्तवान् । उद्याने वस्त्राभूषणानां त्यागः कृतः । सहस्रजनैः सह भगवान् पद्मप्रभुः श्रमणधर्मम् अङ्गीकृतवान् । तस्मिन् दिने भगवतः षष्ठः तपः आसीत् । अपरे दिने भगवता पद्मप्रभुना ब्रह्मस्थलस्य राज्ञः सोमसेनस्य गृहे प्रथमः आहारः स्वीकृतः[८]।
दीक्षानन्तरं सः सर्वथा ध्यानतपस्यायोः लीनः अभवत् । षड्मासेषु एव तेन सर्वज्ञता प्राप्ता । चैत्र-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ चित्रा-नक्षत्रे कौशाम्बीनगर्यां भगवता केवलज्ञानं सम्प्राप्तम्[९] [१०]। । तदा देवैः उत्सवः आचरितः । अनन्तरं भगवान् पद्मप्रभुः प्रवचनं कृतवान् । भगवतः प्रथमप्रवचनेन एव चतुर्तीर्थानां स्थापना जाता ।
धार्मिकः परिवारः
[सम्पादयतु]यदा भगवान् पद्मप्रभुः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां कृतवान्, तदा पद्मप्रभुः धार्मिकपरिवारस्य अपि रचनां चकार[११]।
- १०७ गणधराः
- १२,००० केवलज्ञानिनः
- १०,३०० मनःपर्यवज्ञानिनः
- १०,००० अवधिज्ञानिनः
- १६,८०० अवैक्रियलब्धिधारिणः
- २,३०० चतुर्दशपूर्विणः
- ९,६०० चर्चावादिनः
- ३,३०,००० साधवः
- ४,२०,००० साध्व्यः
- २,७६,००० श्रावकाः
- ५,०५,००० श्राविका
निर्वाणम्
[सम्पादयतु]यदा भगवान् पद्मप्रभुः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र पद्मप्रभुः एकमासं यावत् अनशनञ्चकार । जलान्नं त्यक्त्वा केवलं साधनाम् अकरोत् । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं तेन सिद्धत्वं प्राप्तम् ।
कार्त्तिक-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ चित्रा-नक्षत्रे सम्मेदशिखरे भगवतः पद्मप्रभोः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन्[१२]।
पद्मप्रभुना कौमारावस्थायां सार्धसप्तलक्षं वर्षाण्याः, राज्ये सार्धैकविंशतिलक्षं वर्षा{याः, दीक्षायां षोडशपूर्वाङ्गः च आयुः भुक्तः । अनेन प्रकारेण तेन सम्पूर्णजीवने त्रिंशत् लक्षं वर्षाणि भुक्तानि आसन् [१३]।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये पद्मप्रभुः सम्बन्धिताः सञ्चिकाः सन्ति। |
- भारत डिस्कवरी - पद्मप्रभ
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – पद्मप्रभुनाथ जी
- श्री पद्मप्रभु भगवान[नष्टसम्पर्कः]
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 71
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 59
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 71
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 69
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 71
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 73
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 73
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 72
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 72
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60