लता मङ्गेशकर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लता मङ्गेशकरः
व्यैक्तिकतथ्यानि
जन्मनाम लता दीनानाथ मङ्गेशकरः
ख्यातनाम हेमा
मूलतः इंदौर, मध्यप्रदेशराज्यम्, भारतम्
सङ्गीतविद्या चलच्चित्रसङ्गीतम् (नेपथ्यगायिका), भारतीयशास्त्रीयसङ्गीतम्
वृत्तिः गायिका
वाद्यानि गायिका
सक्रियवर्षाणि १९४२ तः- २०२१ ।


लता दीनानाथ मङ्गेशकर (जन्मदिनम् - क्रि.श.१९२९तमवर्षस्य सप्टम्बरमासस्य २८ तमदिनाङ्कः) (मृत्युः ०६-०२-२०२२ मुंबयी)भारतस्य सुप्रसिद्धा गायिका आसीत् । हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । सा भारतीयानां गायकानां मध्ये श्रेष्ठतमा गायिका इति गण्यते। सा ३६ भारतीय-भाषासु अन्यासु पाश्चात्यासु भाषासु च २५,००० गीतानि अगायत्। अतः तस्याः नाम 'Guinness Book of World Records' इति पुस्तके अपि सङ्गृहीतम् अस्ति। आशा भोसले मीना मङ्गेशकर उषा मङ्गेशकर च तस्याः भगिन्यः हृदयनाथमङ्गेशकरः च भ्राता। सा 'भारत-रत्नम्' इति मानदोपाधिम् अलभत्।

जन्म बाल्यं च[सम्पादयतु]

शास्त्रीयसङ्गीतकारस्य नाटकरङ्गपण्डितस्य पण्डितदीनानाथमङ्गेशकरस्य पुत्रीरूपेण लता मध्यप्रदेशराज्यस्य इन्दौरनगरे अजायत । मातुः मूलं नाम शेवन्ता इति किन्तु मायी इत्येव सम्बोधयन्ति स्म । दीनानाथस्य द्वितीया पत्नी एषा । प्रथमायाः नाम नर्मदा इति । नर्मदायाः मरणान्तरं तस्याः अनुजां शेवन्ताम् ऊढवान् । अस्याः नाम शुद्धिमती इति परिवर्तितवान् । कालान्तरेण श्रीमती मायि इत्येव प्रथिता अभवत् । दीनानाथः बलवन्तसङ्गीतमण्डली इति संस्थां चालयति स्म । दीनानाथः उत्तमः अभिनेता गायकः कृतिशीलसमाजसेवकः च आसीत् । कालान्तरेण समस्याभिः अस्य संस्था स्थगिता । लतायाः पूर्वतनं नाम हेमा इति । हेमायाः विविधप्रतिभां परिगण्य पिता प्रोत्साहं ददाति स्म । भावबन्धन इति नाटके अभिनेतुम् अवसरं कल्पितवान् । तत्पश्चात् अस्याः नाम लता इति अभवत् । लतया औपचारिकी शिक्षा विशेषरूपेण न प्राप्ता । कदाचित् शालायाम् अध्यापकः उपक्षिप्तवान् । अतः भीता एषा पुनः कदापि पाठशालां न गतवती । नाटकमञ्चः एव अस्याः पाठशाला अभवत् ।

नाटकरङ्गभूमिः[सम्पादयतु]

अयाः अभिनयस्य प्रसिद्धानि कानिचन रूपकाणि ।

  • १. त्राटिका
  • २. पुण्यप्रभाव
  • ३. सङ्गीतसौभद्रा
  • ४. गुरुकुल

सङ्गीतसुभद्रा इति रूपके अकस्मात् नारदस्य भूमिकाधारी अनुपस्थितः अभवत् । लता पितरं सम्प्रार्थ्य स्वयं तां भूमिकां पोषितवती । अष्टमवर्षीया लता प्रेक्षकानां भूरिप्रशंसां प्राप्तवती एव । पिता एव अस्याः प्रथमः गुरुः । पश्चात् रामकृष्ण बुवावचे, उस्ताद् अमानत् खान् इत्यादिभिः समर्थगुरुभिः सङ्गीतशिक्षां प्राप्तवती । बाल्ये एव भारतीयशास्त्रीयसङ्गीतस्य गायिका भविष्यामि इति अस्याः विश्वासः आसीत् । पिता स्वस्य ४१तमे वयसि एव दिवङ्गतः । १३वर्षीयायाः लतायाः स्कन्धे कुटुम्बस्य दायित्वम् आपतितम् । चतसृणाम् अनुजानाम्, एकस्य अनुजस्य, मातुः च दायित्वयुतः विशालः परिवारः पोषणीयः आसीत् । तथापि अभीता एषा ६२वर्षतः जीवनसङ्घर्षं कुर्वती । क्रि.श. १९४२तमे वर्षे सर्वप्रथमतया किती हसाल् इति मराठीभाषायाः चलच्चित्रार्थं गीतानि गीतवती । किन्तु तद्गीतं चलच्चित्रे न योजितम् । मङ्गलगौरी इति चलच्चित्रे अभिनयम् अपि कृतवती । क्रि.श. १९४७तमे वर्षे प्रथमवारं हिन्दीभाषायाः चलच्चित्रे नेपथ्यगायिका अभवत् । " आप की सेवा में " पांव् लागू कर् चोरीरे " इति गीतानि अस्याः कण्ठश्रिया हुस्न् लाल् भगत् राम् इतिख्यातः सङ्गीतसंयोजकः श्रुत्वा गातुम् अवसरं दत्त्वा प्रयोजनमपि प्राप्तवान् ।

अस्याः गानस्य प्रसिद्धस्वरप्रस्तारकाः[सम्पादयतु]

  • १. हुस्न लाल भगत राम , '(बड़ी बहन अर्थात् ज्येष्ठा भगिनी )'
  • २.श्यामसुन्दर - लाहौर
  • ४. खेमचन्द प्रकाशः - महल
  • ५. शङ्करजयकिशन् - गर्ल्स स्कूल

लतया स्वयं प्रशंसितानि गीतानि[सम्पादयतु]

  • १. चुप चुप खडी हो, जरूर कोई बात् है । (शब्दम् अकृत्वा स्थितवती अस्ति (हे प्रिये!),अवश्यं कोऽपि विषयः अस्ति)
  • २.आयेगा आनेवाला । (आगन्ता आगमिष्यति )
  • ३. उठाये जा उनके सितम ।
  • ४. हवा में उडता जाये , मेरा लाल दुपट्टा । (डयते मम रक्तवर्णम् उत्तरीयम् गगने)
  • ५. याद रखना चांद तारों ये सुहानी रात है । (अवगच्छ, हे! चन्द्रः नक्षत्राणि च, एषा निशा मोहिनी)

स्थानान्तरणम्[सम्पादयतु]

लतया सकुटुम्बं इन्दोरतः पुणेनगरम् आगता । कोल्हापुरे किञ्चित्कालम् अवसत् । क्रि.श. १९४७तमे वर्षे मुम्बयीनगरस्य नानाचौकप्रदेशे न्यवसत् । आनन्दधन इति नाम्ना मराठीभाषायाः चलच्चित्राणां निदेशनं करोति स्म । २२भाषाणां प्रायः १०,०००गीतानि लता गीतवती । अमेरिका-युरोपखण्डयोः अनेकस्थानेषु सङ्गीतगोष्ठीः सञ्चालितवती । शात्रीयसङ्गीतेन निबद्धः स्वरबद्धसंस्कारः, स्पष्टशब्दोच्चारणम्, अभिनेत्र्याः कण्ठानुगुणं गानं च अस्याः गानस्य विशेषता । फुले वेचिता इति ग्रन्थः अस्या आत्मकथनग्रन्थः ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • न्यूयार्क विश्वविद्यालयेन सह ६ विश्वविद्यालयानां गौरवडाक्टरेट् पदवी ।
  • तिरुमलतिरुपतिदेवस्थानतः आस्थानविदुषी इति पुरस्कारः ।
  • फ्रान्स् सर्वर्कारस्य आफीसर् अफ् दि लीजियन् आफ् आनर् ।

प्रसिद्धगीतानि[सम्पादयतु]

चलच्चित्रगीतगानेन अनुपमकीर्तिसम्पन्ना लता मङ्गेशकर अनेकानि गझल् भजनानि आधुनिककविताः च गीतवती । एतया एव इष्टानि कानिचन् सन्ति ।

  • रसिक बलमा ...(चोरि चोरि )।
  • ज्योति कलश छलके...(भाभी की चूडियाँ)।
  • ये दिल और उन की निगाहों के साये...(प्रेम् पर्बत् )।
  • कुहू कुहू बोले कोयलियाँ...(सुवर्णसुन्दरी)।
  • पङ्ख होती तो उड जाती रे...(सेहरा)।
  • नैनों में बद रा छाने...(मेरा साया)।
  • जाने कैसे सपनों में खो गयी अखियाँ...(अनुराधा) ।
  • तुम् न जाने किस् जहाँ में खो गएँ ...(सझा) ।
  • येरे मै तो प्रेम दिवानी नौ...(बहार्)।
  • यूं हसरतों की धाग...(अदालत्)।
  • ये ज़िन्दगी उसी कि है...(अनारकली)।
  • मोहे भुल् गये सावरियाँ ...(बैजू बाव्रा)
  • धीरे से आजारे अखियों में निन्दिया ; रैना भीत् जायें (गुड्डी)
  • पवन दिवानि कैसे जांवू जमुना के तीर् ।

मराठीगीतानि[सम्पादयतु]

  • घनश्याम सुन्दरा, श्रीधरा, अरुणोदय झाला(अमरभूपाली)
  • एरणिचा देवा तुला ठिण्गि ठिण्गी वाहूं दे (साधिमाणस)
  • लेक लाडकी या घर ची ।

लतायाः जीवनदृष्टिः[सम्पादयतु]

समर्पणभावः, त्यागः स्वकार्येषु श्रद्धा, निरन्तराभ्यासः इत्यादिगुणाः जीवने लतया पालिताः ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लता_मङ्गेशकर&oldid=464795" इत्यस्माद् प्रतिप्राप्तम्