सामग्री पर जाएँ

सदस्यः:Jayanth Ramaswamy/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चेम्बोलि फनीन्द्र
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम जयन्थ् सि र्
जन्म जयन्थ् सि र्
९ मे १९९७
बेङलुर
वास्तविकं नाम जयन्थ् सि र्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः जे पि नगर्
भाषा तमिल् , कन्नड , हिन्दि ,एङ्लिष्
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रा
विद्या बिकोम्
प्राथमिक विद्यालयः सुदर्षन् विद्य मन्दिर्
विद्यालयः सुदर्षन् विद्य मन्दिर्
महाविद्यालयः जैन् कोल्लेज्
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः क्रीडनम् क्रिक्केत्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
Interests

क्रीडनम् क्रिक्केत्

मम नाम जयन्थ । मम १९९७ तमे वर्षे,मे मास ,नवमे दिने अभवत् । मम मातापितरौनाम रमणी , रमस्वमी। मम विद्यभ्यसः सुदर्षन् विद्य मन्दिर् नाम् शाले संस्थित । अनन्तरम् जैन् महविद्यालये मम पियुसि पुरिता । इदानीम् क्रिस्त विश्व्विद्यालये बि काम् अभ्यद्ययन । अहम् दशम् कक्षे ८७% अङ्क प्राप्त। ततः परम् द्वितीया पियुसी अपि ९३% अङ्क प्रप्त्वन् ।

क्रिकेट् ( क्रीडा ) मम अत्यासक्ति अस्ति । अहम् क्रिकेत् क्रीडणम् मम ११ वर्षे आरम्बित्वान् । तत् वर्षेपि मम कल्प-१४ सञ्चरः अभवन् ।





1.

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
अं कारः
उच्चारणम्

एषः वर्णमालायां चतुर्दशः वर्णः। अयं स्वतन्त्रः वर्णः न। अकारादिभिः स्वरैः सह योगे सति एव एतस्य उच्चारणं सुशकम्। अतः योगवाहः अथवा "अ"योगवाहः इति अस्य संज्ञा। स्वरान् अनुसृत्य उच्यते, स्वतन्त्रतया नोच्चार्यते इति हेतोः "अनुस्वारः" इति संज्ञा भवति। देशीयभाषासु अनुनासिकानां परत्वेनापि अनुस्वार एव प्रयुज्यते। यथा- अङ्क इति वक्तव्ये अंक इति। किन्तु संस्कृते तथा नास्ति। "नासिकानुस्वारस्य" इति सिद्धान्तकौमुद्यामपि अनुस्वारस्य उच्चारणस्थानं नासिका इत्युक्तम्।

can't use in sandboxवर्णमाला]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]



2.

अंशुमान्

सः अयोध्यायाः राजा आसीत्। पुरा त्रेतायुगे अयोध्यायां बाहुकापरनामा असितो नाम राजाऽऽसीत् । असितस्य पुत्रः "सगरः" । सगरस्य द्वे भार्ये आस्ताम् । प्रथमा विदर्भराजपुत्री वैदर्भी । अस्याः षष्ष्टिपुत्राः पितुः सगरस्य यज्ञाश्वसंरक्षणार्थम् अश्वमनुगत्य, तस्मिन् तुरङ्गमे शक्रेणापहृते तमन्विषन्तः पाताले विद्यमानं कपिलमुनेः आश्रमम् अप्राप्नुवन् । तत्र कपिलस्य कोपाग्निना भस्मीभूताश्च । सगरस्य द्वितीया शिबिराजस्य अरिष्टनेमेः कुमारी केशिन्यपरनाम्नी "सुमतिः" । सुमत्याः पुत्रः "असमञ्जाः" । असमञ्जसः पुत्र एव अंशुमान् । एषः पितामहस्य सगरस्यानुज्ञया कपिलाश्रममासाद्य कपिलमुनिं सम्प्रार्थ्य शान्तेन मुनिना यज्ञाश्वं च प्राप्य, अश्वं पित्रे प्रादात् । तेन तुष्टः सगरः अश्वमेधयागं समपादयत् । अंशुमान् च स्वपितृव्यानां सद्गतिं प्रापयितुं चिन्तयन् गरुडेन ज्ञातवान् यत्, व्योमगङ्गाप्रवाहः यदा तेषां भस्मराश्युपरि वहति तदा तेषां सद्गतिः भविष्यति इति । ततः आंशुमान् सगरात् राज्यं प्राप्य किञ्चित्कालं राज्यभारं निरवहत् । ततः स्वपुत्रे दिलीपे प्राप्तवयसि, तस्मिन् राज्यधुरं निक्षिप्य स्वयं स्वर्गात् व्योमगङ्गां भुवमानेतुकामः तपसे वनं जगाम । किन्तु गङ्गावतरणं कर्तुं न शशाक । बहुकालाऽनन्तरम् अंशुमतः पौत्रः भगीरथः भागीरथीं नभस्तः भूमिमानाययामास । इति रामायणे बालकाण्डे, महाभारते च वनपर्वणि पठ्यते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

can't use in sandboxअयोध्याकुलस्य राजानः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]





3.

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
अः कारः
उच्चारणम्

एषः वर्णमालायां पञ्चदशः वर्णः अस्ति । अस्य विसर्गः, विसर्जनीयः इति च संज्ञा अस्ति । एषः योगवाहेषु अन्तर्भवति । योगेन=सन्निकर्षेण वाह्यन्ते=उच्चार्यन्ते इति योगवाहाः । विसर्गस्य स्वतन्त्रः उच्चारः नास्ति । यदा स्वरेण सह योगः घटते तदैव एतस्य उच्चारणं सुशकम् । अस्य उच्चारणस्थानं कण्ठः । यथा- "अकुहविसर्जनीयानां कण्ठः" सि.कौ. ।

can't use in sandboxवर्णमाला]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]




4.

सामान्यः अकशेरुकः संशोधनार्थं स्वीकृतः

येषां प्राणिनां कशेरुः न भवति ते अकशेरुकाः इति उच्यन्ते । कशेरुः नाम पृष्ठास्थि । "पृष्टास्थिनः तु कशेरुका" इत्यमरः । वलयवत्सु कीटेषु केचन अकशेरुकाः वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरुः यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखाः सदस्याः कीटाः कर्कटाः अष्टपदिनः नक्षत्रमीनाः च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रतिशत जीविनः अकशेरुकाः एव ।

वर्गीकरणम्

[सम्पादयतु]

कार्ल् लिनियस् महोदयः भागद्वयेषु तान् वर्गीकृतवान् - क्रिमिः कीटाः च । आधुनिक जीवविज्ञानिनः ३० वर्गेषु अकशेरुकान् वर्गीकृतवन्तः ।तथापि जन्तूनाम् अकशेरुक-कशेरुक इति वर्गीकरणं विज्ञानिषु जिज्ञासां जनयति । वर्गीकरणम् इदं मनुष्यकेन्द्रितः इति तेषां मतः यतः विश्वस्य अधिकशः प्राणिनः अकशेरुकाः एव । मानवः कशेरुकः इति कारणेन 'अकशेरुक' इति प्राणीनां वर्गीकरणं कृत्रिमः इति तेषाम् अभिप्रायः । अकशेरुकवंशे जीविनां लक्षणाः अपि समानाः न भवन्ति । तथापि कशेरु दृष्ट्या एव अगणिताः जीविनः अकशेरुकवंशे स्थापिताः सन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

can't use in sandboxप्राणिनः]] can't use in sandboxप्राणिविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]





5.

अकिमेनिड्-साम्राज्यम्


वायुव्यभारते पर्षियातः आगतस्य अकीमेनिड्-साम्राज्यस्य शासनम् आसीत् । एतत् साम्राज्यं भारते १८६ वर्षाणि यावत् शासनम् अकरोत् । ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म । एतदवसरे एव आक्रमणं कृतवतः अलेक्साण्डरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत् । अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च अलेक्साण्डरस्य वशं गतौ ।


can't use in sandboxअन्यदेशीयसाम्राज्यानि‎|अकिमेनिड्-साम्राज्यम्]] can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]






6.सः विख्यातः पुरुषः।

Akira Kurosawa
黒澤 明
Akira Kurosawa on the set of Seven Samurai in 1953.
जन्म (१९१०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-२३)२३, १९१०
Shinagawa, Tokyo, Japan
मृत्युः ६, १९९८(१९९८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-०६) (आयुः ८८)
Setagaya, Tokyo, Japan
मृत्योः कारणम् Stroke
वृत्तिः Director, screenwriter, producer, editor
सक्रियतायाः वर्षाणि 1936–1993
भार्या(ः) Yōko Yaguchi (1945–1985) (her death)
अपत्यानि Kazuko Kurosawa
Hisao Kurosawa
पितरौ Isamu Kurosawa
Shima Kurosawa
सम्बन्धिनः Yu Kurosawa (singer, granddaughter), Takayuki Kato (actor, grandson)

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

"

can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxविदेशीयाः]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]





7.

अकीरियल

अकीरियल इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्‍ति ।

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxइटली देशस्य नगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]






8.

अकृशाश्वः

सः अयोध्यायाः राजा आसीत्।

can't use in sandboxअयोध्याकुलस्य राजानः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]





9.

अकोला
महाराष्ट्र रेखाचित्रे अकोलामण्डलं
महाराष्ट्र रेखाचित्रे अकोलामण्डलं

महाराष्ट्रे किञ्चन मण्डलम् अस्ति अकोलामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अकोलानगरम्।

can't use in sandboxमहाराष्ट्रराज्यस्य प्रमुखनगराणि]] can't use in sandboxमहाराष्ट्रराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]






10.

अंशुमान्

अक्कमहादेवी (ಅಕ್ಕ ಮಹಾದೇವಿ)(११३० - ११६०) कर्णाटके द्वादशशतके सम्पन्नस्य वीरशैवभक्ति-आन्दोलनस्य प्रमुखा व्यक्तिः । तया कन्नडभाषया लिखितानि वचनानि कन्नडभक्तिसाहित्याय दत्तानि अत्युत्तमानि उपायनानि । तया आहत्य ४३० वचनानि लिखितानि । बसवेश्वर, चेन्नबसवण्ण, किन्नरि बोम्मय्य, सिद्धराम, अल्लमप्रभु, दासिमय्य इत्यादयः वीरशैवशरणाः सर्वे ताम् आदरेण 'अक्क' (अग्रजा) इति निर्दिशन्ति स्म इत्येतदेव द्योतयति तस्याः महिमानम् । कर्णाटकेतिहासे सा अत्यन्तं प्रभाविनी प्रेरणादात्री महिला वर्तते । सा परमेश्वरं शिवं (चेन्नमल्लिकार्जुनः) एव पत्युः रूपेण अङ्गीकृतवती, या च माधुर्यभक्तिः मधुरभावः इति मन्यते ।

जन्मस्थले उडुतडीग्रामे प्रतिष्ठापिता अक्कमहादेव्याः मूर्तिः
अक्कमहादेव्या रचितं किञ्चन प्रसिद्धं वचनम्

जन्म बाल्यं च

[सम्पादयतु]

कर्णाटकस्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री, कर्णाटकराज्यस्य बनवासीप्रदेशस्य बळ्ळीगावे समीपस्थे उडुतडीग्रामे ११३० तमे वर्षे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन्, मरुळसिद्धेश्वरशरणस्य अनुग्रहेण एका शिशुः जाता । तस्याः नाम एव महादेवी। मरुळसिद्धेश्वरशरणस्य कृपाकटाक्षतः एतस्याः कुटुम्बीयाः श्रीशैलचेन्नमल्लिकार्जुनस्य भक्ताः अभवन् । महादेव्याः विषये अधिकाः विषयाः न प्राप्ताः चेदपि मरुळसिद्धेश्वरशरणस्य प्रभावतः लिङगपूजायाम् आसक्तिः उत्पन्ना इति ज्ञायते । किन्तु गुरुलिङगदेवः इति कश्चित् शरणः काले काले गुरुस्थाने स्थित्वा मार्गदर्शनं कृतवान् ।

वैराग्यम्

[सम्पादयतु]

गुरुलिङगदेवस्य कारणेन महादेवी विरागिणी जाता । आचारमती, शीलवती, विचारवती महादेवी कथं संस्कारेण विना विरागिणी, शिवस्य भक्ता च जाता इत्येव आश्चर्यकरम् । एषः दैवयोगः इति वक्तुं शक्यः । बसवेश्वरेण कृताः धार्मिककार्यक्रमाः महादेव्याः तारुण्ये बहु प्रभावम् अजनयन् । अतः बसवण्णे तस्यां भ्रातृत्वभावः,गौरवं, प्रीतिश्च आसीत् । शिवशरणानां मर्गदर्शनेन वचनसाहित्यं सृष्ट्वा आन्तरङ्गिकाः भावनाः प्रकटीकरोति स्म । समाजस्य प्रगतिविषये, धर्मप्रचारविषये, गुरुलिङगजङगमतत्त्वविषये, धार्मिकक्रान्तिकारिणां पुरुषाणां सहवासे च तस्याः अवधानम् आसीत् न तु मातापितॄणां विषये । तस्याः इष्टदेवस्य श्रीशैलमल्लिकार्जुनस्य दर्शनं करणीयम् एव इति तस्याः लक्ष्यम् । प्रापञ्चिकविषयेषु तस्याः मनः न लगति स्म । अतः शरणसती इत्येषः बिरुदः तस्याः कृते युज्यते स्म । परमसौन्दर्यवती महादेवी स्वस्य सौन्दर्यस्य विषये अवधानं न ददाति स्म । प्रापञ्चिकव्यसनानि त्यक्त्वा सर्वदा चेन्नमल्लिकार्जुनेन सह प्रेम -भावेन भवति स्म । सा विशिष्टस्वभावयुता महाव्यक्तिः । रतिस्वरूपिणी महादेवी स्वव्यक्तित्वेन बहूनां जनानां मार्गदर्शिका, प्रतिवेशिनीनां कृते ज्येष्ठा अग्रजा (कन्नडभाषया अक्क=अग्रजा) इव आसीत्।

सांसारिकजीवनम्

[सम्पादयतु]
उडुतड्याम् अक्कमहादेव्याः निवासः

जैनमतावलम्बी कौशिकः तस्य प्रान्तस्य राजा आसीत् । रतिस्वरूपिणीं सौन्दर्यवतीं महादेवीं दृष्ट्वा तस्मिन् मोहः उत्पन्नः । कौशिकमहाराजस्य मनसि सा परिणेतव्या इति इच्छा उत्पन्ना । एतां वार्तां महादेव्याः मातापितरौ ज्ञातवन्तौ । जिनधर्मीयौ तौ एतं प्रस्तावं न अङ्गीकृतवन्तौ । किन्तु कौशिकमहाराजः तस्याः पितरौ बलात् कारागृहे स्थापितवान्। इदानीं वा पुत्री मम इच्छाम् अनुमन्येत इति तस्य चिन्तनम् आसीत् । राजाज्ञायाः विरुद्धं व्यवहारः कष्टकरः इति विचिन्त्य सा एकम् उपायं विचिन्त्य विवाहार्थम् अङ्गीकृतवती । तदनुगुणं परिस्थितिः निर्मिता । राज्ञा अपि केचन नियमाः अङ्गीकरणीयाः अभवन् । प्रथमं, कौशिकमहाराजेन जिनमतं त्यक्त्वा वीरशौवमतं अङ्गीकरणीयं द्वितीयं महादेव्या क्रियमाणायां गुरुलिङ्गजङ्गमानां सेवायां विघ्नः न आचरणीयः इत । यदा राजा शिवाराधकः भवति तदा एव महादेव्याः स्पर्शः इति तृतीयः नियमः आसीत् । राज्ञा यदि वचनभङ्गः क्रियेते तर्हि विरागिणी भूत्वा प्रासादं त्यजेयम् इत्यपि महादेवी सूचितवती आसीत् । विवाहः सम्पन्नः । राजगृहे कापि न्यूनता न आसीत् । महाराजस्य अन्तरङ्गे बहु आनन्दः जातः । किन्तु लिङ्गपूजकः भवेत्, अन्यथा महादेव्याः अङ्गस्पर्शः असम्भवः आसीत् । महाराजस्य वीरशैवधर्मंस्य आचरणे इच्छा न भवति स्म । अग्रे कदाचित् महादेव्या सह संसारस्य सुखम् अनुभवेयम् इति सः चिन्तितवान् । महादेवी कठिनव्रतधारिणी भूत्वा महाराजस्य चिन्तनानि नाशितवती । संसारिकजीवने तस्याः आसक्तिः न आसीत् । पत्न्याः व्यवहारान् दृष्ट्वा राजा कौशिकः अङ्गसुखाय तस्याः अनुरोधं कृतवान् । एतेन महादेवी रणचण्डी जाता ।

अनुभवमण्डपे

[सम्पादयतु]

शरीरे विद्यमानानि आभरणानि तथा वस्त्राणि निष्कास्य क्षिप्तवती । स्वस्य शरीरस्य विषये अपि न चिन्तितवती, केशराशीं प्रसार्य रणचण्डी इव किञ्चित् कालं स्थितवती । नग्नस्थितौ महादेवी स्वस्य केशराश्या शरीरम् आच्छाद्य प्रासादतः प्रस्थितवती । राजा कौशिकः महादेव्याः एतादृशान् व्यवहारान् दृष्ट्वा शिरः अवनमय्य स्थितवान् । दिगम्बरा देवी दिव्याम्बरा जाता । देहाभिमानं जगतः सम्बन्धं च त्यक्त्वा, मतापित्रोः वचनम् अपि अश्रुत्वा चेन्नमल्लिकार्जुनः एव मम पतिः इति निर्णीय गुरोः अल्लमप्रभोः दर्शनाय प्रयाणम् आरब्धवती । तदा शरणानां कल्याणभूमिः कल्याणनगरम् आसीत् । अल्लमप्रभुः,बसवेश्वरः अन्ये महानुभावाः कल्याणनगरस्य शोभां वर्धितवन्तः आसन् । तत्रत्यः शिवानुभावमण्डपः शिवशरणानां कार्यागारः । एतं मण्डपं प्रति आगतवती अक्कमहादेवी । सर्वे एताम् आनन्देन स्वागतीकृतवन्तः । तत्र तस्याः प्रभोः लिङ्गदेवस्य दर्शनम् अभवत् । शरणबसवण्णः इतरे शरणाः च महादेव्याः निर्वाणस्थितिं दृष्ट्वा आश्चर्यंम् अनुभूतवन्तः । प्रभुलिङ्गदेवेन तस्याः निर्वाणस्थितिः उद्देशपूर्वकं शङ्किता। ‘ देहाभिमानं त्यक्तवती इति वदति तर्हि किमर्थं शाटिकां त्यक्त्वा केशैः आच्छादितवती? केशाः एव शाटिकारूपेण अङ्गानाम् आवरणं कुर्वन्ति इति खलु ! एषः गुहेश्वरलिङ्गस्य इष्टवेशः न ’ इति अल्लमप्रभुः उक्तवान् । तस्य उत्तरं बुद्धिमती महादेवी एवम् उक्तवती "पक्वभवनेन फलस्य त्वचः सौन्दर्यं नष्टं न भवति” । अतः काममुद्रां दृष्ट्वा भवतः दुःखं न भवेत् इति केशैः आवृतवती” इति । एवं महादेव्याः वादं श्रुत्वा अल्लमप्रभोः तृप्तिः अभवत् । महादेवीं बसवण्णः तथा तत्र विद्यामानाः मुक्तकण्ठैः श्लाघितवन्तः । महादेवी शरणानां प्रीतिं प्राप्य अक्कमहादेवी जाता । बसवण्णः तां स्वस्य मातृवत् गौरवभावेन दृष्टवान् । बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधिका भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदलीक्षेत्रे तस्याः जीवनं दिव्यज्योतिरूपेण परिणतम् अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेवी तत्र कर्पूरवत् ज्वलन्ती शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् । अक्कमहादेव्याः भक्तिभावः "शरणसती लिङ्गपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

can't use in sandboxआधुनिकगुरवः]] can't use in sandboxशैवमतप्रचारकाः]] can't use in sandboxमध्ययुगीयधार्मिकव्यक्तयः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]