चतुर्दशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनानुगुणं मासस्य चतुर्दशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च चतुर्दशं दिनं चतुर्दशी तिथिः भवति । अमावास्यायाः अनन्तरं या चतुर्दशी आगच्छति तस्याः शुक्लपक्षस्य चतुर्दशी इति, पूर्णिमायाः अनन्तरं या चतुर्दशी आगच्छति तस्य कृष्ण्पक्षस्य चतुर्दशी इति कथयन्ति । आश्वीजमासस्य कृष्णपक्षस्य चतुर्दश्यां दीपावली पर्वणः आरम्भः भवति । इयं चतुर्दशी नरकचतुर्दशी इति नाम्ना ख्याता । भगवान् श्रीकृष्णः नरकासुरं संहार्य १६सहस्रं नारीणां बन्धमोक्षं कृतवान् इति भारतीयेतिहासकथा अस्ति । अग्रिमदिनम् अमावास्या भवति । अस्यां तिथौ लक्ष्मीपूजायाः पर्व भवति । परेद्युः कार्तिकप्रतिपत् तिथौ बलिप्रतिपत् इति नम्ना बलिचक्रवर्तिनः पूजा भवति । एतस्मात् दिनात् एव कार्तिकदीपोत्सवः भारते सर्वत्र आरप्स्यते ।

"https://sa.wikipedia.org/w/index.php?title=चतुर्दशी&oldid=395345" इत्यस्माद् प्रतिप्राप्तम्