पञ्चमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगनायाः अनुगुणं मासस्य पञ्चमं दिनं भवति पञ्चमी तिथिः । प्रत्येकं मासे शुक्लपक्षस्य कृष्णपक्षस्य च पञ्चमं दिनम् इयमेव तिथिः भवति । भारतीयपर्वाणि सर्वदा तिथिवारनक्षत्रादीनाम् आधारेण एव आचर्यन्ते खलु । विविधमासानां पञ्चम्याम् अनेकानि पर्वाणि भवन्ति । तेषु श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यमाणा नागपञ्चमी विशेषं पर्व अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=पञ्चमी&oldid=395532" इत्यस्माद् प्रतिप्राप्तम्