वैशाखमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालमाने एषः वैशाखमासः द्वीतीयः । (मराठी: वैशाख) (हिन्दी: बैसाख) (नेपाली: बैशाख) । अयं मासः नेपालीदिनदर्शिकायां, वङ्गदिनदर्शिकायां च प्रथमः मासः। अस्य ऋतुः वसन्तः । अस्मिन् एव घर्मकालस्य आरम्भः भवति । भारतीय-राष्ट्रिय-दिनदर्शिकायां वैशाखमासः (सामान्यतः) एप्रिल् २१ तः मेमासस्य २० पर्यन्तं भवति । हिन्दुसौरमानदिनदर्शिकायां वैशाखमासस्य आरम्भः एप्रिल्मासस्य मध्यभागे आरभ्यते वङ्गे, पञ्जाबे, नेपाले च । तमिळुनाडुराज्ये वैकाशि इति कथ्यते । हिन्दुचान्द्रमानदिनदर्शिकायां वैशाखमासस्य आरम्भः एप्रिल्मासस्य अमावास्यायां भवति ।

उत्सवः[सम्पादयतु]

कृषिफलोत्सवः वैशाखी अस्मिन् मासे आचर्यते ।

"https://sa.wikipedia.org/w/index.php?title=वैशाखमासः&oldid=395897" इत्यस्माद् प्रतिप्राप्तम्