षष्ठी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगनायाः अनुगुणं मासस्य षष्ठं दिनं भवति षष्ठी तिथिः । प्रत्येकं मासे शुक्लपक्षस्य कृष्णपक्षस्य च षष्ठं दिनम् इयमेव तिथिः भवति । भारतीयपर्वाणि सर्वदा तिथिवारनक्षत्रादीनाम् आधारेण एव आचर्यन्ते खलु । कदाचित् षष्ठी अपि पर्वदिनं भवन्ति । तत्र सुब्रह्मण्यषष्ठी अथवा स्कन्दषष्ठी अथवा चम्पाषष्ठी इति मार्गशीर्षमासे शुक्लपक्षे षष्ठ्यां तिथौ आचर्यते एतत् पर्व अतिविशिष्टम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=षष्ठी&oldid=395944" इत्यस्माद् प्रतिप्राप्तम्