ऋतवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

ऋतुः वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । चैत्रवैशाखमासयोः वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते । ज्येष्ठाषाढयोः ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति । श्रावणभाद्रपदयोः वर्षतुः । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति । आश्वयुजकार्तिकयोः शरदृतुः । आकाशः निर्मलःभवति मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति वायुः अतिशितः वाति । माघफाल्गुणयोः शिशिर्तुः । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।


ऋतुमासानां तुलना[सम्पादयतु]

ऋतवः seasons मासाः ग्रेगरियन् मासाः
ग्रीष्मर्तुः Summer ज्येष्ठमासतः आषाढमासपर्यन्तम् मे - जून्
वर्षतुः Rainy श्रावणमासतः भाद्रपदमासपर्यन्तम् जुलै - सप्टम्बर्
शरदृतुः Autumn आश्वीजमासतः कार्तिकमासपर्यन्तम् अक्टोबर् - नवेम्बर्
हेमन्तर्तुः Pre-winte मार्गशीर्षमासतः पुष्यमासपर्यन्तम् डिसेम्बर -जनवरी १५
शिशिर्तुः Winter माघमासतः फाल्गुणमासपर्यन्तम् जनवरी १६ - फेब्रवरी
वसन्तर्तुः Spring चैत्रमासतः वैशाखमासपर्यन्तम् मार्च् - एप्रिल्

इमान्यपि दृश्यताम्[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ऋतवः&oldid=282696" इत्यस्माद् पुनः प्राप्तिः