प्रतिपत्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगणनानुगुणं मासस्य प्रथमं दिनं भवति । मासस्य दिनानां तिथयः इति वदन्ति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च आरम्भः अनया तिथ्या भवति । प्रतिपदि एव कानिचनभारतीयपर्वाणि भवन्ति । तेषु बलिप्रतिपत् किञ्चन महापर्व अस्ति । कार्त्तिकमासे शुक्लपक्षे प्रतिपत् बलिप्रतिपत् इति व्यवहारः ।

"https://sa.wikipedia.org/w/index.php?title=प्रतिपत्&oldid=457158" इत्यस्माद् प्रतिप्राप्तम्