सोमवासरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सोमवासरः सप्ताहस्य एकं दिनं भवति । रविवासरात् अनन्तरं मङ्गलवासरात् पूर्वं सोमवासरः तिष्ठति । अस्य इन्दुवासरः अपि नामान्तरम् अस्ति । सोमः इन्दुः च चन्द्रस्य पर्यायपदे भवतः । अयं चन्द्रस्य नाम्नि विद्यमानः वासरः । सप्ताहः कस्मात् वासरात् आरप्स्यते इति वक्तुं सुकरं न भवति वीजवृक्षन्यायः इव । सामान्यतः लोकव्यवहारे कर्यारम्भस्य दिनं सोमवासरः भवति । सोमवासरः शिवपूजार्थं प्रसस्तं दिनम् इति शास्त्राधारः ।

"https://sa.wikipedia.org/w/index.php?title=सोमवासरः&oldid=410474" इत्यस्माद् प्रतिप्राप्तम्