नवमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालगनायाः अनुगुणं मासस्य नवमं दिनं भवति नवमी तिथिः । प्रत्येकं मासे शुक्लपक्षस्य कृष्णपक्षस्य च नवमं दिनम् इयमेव तिथिः भवति । भारतीयपर्वाणि सर्वदा तिथिवारनक्षत्रादीनाम् आधारेण एव आचर्यन्ते खलु । विविधमासानां नवम्यां भिन्नानि पर्वाणि भवन्ति । तेषु आश्वीजमासस्य शुक्लपक्षस्य नवम्यां तिथौ आचर्यमाणा महानवमी विशेषं पर्व अस्ति । इदं नवत्रात्रपर्वणः नवमं दिनं भवति ।

"https://sa.wikipedia.org/w/index.php?title=नवमी&oldid=395491" इत्यस्माद् प्रतिप्राप्तम्