चैत्रमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयकालमाने वर्षस्य प्रथमः मासः चैत्रमासः (मराठी - चैत्र, हिन्दी - चैत्र, बेङ्गाली - চৈত্র , अस्सामी - চ'ত, कन्नड - ಚೈತ್ರ, तेलुगु - చైత్రము, तमिळु - சித்திரை, मलयालम् - ചൈത്രം) । वसन्त्रतौ अयं मासः अन्तर्गगच्छति । अतीव रम्यकालः एषः ।

भारतीयसांस्कृतिकदिनदर्शिकायां चैत्रमासः भवति वर्षस्य प्रथमः मासः । नेपालीदिनदर्शिकायाम् अयं भवति वर्षस्य अन्तिमः मासः यत्र बैसाखमासः प्रथमः । ग्रेगोरियन्-दिनदर्शिकायाम् अयं चैत्रमासः मार्च्-एप्रिल्मासयोः कदाचित् आरभ्यते । सौरमानपद्धतेः चान्द्रमानपद्धतेः अनुसारम् इदं निश्चितं भवति ।

अयं वङ्गीयदिनदर्शिकायाम् अन्तिमः मासः । मार्च्-मासस्य मध्यभागे इदम् आरप्स्यते । तमिळुदिनदर्शिकायाम् अयं मासः एप्रिल्-मासस्य मध्यभागे आरप्स्यते ।

वैष्णवदिनदर्शिकायां विष्णुः अस्य मासस्य अधिपः अस्ति ।

उत्सवाः[सम्पादयतु]

चैत्रमासः वसन्तस्य आगमनेन सह भवति । होलिकापर्व - वर्णानाम् उत्सवः आचर्यते । ततः षष्ठे दिने 'चैति छात्'पर्व भवति । चैत्रमासस्य प्रथमं दिनं युगादिः - नूतनवर्षस्य दिनम् इति आचर्यते कर्णाटके आन्ध्रप्रदेशे च । 'गुडि पाड्व' इति महाराष्ट्रे, 'चैत्रै विष्णु' 'पुथण्डु' इति वा तमिळुनाडुराज्ये च आचर्यते ।

चैत्रमासस्य नवमं दिनं रामनवमी - भगवतः रामस्य जन्मदिनत्वेन आचर्यते । चैत्रमासस्य पूर्णिमायां हनुमज्जयन्ती आचर्यते ।

तमिळुसौरमानधार्मिकदिनदर्शिकायाः अनुसारं चित्तेरै-मासः एप्रिल्मासस्य मध्यभागे सूर्यस्य मेषप्रवेशावसरे आरभ्यते । अयं वर्षस्य प्रथममासः । चैत्रमासः मङ्गलकरः मासः इति मन्यते यतः तदा एव अस्य जगतः सृष्टेः आरम्भः जातः । चैत्र इत्येषः शब्दः 'मेषराशिः' 'वसन्तः' इत्यर्थे च प्रयुज्यते ।

चैत्रमासि जगद्ब्रह्म ससर्जु प्रथमेहनि ।
शुक्लपक्षसमग्रन्तु तदा सूर्योदये सति ।
प्रवर्तयामास तथा कालस्य गणनामपि ।
ग्रहान्तारान् ऋतून् मासान्वत्सरान् वत्सराधिपान् ॥ (चतुर्वर्गचिन्तामणिः)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चैत्रमासः&oldid=395368" इत्यस्माद् प्रतिप्राप्तम्