अधर्माभिभवात् कृष्ण...
श्लोकः[सम्पादयतु]

- अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
- स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकचतुरिंशत्तमः (४१) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अधर्माभिभवात्, कृष्ण, प्रदुष्यन्ति, कुलस्त्रियः । स्त्रीषु, दुष्टासु, वार्ष्णेय, जायते, वर्णसङ्करः ॥
अन्वयः[सम्पादयतु]
कृष्ण ! अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति । वार्ष्णेय ! स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।
शब्दार्थः[सम्पादयतु]
- कृष्ण = हे माधव !
- अधर्माभिभवात् = अधर्माक्रमणात्
- कुलस्त्रियः = साध्व्यः
- प्रदुष्यन्ति = व्यभिचरन्ति
- वार्ष्णेय = कृष्ण !
- स्त्रीषु = नारीषु
- दुष्टासु = व्यभिचरितासु
- वर्णसङ्करः = वर्णमिश्रणम्
- जायते = भवति ।
अर्थः[सम्पादयतु]
अधर्मः यदि कुलानि आवृणोति तर्हि कुलस्त्रियः प्रदुष्यन्ति । ताः यदा प्रदुष्यन्ति तदा वर्णसङ्करः भवति ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in