सामग्री पर जाएँ

तत्रापश्यत् स्थितान् पार्थः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः

[सम्पादयतु]
गीतोपदेशः
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्विंशतितमः (२६) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

तत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान् । आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, तथा ॥ श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि ।

अन्वयः

[सम्पादयतु]

अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् ।

शब्दार्थः

[सम्पादयतु]
अथ = ततः
पार्थः = अर्जुनः
तत्र = तस्मिन् प्रदेशे
स्थितान् = वर्तमानान्
पितॄन् = पितृतुल्यान्
पितामहान् = पितुः पितॄन्
आचार्यान् = गुरून्
मातुलान् = मातृसहोदरान्
भ्रातॄन् = सहोदरान्
पुत्रान् = पुत्रतुल्यान्
पौत्रान् = पुत्रपुत्रान्
सखीन् = मित्राणि
श्वशुरान् = भार्यायाः पितॄन्
सुहृदः च = कृतोपकारान् च
उभयोः = द्वयोः
अपि = अपि
सेनयोः = सैन्ययोः
अपश्यत् = दृष्टवान् ।

तयोः सेनयोः अर्जुनः स्वबान्धावान्, गुरून्, मित्राणि च अपश्यत् ।

श्लोकवैशिष्ट्यम्

[सम्पादयतु]

विषयस्य सुबोधाय अग्रिमश्लोकस्य प्रथमपादः अपि अत्रैव दत्तम् वर्तते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...| अत्र शूरा महेष्वासा...| धृष्टकेतुः चेकितानः...| युधामन्युश्च विक्रान्त...| अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...| अयनेषु च सर्वेषु...| तस्य सञ्जनयन् हर्षं...| ततः शङ्खाश्च भेर्यश्च...| ततः श्वेतैर्हयैर्युक्ते...| पाञ्चजन्यं हृषीकेशो...| अनन्तविजयं राजा...| काश्यश्च परमेष्वासः...| द्रुपदो द्रौपदेयाश्च...| स घोषो धार्तराष्ट्राणां...| अथ व्यवस्थितान् दृष्ट्वा...| सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...| योत्स्यमानानवेक्षेऽहं...| एवमुक्तो हृषीकेशो...| भीष्मद्रोणप्रमुखतः...| तत्रापश्यत् स्थितान् पार्थः...| तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...| सीदन्ति मम गात्राणि...| गाण्डीवं स्रंसते हस्तात्...| निमित्तानि च पश्यामि...| न काङ्क्षे विजयं कृष्ण...| येषामर्थे काङ्क्षितं नो...| आचार्याः पितरः पुत्राः...| एतान्न हन्तुमिच्छामि...| निहत्य धार्तराष्ट्रान्नः का...| तस्मान्नार्हा वयं हन्तुं...| यद्यप्येते न पश्यन्ति...| कथं न ज्ञेयमस्माभिः...| कुलक्षये प्रणश्यन्ति...| अधर्माभिभवात् कृष्ण...| सङ्करो नरकायैव...| दोषैरेतैः कुलघ्नानां...| उत्सन्नकुलधर्माणां...| अहो बत महत्पापं...| यदि मामप्रतीकारम्...| एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

[सम्पादयतु]