उत्सन्नकुलधर्माणां...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
- नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुश्चत्वारिंशत्तमः (४४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]उत्सन्नकुलधर्माणाम्, मनुष्याणाम् जनार्दन । नरके, अनियतम्, वासः, भवति, इति, अनुशुश्रुम ॥
अन्वयः
[सम्पादयतु]जनार्दन ! उत्सन्नकुलधर्माणां मनुष्याणां नरके अनियतं वासः भवति’ इति अनुशुश्रुम ।
शब्दार्थः
[सम्पादयतु]- जनार्दन = हे कृष्ण !
- उत्सन्नकुलधर्माणाम् = नष्टवंशाचाराणाम्
- मनुष्याणाम् = नराणाम्
- अनियतम् = दीर्घकालं यावत्
- नरके = निरये
- वासः = स्थितिः
- भवति इति = सम्पद्यते इति
- अनुशुश्रुम = श्रुतवन्तः ।
अर्थः
[सम्पादयतु]येषां कुलधर्माः नष्टाः सन्ति तेषां नरके अतिदीर्घकालं यावत् वासः भविष्यति इति अस्माभिः श्रुतम्।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.gitasupersite.iitk.ac.in